पराशरसंहितायां हयग्रीवमन्त्रविवरणम्
श्रीहयग्रीवैकाक्षरी ।
अथोच्यन्ते विशेषेण क्रमाद्द्वादशसङ्ख्यया ।
हयग्रीवमहामन्त्रा विद्यामोक्षप्रदायकाः ॥
सान्तं हान्तं समुद्धृत्य प्रणवान्तं सबिन्दुकम् ।
एकाक्षरं हयग्रीवमेतत् ज्ञानादिदायकम् ॥
षट्स्वरैस्तुकरन्यासं कुर्यात् देव षडङ्गकम् ।
व्याप्यं तद्व्यापकं चैव तन्मन्त्रेणैव कारयेत् ॥
एकाक्षरहयग्रीवं दृष्ट्वा पूर्वोक्तमादरात् ।
पौरश्चरणहूमादि कुर्यात्तन्मन्त्रसिद्धये ॥
श्रीहयग्रीवत्रयक्षरी ।
क्रमाद्वक्ष्ये विधानेन हयग्रीवत्रयाक्षरम् ।
``महामायां ह्सौं ह्रीं'' च भवेदेतत्त्रयाक्षरम् ।
ज्ञानैश्वर्यकरं शान्तं सर्वेषां मुक्तिदायकम् ॥
करन्यासं षडङ्गं तु कुर्यान्मन्त्राक्षरत्रयैः ।
हयग्रीवमहं वन्दे चक्रपद्मधरं विभुम् ॥
श्रीभूमिसहितं देवं सर्वाभरणभूषितम् ।
लक्षमेकं जपेद्भक्त्या एतन्मन्त्रादिसिद्धये ॥
श्रीहयग्रीवषडक्षरम् ।
होमपूजादिकं सर्वमेकाक्षरवदाचरेत्,
वक्ष्ये तद्वत्क्रमेणैव हयग्रीवषडक्षरम् ॥
``ॐ-हं-सां-हुं-फट्स्वाहेति'' उद्धरेन्मन्त्रमुत्तमं
ज्ञानमोक्षप्रदं नॄणां सर्वदिग्विजयप्रदम् ॥
प्रणवेन करन्यासं षडङ्गं षट्स्वरैन्यसेत्,
चक्रशङ्खगदापद्मज्ञानपुस्तक धारिणम् ॥
हयग्रीवमहं वन्दे किरीटादिविभूषितम् ॥
पौरश्चरणहोमादी नेवं क्रमादीनेकाक्षरवदाचरेत् ।
श्रीहयग्रीवाष्टाक्षरी ।
अष्टाक्षरं हयग्रीवं क्रमाद्वक्ष्ये चतुर्मुखम् ।
``ॐ हयग्रीवाय नम''इति इदमष्टाक्षरं भवेत् ॥
हयग्रीवमिदं शान्तं मोक्षश्रीज्ञानदायकम्!
प्रणवेन करन्यासं षडङ्गं षट्स्वरैः न्यसेत् ॥
शङ्खचक्रगदापद्मज्ञानपुस्तकधारिणम् ।
पाशाङ्कुशधरं देवं हयग्रीवमहं भजे ॥
श्रीहयग्रीवदशाक्षरी
पूजनार्चादिकं सर्वं तदेकाक्षरवद्भवेत् ।
दशाक्षरं हयग्रीवं वक्ष्ये तद्वत्क्रमेण च ॥
``ॐ ह्रीं ह्लौं हयग्रीवाय स्वाहा'' इति मन्त्रं समुद्धरेत् ॥
दशाक्षर हयग्रीवमेतद्विद्याप्रदायकम् ।
प्रणवेन करन्यासं षडङ्गं षट्स्वरैन्न्यसेत् ॥
चक्रशङ्खगदापद्म पाशशार्ङ्गासि धारिणम् ।
ज्ञानादिपुस्तकधरं हयाननमहं भजे ॥
पौरश्चरणहोमादीनेकाक्षरवदाचरेत् ।
श्रीहयग्रीव द्वादशाक्षरी ।
हयग्रीवाख्यममलं वक्ष्ये तद्द्वादशाक्षरम् ।
``ॐ नमो भगवते हयग्रीवाय''मनुर्भवेत् ।
हयग्रीवमनुं शान्तं विद्यैश्वर्यादिदायकम् ।
प्रणवेन करन्यासं षट्स्वरैस्तु षडङ्गकम् ॥
पूजाहोमादिकं सर्वमेकाक्षर वदाचरेत् ।
शङ्खचक्रगदापद्मज्ञानपुस्तक धारिणम् ।
पाशाङ्कुशाग्नि वज्रादिखेटकुन्तधरं विभुम् ॥
श्रीभूनीळाधिपं देवं वनमालाविराजितम् ।
हयग्रीवं भजे नित्यं सर्वाभरणभूषितम् ॥
श्रीहयग्रीवानुष्टुप् ।
वक्ष्ये चानुष्टुभं शान्तं हयग्रीवमनुत्तमम् ॥
भुक्तिमुक्तिप्रदं सम्यक् सर्वविद्याप्रदायकम् ॥
ऋग्यजुस्सामरूपाय वेदाहरणकर्मणे ।
प्रणवोद्गीथवपुषे महाश्वशिरसे नमः ॥
उद्गीथ प्रणवोद्गीथ सर्ववागीश्वरेश्वर ।
सर्ववेदमयाचिन्त्य सर्वं बोधय बोधय ॥
पदै रर्थैः करन्यासं कुर्याद्देव षडकङ्गकम् ।
आनुष्टुभद्वयं चैव ज्ञानाद्यैश्च तथा भवेत् ॥
ध्यानार्चनादिकं सर्वमेकाक्षरवदाचरेत् ॥
ॐ ह्लौं ह्रीं श्रीम्-ऐम्-श्रीहयग्रीव मम सर्वविद्यां दापय दापय ।
तामसबुद्धिं हन हन ॥ अज्ञानादीन् नाशय नाशय ॥
सर्व वेदशास्त्रादिषु सर्वज्ञत्वं दापय दापय ।
अणिमादीन् दद फट् स्वाहा ॥ ९॥
एतन्मन्त्रार्थ सिद्ध्यर्थं जपेदयुतमादरात् ॥
ॐ ह्रीं हयग्रीवाय यं रं परवादिविद्या परवादिजिह्वास्तम्भं
कुरु कुरु हुं फट् स्वाहा ॥ १०॥
जपेदयुतमेतद्वै तन्मन्त्रफलसिद्धये ॥
ॐ ह्रीं ष्ट्रां हयग्रीवाय परवादिसर्ववेदशास्त्रसर्वविद्यामाकर्ष
याकर्षय ह्लौं क्षौं वौ षट् ॥ ११॥
ॐ ष्ट्रां श्रीं क्षां हयग्रीवनारसिंहाय यं रं सर्वशत्रून्
स्तम्भय स्तम्भय भ्रामय भ्रामय हुं फट् ॥ १२॥
एतन्मन्त्रार्थसिद्ध्यर्थं जपेदयुतमादरात् ॥
इति श्रीपाञ्चरात्रे पराशरसंहितायां विशिष्टपरमधर्मशास्त्रे
हयग्रीवमन्त्राणां ऋष्यादिध्यानवर्णनं नाम अष्टाविंशोध्यायः सम्पूर्णः ।
Proofread by Chandrasekhar Karumuri