इन्द्रद्युम्नकृतं विष्णुस्तोत्रम्
इन्द्रद्युम्न उवाच ।
यज्ञेशाच्युत गोविन्द माधवानन्त केशव ।
कृष्ण विष्णो हृषीकेश तुभ्यं विश्वात्मने नमः ॥ १॥
नमोऽस्तु ते पुराणाय हरये विश्वमूर्तये ।
सर्गस्थितिविनाशानां हेतवेऽनन्तशक्तये ॥ २॥
निर्गुणाय नमस्तुभ्यं निष्कलायामलात्मने ।
पुरुषाय नमस्तेस्तु विश्वरूपाय ते नमः ॥ ३॥
नमस्ते वासुदेवाय विष्णवे विश्वयोनये ।
आदिमध्यान्तहीनाय ज्ञानगम्याय ते नमः ॥ ४॥
नमस्ते निर्विकाराय निष्प्रपञ्चाय ते नमः ।
भेदाभेदविहीनाय नमोऽस्त्वानन्दरूपिणे ॥ ५॥
नमस्ताराय शान्ताय नमोऽप्रतिहतात्मने ।
अनन्तमूर्तये तुभ्यममूर्ताय नमो नमः ॥ ६॥
नमस्ते परमार्थाय मायातीताय ते नमः ।
नमस्ते परमेशाय ब्रह्मणे परमात्मने ॥ ७॥
नमोऽस्तु ते सुसूक्ष्माय महादेवाय ते नमः ।
नमः शिवाय शुद्धाय नमस्ते परमेष्ठिने ॥ ८॥
त्वयैव सृष्टमखिलं त्वमेव परमा गतिः ।
त्वं पिता सर्वभूतानां त्वं माता पुरुषोत्तम ॥ ९॥
त्वमक्षरं परं धाम चिन्मात्रं व्योम निष्कलम् ।
सर्वस्याधारमव्यक्तमनन्तं तमसः परम् ॥ १०॥
प्रपश्यन्ति परात्मानं ज्ञानदीपेन केवलम् ।
प्रपद्ये भवतो रूपं तद्विष्णोः परमं पदम् ॥ ११॥
एवं स्तुवन्तं भगवान् भूतात्मा भूतभावनः ।
उभाभ्यामथ हस्ताभ्यां पस्पर्श प्रहसन्निव ॥ १२॥
स्पृष्टमात्रो भगवता विष्णुना मुनिपुङ्गवः ।
यथावत्परमं तत्त्वं ज्ञातवांस्तत्प्रसादतः ॥ १३॥
इति कूर्मपुराणे पूर्वभागे प्रथमाध्यायान्तर्गतं
इन्द्रद्युम्नकृतं विषणुस्तोत्रं समाप्तम् ।
कूर्मपुराणे पूर्वभागे १/६९-८१
Proofread by PSA Easwaran