श्रीजगन्नाथाष्टकं
महारासोल्लासं कनकमणिवेशं सुखजुषं
प्रियालोलं गोलं नयनयुगलं लोकतरलम् ।
जनानन्दानन्दं परमसुखकन्दं सहचरं
जगन्नाथं नाथं भवजलधिपाथं भजत रे ॥ १॥
सुधासाराकारं रसिककृतिसारंरसवरं
दयापारावारं दुरिततिमिरध्वंसचतुरम् ।
सदा भक्ताधारं सकलजनचित्तैकविदुरं
जगन्नाथं नाथं भवजलधिपाथं भजत रे ॥ २॥
रथारूढं गूढं स्वजनजनचित्तप्रियतमं
महाबुद्धं शुद्धं विमलप्रतिमं चक्रनयनम् ।
लसद्दारुब्रह्म प्रणवपुरुषं दिव्यवपुषं
जगन्नाथं नाथं भवजलधिपाथं भजत रे ॥ ३॥
नवाभ्रश्यामाभं मृदुलतनुगाढं नटवरं
महाबाहुप्रेष्ठं नलिनदलसौन्दर्यकमठम् ।
महावेद्यां भ्राजत्ललितवनमालासुगठितं
जगन्नाथं नाथं भवजलधिपाथं भजत रे ॥ ४॥
महाभोगे चित्तं मधुररथयात्रापरिवृतं
महायोगारूढं कनकमणिचूडं किमधिकम् ।
महानीले दीप्तं विधृततुलसीहाररुचिरं
जगन्नाथं नाथं भवजलधिपाथं भजत रे ॥ ५॥
महागर्भे यज्ञं स्वजनयजनैः विज्ञरुचिरं
महाहस्तिज्येष्ठं गणपतिमनोमुग्धविधुरम् ।
विधातारं पारं निखिलजनतातारकवरं
जगन्नाथं नाथं भवजलधिपाथं भजत रे ॥ ६॥
निराकाराकारं मधुरबडदाण्डे गतिकरं
प्रियागारे पौरं स्वजनभगिनीभ्रातृविचरम् ।
माहामान्यं धन्यं त्रिपुरसुरनाथं गतिपथं
जगन्नाथं नाथं भवजलधिपाथं भजत रे ॥ ७॥
अनन्तं स्वात्मस्थं परमपदसारं परतरं
जगद्ब्रह्माकारं जननमरणोत्तारकवरम् ।
परानन्दं पूर्णं प्रणतजनसंसारहरणं
जगन्नाथं नाथं भवजलधिपाथं भजत रे ॥ ८॥
इति प्रदीप्तनन्दशर्मविरचितं श्रीजगन्नाथाष्टकं सम्पूर्णम् ।
Composed, encoded, and proofread by
Dr. Pradipta Kumar Nanda, Kendrapara, Orisa pknanda65 at gmail.com