हयग्रीवपूजाविधिः

हयग्रीवपूजाविधिः

रुद्र उवाच । पुनर्देवार्चनं ब्रूहि हृषीकेश गदाधर । श‍ृण्वतो नास्ति तृप्तिर्मे गदतस्तव पूजनम् ॥ १॥ हरिरुवाच । हयग्रीवस्य देवस्य पूजनं कथयामि ते । तच्छृणुष्व जगन्नाथो येन विष्णुः प्रतुष्यति ॥ २॥ मूलमन्त्रं महादेव हयग्रीवस्य वाचकम् । प्रवक्ष्यामि परं पुण्यं तदादौ श‍ृणु शङ्कर ॥ ३॥ ॐ हौं क्ष्रौं शिरसे नमः इति प्रणवसंयुतः । अयं नवाक्षरोमन्त्रः सर्वविद्याप्रदायकः ॥ ४॥ अस्याङ्गानि महादेव ताञ्छृणुष्व वृषध्वज । ॐ क्ष्रां हृदयाय नमः । ॐ क्ष्रीं शिरसे स्वाहाशिरः प्रोक्तं क्ष्रूं वषट् तथा ॥ ५॥ ॐ कारयुक्ता देवस्य शिखा ज्ञेया वृषध्वज । ॐ क्ष्रैं कवचाय हुं वै कवचं परिकीर्त्तितम् ॥ ६॥ ॐ क्ष्रौं नेत्रत्रयाय वौषट् नेत्रं देवस्य कीर्तितम् । ॐ हः अस्त्राय फट् अस्त्रं देवस्य कीर्त्तितम् ॥ ७॥ पूजाविधिं प्रवक्ष्यामि तन्मे निगदतः श‍ृणु । आदौ स्नात्वा तथाऽऽचम्य ततो यागगृहं व्रजेत् ॥ ८॥ ततः प्रविश्य विधिवत्कुर्याद्वै शोषणादिकम् । यं क्षौं रमिति बीजैश्च कठिनीकृत्य लमिति ॥ ९॥ अण्डमुत्पाद्य च ततः ओङ्कारेणैव भेदयेत् । अण्डमध्ये हयग्रीवमात्मानं परिचिन्तयेत् ॥ १०॥ शङ्खकुन्देन्दुधवलं मृणालरजतप्रभम् । गोक्षीरसदृशं तद्वत्सूर्यकोटिसमप्रभम् । शङ्खं चक्रं गदां पद्मं धारयन्तं चतुर्भुजम् ॥ ११॥ किरीटिनं कुण्डलिनं वनमालासमन्वितम् । सुचक्रं सुकपोलं च पीताम्बरधरं विभुम् ॥ १२॥ भावयित्वा महात्मानं सर्वदेवैः समन्वितम् । अङ्गमन्त्रैस्ततो न्यासं मूलमन्त्रेण वै तथा ॥ १३॥ ततश्च दर्शयेन्मुद्रां शङ्खपद्मादिकां शुभाम् । ध्यायेद्ध्यात्वार्चयेद्विष्णुं मूलमन्त्रेण शङ्कर ॥ १४॥ ततश्चावाहयेद्रुद्र देवता आसनस्य याः । ॐ हयग्रीवासनस्य आगच्छत च देवताः ॥ १५॥ आवाह्य मण्डले तास्तु पूजयेत्स्वस्तिकादिके । द्वारे धातुर्विधातुश्च पूजा कार्या वृषध्वज ॥ १६॥ समस्तपरिवाराय अच्युताय नम इति । अस्य मध्येऽर्चनं कार्यं द्वारे गङ्गाञ्च पूजयेत् ॥ १७॥ यमुनां च महादेवीं शङ्खपद्मनिधी तथा । गरुडं पूजयेदग्रे मध्ये शक्तिञ्च पूजयेत् ॥ १८॥ आधाराख्यां महादेव ततः कूर्मं समर्चयेत् । अनन्तं पृथिवीं पश्चाद्धर्मज्ञानौ ततोऽर्चयेत् ॥ १९॥ वैराग्यमथ चैश्वर्यमाग्नेयादिषु पूजयेत् । अधर्माज्ञानावैराग्यानैश्रर्ग्यादींस्तु पूर्वतः ॥ २०॥ सत्त्वं रजस्तमश्चैव मध्यदेशेऽथ पूजयेत् । नन्दं नालं च पद्मं च मध्ये चैव प्रपूजयेत् ॥ २१॥ अर्कसोमाग्निसंज्ञानां मण्डलानां हि पूजनम् । मध्यदेशे प्रकर्त्तव्यमिति रुद्र प्रकीर्त्तितम् ॥ २२॥ विमलोत्कर्षिणी ज्ञाना क्रियायोगे वृषध्वज । प्रह्वी सत्या तथेशानानुग्रहौ शक्तयो ह्यमूः ॥ २३॥ पूर्वादिषु च पत्रेषु पूज्याश्च विमलादयः । अनुग्रहा कर्णिकायां पूज्या श्रेयोऽर्थिभिर्नरैः ॥ २४॥ प्रणवाद्यैर्नमोऽन्तैश्च चतुर्थ्यन्तैश्च नामभिः । मन्त्रैरेभिर्महादेव आसनं परिपूजयेत् ॥ २५॥ स्नानगन्धप्रदानेन पुष्पधूपप्रदानतः । दीपनैवेद्यदानेन आसनस्यार्चनं शुभम् ॥ २६॥ कर्त्तव्यं विधिनानेन इति ते हर कीर्त्तितम् । ततश्चावाहयेद्देवं हयग्रीवं सुरेश्वरम् ॥ २७॥ वामनासापुटेनैव आगच्छन्तं विचिन्तयेत् । आगच्छतः प्रयोगेण मूलमन्त्रेण शङ्कर ॥ २८॥ आवाहनं प्रकर्त्तव्यं देवदेवस्य शङ्खिनः । आवाह्य मण्डले तस्य न्यासं कुर्यादतन्द्रितः ॥ २९॥ न्यासं कृत्वा च तत्रस्थं चिन्तयेत्परमेश्वरम् । हयग्रीवं महादेवं सुरासुरनमस्कृतम् ॥ ३०॥ इन्द्रादिलोकपालैश्च संयुक्तं विष्णुमव्ययम् । ध्यात्वा प्रदर्शयेन्मुद्राः शङ्खचक्रादिकाः शुभाः ॥ ३१॥ पाद्यार्घ्याचमनीयानि ततो दद्याच्च विष्णवे । स्नापयेच्च ततो देवं पद्मनाभमनामयम् ॥ ३२॥ देवं संस्थाप्य विधिवद्वस्त्रं दद्याद्वृषध्वज । ततो ह्याचमनं दद्यादुपवीतं ततः शुभम् ॥ ३३॥ ततश्च मण्डले रुद्र ध्यायेद्देवं परेश्वरम् । ध्यात्वा पाद्यादिकं भूयो दद्याद्देवाय शङ्कर ॥ ३४॥ दद्याद्भैरवदेवाय मूलमन्त्रेण शङ्कर । ॐ क्षां हृदयाय नमः अनेन हृदयं यजेत् ॥ ३५॥ ॐ क्षीं शिरसे नमश्च शिरसः पूजनं भवेत् । ॐ क्षूं शिखायै नमश्च शिखामेतेन पूजयेत् ॥ ३६॥ ॐ क्षैं कवचाय नमः कवचं परिपूजयेत् । ॐ क्षौं नेत्राय नमश्च नेत्रं चानेन पूजयेत् ॥ ३७॥ ॐ क्षः अस्त्राय नम इति अस्त्रं चानेन पूजयेत् । हृदयं च शिरश्चैव शिखां च कवचं तथा ॥ ३८॥ पूर्वादिषु प्रदेशेषु ह्येतास्तु परिपूजयेत् । कोणेष्वस्त्रं यजेद्रुद्र नेत्रं मध्ये प्रपूजयेत् ॥ ३९॥ पूजयेत्परमां देवीं लक्ष्मीं लक्ष्मीप्रदां शुभाम् । शङ्खं पद्मं तथा चक्रं गदां पूर्वादितोऽर्चयेत् ॥ ४०॥ खड्गं च मुसलं पाशमङ्कुशं सशरं धनुः । पूजयेत्पूर्वतो रुद्र एभिर्मन्त्रैः स्वनामकैः ॥ ४१॥ श्रीवत्सं कौस्तुभं मालां तथा पीताम्बरं शुभम् । पूजयेत्पूर्वतो रुद्र शङ्खचक्रगदाधरम् ॥ ४२॥ ब्रह्माणं नारदं सिद्धं गुरुं परगुरुं तथा । गुरोश्च पादुके तद्वत्परमस्य गुरोस्तथा ॥ ४३॥ इन्द्रं सवाहनं चाथ परिवारयुतं तथा । अग्निं यमं निरृतिं च वरुणं वायुमेव च ॥ ४४॥ सोममीशानमेवं वै ब्रह्माणं परिपूजयेत् । पूर्वादिकोर्ध्वपर्यन्तं पूजयेद्वृषभध्वज ॥ ४५॥ वज्रं शक्तिं तथा दण्डं खड्गं पाशं ध्वजं गदाम् । त्रिशूलं चक्रपद्मे च आयुधान्यथ पूजयेत् ॥ ४६॥ विष्वक्सेनं ततो देवमैशान्यां दिशि पूजयेत् । एभिर्मन्त्रैर्नमोऽन्तैश्च प्रणवाद्यैर्वृषध्वज ॥ ४७॥ पूजा कार्या महादेव ह्यनन्तस्य वृषध्वज । देवस्य मूलमन्त्रेण पूजा कार्या वृषध्वज ॥ ४८॥ गन्धं पुष्पं तथा धूपं दीपं नैवेद्यमेव च । प्रदक्षिणं नमस्कारं जप्यं तस्मै समर्पयेत् ॥ ४९॥ स्तुवीत चानया स्तुत्या प्रणवाद्यैर्वृषध्वज । ॐ नमो हयशिरसे विद्याध्यक्षाय वै नमः ॥ ५०॥ नमो विद्यास्वरूपाय विद्यादात्रे नमो नमः । नमः शान्ताय देवाय त्रिगुणायात्मने नमः ॥ ५१॥ सुरासुरनिहन्त्रे च सर्वदुष्टविनाशिने । सर्वलोकाधिपतये ब्रह्मरूपाय वै नमः ॥ ५२॥ नमश्चेश्वरवन्द्याय शङ्कचक्रधारय च । नम आद्याय दान्ताय सर्वसत्त्वहिताय च ॥ ५३॥ त्रिगुणायागुणायैव ब्रह्मविष्णुस्वरूपिणे । कर्त्रे हर्त्रे सुरेशाय सर्वगाय नमो नमः ॥ ५४॥ इत्येवं संस्तवं कृत्वा देवदेवं विचिन्तयेत् । हृत्पद्मे विमले रुद्र शङ्खचक्रगदाधरम् ॥ ५५॥ सूर्यकोटिप्रतीकाशं सर्वावयवसुन्दरम् । हयग्रीवं महीशेश परमात्मानमव्ययम् ॥ ५६॥ इति ते कथिता पूजा हयग्रीवस्य शङ्कर । यः पठेत्परया भक्त्या स गच्छेत्परमं पदम् ॥ ५७॥ इति श्रीगारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे । हयग्रीवपूजाविधिर्नाम चतुस्त्रिंशोऽध्यायः ॥ ३४॥ गरुडपुराण । पूर्वखण्ड । अध्याय ३४/४९-५२॥ garuDapurANa . pUrvakhaNDa . adhyAya 34/49-52.. Proofread by PSA Easwaran
% Text title            : Hayagrivapujavidhi
% File name             : hayagrIvapUjAvidhiH.itx
% itxtitle              : hayagrIvapUjAvidhiH (garuDapurANAntargatam)
% engtitle              : hayagrIvapUjAvidhiH
% Category              : vishhnu, vishnu, garuDapurANa, pUjA
% Location              : doc_vishhnu
% Sublocation           : vishhnu
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : PSA Easwaran
% Description/comments  : garuDapurANa | pUrvakhaNDa |adhyAya 34/49-52||
% Indexextra            : (Scans 1, 2, 3, 4, English)
% Latest update         : October 4, 2024
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org