हयवदनाष्टकम्
दासस्य मे शिरसि हस्तसहस्रपत्रं
श्रीशार्पयेश वरदेश्वर वाजिवक्त्र ।
व्यासादिमूर्तिशतशोभित मे प्रसीद
पाशं विखण्डय भवाभिधमम्बजाक्ष ॥ १॥
दासस्य मे शिरसि पादलसत्सरोजं
श्रीशार्पयाऽऽशु निजभूषणभूषणं ते ।
आशां विनाशय भवत्स्मरणप्रतीपान्
दोषांश्च दूरय भवाव्यय मेऽन्तरङ्गे ॥ २॥
संसारदावशिखया परितप्यमानः
संसेवकस्तव तुरङ्गमतुङ्गवक्त्र ।
संशद्धमध्वहृदयाब्जगराजहंस
कं साधयामि शरणं वरदं विना त्वाम् ॥ ३॥
पञ्चात्मकश्रुतिनिगूहकदानवेन्द्र-
पञ्चत्वदायक रमाञ्चितपादपद्म ।
सिञ्च त्वदङ्गपरिपावितपापभेद-
चुञ्च्वङ्घ्रिपद्मपरिलम्बिसुधाप्रवाहैः ॥ ४॥
नाहं वृणोमि तव पाददिनेशसेवां
मोहान्धकारनिकरक्षयदां विनाऽन्यत् ।
व्यूहं सतां समवलम्ब्य भवच्चरित्र-
व्याहारतृप्तकरणं कुरु कि बहुक्त्या ॥ ५॥
किं बन्धनैः कथय बन्धुजनैर्मुरारे
किं भारभूतकटकादिविभूषणैर्वा ।
अम्भस्सु मग्नकरणस्य भवाम्बुराशेः
किं भङ्गशीलधनभूभवनाद्युपायैः ॥ ६॥
उत्फुल्लपद्मदलनेत्र तुरङ्गवक्त्र
रत्नौघचित्रतिलकारुणमञ्जुलोष्ठ ।
विस्तीर्णवक्षसि विराजितभूरिहार
वृत्तातिदीर्घकरकञ्च कृताखिलार्थ ॥ ७॥
लक्ष्मीनिवास तनुकोमलमञ्जुमध्य
लक्ष्यत्रिवल्युदरनाभिसरस्सरोज ।
रत्नाग्यमेखल रणच्चरणाब्जभूष
भृत्यं विलोकय दयाद्रदृशाऽन्वहं माम् ॥ ८॥
इत्यष्टकेन हयकन्धरमिन्दिरेशं
रक्तात्मपादतलरञ्जितदिक्प्रदेशम् ।
तत्पादपद्मकृतमानसवादिराज-
प्रोक्तेन योऽर्चयति तस्य भवेत्प्रियोऽसौ ॥ ९॥
इति श्रीमद्वादिराजपूज्यचरणविरचितं
हयवदनाष्टकं समाप्तम् ।
भारतीरमणमुख्यप्राणान्तर्गत श्रीकृष्णार्पणमस्तु ।
Proofread by Uma Mahesh