इन्द्रद्युम्नकृतं नृसिंहस्तोत्रम्
इन्द्रद्युम्न उवाच ।
एकानेकस्थूलसूक्ष्माणुमूर्ते व्योमातीत व्योमरूपैकरूप ।
व्योमाकार व्यापक व्योमसंस्थ व्योमारूढ व्योमकेशाब्जयोने ॥ ३८॥
दुःखाम्भोधेस्त्राहि मां दिव्यसिंह प्रादुर्भूतानेककोट्यर्कधामन् ।
नित्यासन्नो दूरसंस्थो न दूरो नासन्नो वा बोध्यबोधात्मभाव ॥ ३९॥
ज्ञेयज्ञेयो ज्ञानगम्योऽप्यगम्यो मायातीतो मानमेयोऽनुमानात् ।
कृत्स्नस्यादिः कृत्स्नकर्त्तानुमन्ता पाता हर्त्ता विश्वसाक्षिन्नमस्ते ॥ २.१६.४०॥
दुःखध्वंसस्यैकहेतुं न हेतुं भेत्तुं छेत्तुं संशयानग्रजातम् ।
ज्योतीरूप ज्ञानरूप प्रकाश स्तोमव्यूहाकार निर्माणहेतो ॥ ४१॥
त्वत्पादाब्जे भक्तिमग्र्यां सदा मे देहि स्वामिन्मूलभूतां चतुर्णाम् ।
श्रौतैः स्मार्तैर्नित्ययुक्ता जनास्ते दीनास्तिष्ठन्त्यत्र बद्धा भवाब्धौ ॥ ४२॥
अनन्तपादं बहुहस्तनेत्रमनन्तकर्णं ककुभौघवस्त्रम् ।
दिवानिशानाथसुकुण्डलाढ्यं नक्षत्रमालाकृतचारुहारम् ॥ ४३॥
त्वामद्भुतं दिव्यनृसिंहमूर्तिं भक्तेष्टपूर्तिं शरणं प्रपद्ये ।
यत्पादपद्मं हि पितामहस्य किरीटरत्नैर्विकचत्वमेति ॥ ४४॥
यदीयपादाब्जयुगान्तभूमौ लुठेच्छिरो यस्य हि पाञ्चभौतम् ।
तद्दिव्यपादं शिरसा वहन्ति सुरेन्द्रनार्यः खलु तं नमामि ॥ ४५॥
तद्दिव्यसिंहं हतपापसङ्घं पादाश्रितानां करुणाब्धिसिंहम् ।
पादाऽब्जसङ्घट्टविघट्टमानब्रह्माण्डभाण्डं प्रणमामि चण्डम् ॥ ४६॥
सटाच्छटाकम्पनशीर्यमाणघनौघविद्रावितपापसङ्घम् ।
चण्डाट्टहासान्तरिताब्दशब्दं त्रिलोकगर्भं नृहरिं नमामि ॥ ४७॥
नमस्ते नमस्ते नमस्तेऽद्य विष्णो परित्राहि दीनानुकम्पिन्ननाथम् ।
भवन्तं समासाद्य मे देहबन्धो मुरारे न संसारकारागृहेऽस्तु ॥ ४८॥
हयमेधसहस्रान्ते यथा त्वां चर्मचक्षुषा ।
दिव्यरूपं प्रपश्यामि तथानुक्रोशय प्रभो ॥ ४९॥
यथा चेज्यासहस्रं मे निर्विघ्नं तत्समाप्यते ।
यज्ञेश त्वत्प्रसादान्मे तथा सान्निध्यमस्तु ते ॥ २.१६.५०॥
कोटयः पापराशीनां क्षयं यान्ति यथा प्रभो ।
धर्मार्थकामा हस्तस्था नैषां चित्रं स्तुवन्ति ये ।
मोक्षस्य भाजनं विष्णो ते नरा ये तवाश्रयाः ॥ ५१॥
स्तुत्वेत्थं दिव्यसिंहं तं भूपतिर्हृष्टमानसः ।
दण्डपातप्रणामेन जगाम धरणीं मुहुः ॥ ५२॥
इति श्रीस्कन्दपुराणे वैष्णवखण्डे पुरुषोत्तमजगन्नाथमाहात्म्ये
षोडशाध्यायान्तर्गतं इन्द्रद्युम्नकृतं विष्णुस्तोत्रं समाप्तम् ।
स्कन्दपुराण । वैष्णवखण्ड । पुरुषोत्तमखण्ड । अध्याय १६/३८-५१॥
skandapurANa . vaiShNavakhaNDa . puruShottamakhaNDa . adhyAya 16/38-51..
Proofread by PSA Easwaran