श्रीजगन्नाथगीतामृतम्
एहि मुरारे कुञ्जविहारे एहि प्रणतजनबन्धो ।
हे मधुसूदन मूरलीमोहन माधव करुणासिन्धो ॥ ध्रुवपदम् ॥
समुद्रतीरे पुरीमन्दिरे
रासलीला-धुरन्धर
ब्रह्मदारु-सुमधुर ।
दर्शनं प्रयाचे जय जगन्नाथ अहो कृष्ण मनोहर ॥ १॥
वेणुनिनादं कामयामि मोदं
कर्णयोः मे श्रुतिधर
एहि प्रेमवारिधार ।
श्रीपुरुषोत्तम पानीयमिच्छामि तृष्णा मम परिहर ॥ २॥
बडशङ्खधाम विरहातुरोशं
श्रीगुण्डिचा-दर्शनेच्छा
सुललिता सुविदिता ।
बडदाण्ड-धूलिः शिरसि चन्दनः प्रसादे मे मनोवाञ्छा ॥ ३॥
नीलचक्र-चारु-ललितं केतनं
श्रीमन्दिरं सुशासनं
भजेशं गरुडासनम् ।
चतुर्द्धामण्डलि-मण्डित-केशवं सगद्गदं रसायनम् ॥ ४॥
इति नन्दप्रदीप्तकुमारविरचितं जगन्नाथगीतामृतं सम्पूर्णम् ।
Composed, encoded, and proofread by
Dr. Pradipta Kumar Nanda, Kendrapara, Orisa pknanda65 at gmail.com