हेमाद्रिकृत नृसिंहशिल्पध्यानम्
पीनस्कन्धकटिग्रीवः कृशमध्यः कृशोदरः ।
सिंहाननो नृदेहश्च नीलवासाः प्रभान्वितः ॥ १॥
आलोडस्थानसंस्थानः सर्वाभरणभूषितः ।
ज्वालामालाकुलमुखो ज्वालाकेसरमण्डलः ॥ २॥
हिरण्यकशिपोर्वक्षः पाटीयन्नखरैः खरैः ।
नीलोत्पलाभः कर्तव्यो देव जानुगतस्तथा ॥ ३॥
इति हेमाद्रिकृत नृसिंहशिल्पध्यानं सम्पूर्णम् ।
Proofread by M K Barman