इन्द्रकृतं श्रीकृष्णस्तोत्रम्
प्रणाममकरोच्छक्रः क्षन्तव्यमिति चाब्रवीत् ।
तुष्टाव च हरिं विष्णुं गोपवेषविभूषितम् ॥ १॥
नमस्ते देवदेवेश भूतभावनभावन ।
हिरण्यरेतसे तुभ्यं नमः सोमप्रदायिने ॥ २॥
नमो वेदैकतत्त्वार्थ तन्निबोधन बोधन ।
नमः प्रणववाच्याय वाचकाय नमो नमः ॥ ३॥
नमस्ते विश्वरूपाय नमो लोकहिताय ते ।
नमो गोपविरूपाय नमो गोधरधारिणे ॥ ४॥
नमः पुराणरूपाय नमस्ते मधुसूदन ।
किं वानेन जगन्नाथ नमस्कारेण केशव ॥ ५॥
या यास्तु देवदेवस्य मूर्तयो मूर्तिमत्तर ।
नमस्ताभ्यस्तथा विष्णो सर्वाभ्यः सर्वकामद ॥ ६॥
क्षन्तव्यं मम देवेश कृतं गोपालनन्दन ।
अज्ञानातोऽथवा ज्ञानाद्रोषाद्वा यदुनन्दन ॥ ७॥
समर्थेष्वसमर्थेषु रोषः प्रस्फुरति प्रभो ।
न केनचिद्भवान् शास्यः शास्ता सर्वस्य वै प्रभो ॥ ८॥
त्वन्निमित्तमिदं सर्वमैन्द्रं मम सुदुर्लभम् ।
त्वत्प्रसादज्जगन्नाथ देवानामिश्वरो यतः ॥ ९॥
इति हरिवंशान्तर्गतं द्वितीयं विष्णुपर्वे शक्रकृतं श्रीकृष्णस्तोत्रम् ।
हरिवंश । अध्याय ६२.१०॥
harivaMsha . adhyAya 62.10..
Proofread by PSA Easwaran