श्रीजगन्नाथाष्टकम्
शिवप्राणरूपं जगत्प्राणरूपं
सुभूपाधिभूपं सदा शान्तरूपम् ।
अरूपानुरूपोपकारप्ररूपं
सुरूपं जगन्नाथमुद्भावयामः ॥ १॥
अलक्ष्यैकलक्ष्यानुलक्ष्यप्रविष्टं
समीक्षानिरीक्षापरीक्षाभ्यदृष्टम् ।
विवक्षुप्रवाक्षु प्रविष्टं विशिष्टं
जगन्नाथमुद्भावयामोऽर्चयामः ॥ २॥
क्वचिच्छैलशीलैः क्वचित्पुष्पशीलैः
क्वचिद्धैर्यशीलैः क्वचिन्नृत्यशीलैः ।
क्वचित्तापसैर्भक्तिशीलैस्सुवन्द्यं
जगन्नाथसन्नाथमुद्गाथयामः ॥ ३॥
समुद्रैस्सुमुद्रैर्विमुद्रैर्नुतं तं
विभावप्रभावानुभावप्रभातम् ।
सुकाण्डं हरिं ब्रह्मभाण्डे भ्रमन्तं
जगन्नाथपुर्यां वसन्तं नमामः ॥ ४॥
अनाथैकनाथं सुगाथैकगाथं
समस्थव्यवस्थैकपन्थानमाद्यम् ।
विबाधप्रबाधं समुद्रादगाधं
समुद्रप्रियं तं मुदा सुस्मरामः ॥ ५॥
श्रुतिस्मार्तसिद्धं नितान्तप्रसिद्धं
समस्तार्थवत्सत्त्वतत्त्वानुविद्धम् ।
विवृद्धप्रवृद्धं समृद्धैकसिद्धं
विशुद्धं जगन्नाथमाचिन्तयामः ॥ ६॥
विभिन्नं हि निर्भिन्नरूपं विभान्तं
महान्तं हिमांश्वेककान्तं भवान्तम् ।
महामेधिमेधाप्रदं तं स्वधान्तं
हरिल्लोककान्तं समाराधयामः ॥ ७॥
अखण्डं च तत्सच्चिदानन्दरूपं
अवाक्चित्तसङ्गोचरं गोभरं तम् ।
स्मरान्तं स्मरारामदं रामरूपं
सदा तद्धितं भीकृदन्तं स्मरामः ॥ ८॥
हरिरक्ताऽद्य मज्जिह्वा तुलसीपत्रसेवनात् ।
अतोऽष्टकं करोम्येतज्जगन्नाथगुणानुगः ॥ ९॥
इति श्री हिमांशु गौडविरचितं श्रीजगन्नाथाष्टकं सम्पूर्णम् ।
Encoded and proofread by Prakash Ranganatha