हयग्रीवपञ्चकं
लसाशय रसाशया परिसरन्तमक्षैर्हयैः
कुमेधसि कुमेधसि स्थिरतया निबद्धं सदा ।
खरस्वनखरस्वनैः परपुमर्थनोत्थैर्मितं
मनोरथमनोरथप्रतिनिधिं बिभार्मि प्रभो ॥ १॥
महं बहु महं बहु प्रकटमेव कृत्वा रहः
समेत्य हि समेत्य हि त्विडुदरं पिबाम्यच्युत ।
नरप्रिय नरप्रियं विरचयामि नूनं प्रभो
न ते स्थिरनते स्थिरप्रियमहो कदाऽप्याचरम् ॥ २॥
नमस्तव नमस्तवप्रियपुरघ्न दीनस्य मे
मनोहर मनोहराच्युतपदाम्बुजे स्थापय ।
हृषीकप हृषीकपालक मुकुन्द तैस्सन्नतैः
सहाखिलसहाखिलावप न मुञ्च मामाश्रितम् ॥ ३॥
मतां स्तुतिमतां स्तुतिं तुरगवक्त्र तुभ्यं नमो
दिशान्तर दिशान्तरस्फुरितचारुमूर्तेस्तव ।
सुदामवसुदामवत्परिसरद्धियो मेऽन्वहं
पदाम्बुज पदाम्बुजाभ्युदयपूतलोकत्रय ॥ ४॥
विषोपमविषोपमैर्विषयराशिभिर्वञ्चितं
सदासुरसदासुरप्रियजिगघृक्षयान्धायितम् ।
भवज्जनभवज्ज्नान्तरकृतार्तिमूलघ्न मां
हयानन हयाननार्दन न मुञ्च भक्तं तव ॥ ५॥
हयास्य्नुतिपञ्चकं भवजवेदनावञ्चकं
विरक्तिमतिशाधकं विमलवृत्तिसंशोधकम् ।
दशप्रमतिसन्नतिस्तुतिरतेन कर्मन्दिना
मुकून्दमननार्थिना व्यरचि वादिराजेन हि ॥ ६॥
इति श्रीमद्वादिराजपूज्यचरणविरचितं
हयग्रीवपञ्चकं समाप्तम् ।
भारतीरमणमुख्यप्राणान्तर्गत श्रीकृष्णार्पणमस्तु ।
Proof read by Malati Shekar