इन्दुरायराज्ञा कृतं बालकृष्णस्तोत्रम्
विवाहविधिना तत्रोत्सवः सम्यग्व्यजायत ।
राजा ददर्श कृपया जामातारं चतुर्भुजम् ॥ १९॥
शङ्खचक्रगदापद्मधारिणं करुणामुखम् ।
तुष्टाव परया प्रीत्या पर्वतस्थोऽप्यपर्वकम् ॥ २०॥
अविद्यापर्वशून्यस्त्वं मायागुणविवर्जितः ।
पाहि सङ्घातधर्मेभ्यो नय धामाऽक्षरं तव ॥ २१॥
अनाद्यन्तः परब्रह्म बालकृष्णो नरायणः ।
हरिकृष्णो भवानास्ते नरो नारायणो भवान् ॥ २२॥
ऋषयः पितरः सिद्धा देवा गन्धर्वदानवाः ।
पन्नगा राक्षसा यक्षा यं न जानन्ति तत्त्वतः ॥ २३॥
योगिनः साधवः सत्यो ज्ञानिनस्तापसेश्वराः ।
यं न जानन्ति देवेशं कुतोऽयं भगवानिति ॥ २४॥
तस्मै मे नम इत्यस्तु पाहि संसारसागरात् ।
यस्मिन् जनिः पुषा नष्टिर्भूतानां ते नमो नमः ॥ २५॥
विश्वात्मन् विश्वकर्मात्मन् विश्वकर्मेक्षणादिमन् ।
कर्मणामपि नैष्कर्म्यं दधँस्त्वं पाहि सागरात् ॥ २६॥
सहस्रकिरणं विष्णुं सर्वतश्चक्षुषं प्रभुम् ।
अनन्तकरपादाद्यं नमामि परमेश्वरम् ॥ २७॥
अणुष्वणुं महान्तं च महत्स्वपि ध्रुवं हरिम् ।
गरिष्ठं श्रेष्ठमत्यूर्ध्वं त्वां नमामि परेश्वरम् ॥ २८॥
अतिभूतादिकर्माणं बुद्धीन्द्रियाद्यगोचरम् ।
पुराणपुरुषं ब्रह्म त्वां नमामि परेश्वरम् ॥ २९॥
जगत्कोशं चात्मयोनिं सनातनं जगत्पतिम् ।
सर्वपतिं हिरण्वर्णं त्वां नमामि परेश्वरम् ॥ ३०॥
तपते शीतलायाऽपि प्रकाशाय च ते नमः ।
स्वराय सार्थतत्त्वाय गीतिरूपाय ते नमः ॥ ३१॥
त्वमोङ्कारोऽवतारस्त्वं व्यूहस्त्वं त्वं चतुर्भुजः ।
भूमा त्वं च महाविष्णुर्विराट् त्वं कमलाशयः ॥ ३२॥
त्वं क्रिया करणं कर्ता कर्म त्वं कारकस्तथा ।
द्रष्टा साक्षी महाकालः कवलस्त्वं च ते नमः ॥ ३३॥
सर्वरूपाय शान्ताय काम्भरेयाय ते नमः ।
बालकृष्णाय कृष्णाय गोपालजाय ते नमः ॥ ३४॥
सर्वपापप्रशान्ताय सर्वदुःखहराय च ।
आत्मपाथेयरूपाय सर्वान्तर्यामिणे नमः ॥ ३५॥
गृहं मे पावनं कृष्णवल्लभस्वामिना कृतम् ।
निमग्नं च कुटुम्बं मे त्वयोद्धृतं प्रगृह्य माम् ॥ ३६॥
नमस्ते सर्वलोकेषु सर्वात्मसु च ते नमः ।
बालकृष्ण महाकृष्ण कृष्णेश्वर नमोऽस्तु ते ॥ ३७॥
इत्युक्त्वा राधिके राजा चेन्दुरायो नमोऽकरोत् ।
इति श्रीलक्ष्मीनारायणीयसंहिता । खण्ड २। अध्याय १८९-अध्यायान्तर्गतं
इन्दुरायराज्ञा कृतं बालकृष्णस्तोत्रं सम्पूर्णम् ।
लक्ष्मीनारायणीयसंहिता । खण्ड २। अध्याय १८९/१९-३७॥
lakShmInArAyaNIyasaMhitA . khaNDa 2. adhyAya 189/19-37..
Proofread by PSA Easwaran