श्रीजगन्नाथगीतामृतम् ५
दीनबान्धव हे, जय जगन्नाथ हरे २
भावं देहि प्रभो भावनाग्राहक २
प्रतीक्षा ते सुखतीरे
जय जगन्नाथ हरे
दीनबान्धव हे ॥ ०॥
भ्रमामि सपदि भावविह्वलितः सुखकोमलितकोले
वाञ्छामि गच्छामि वाञ्छावटमूलं
भक्तजनकोलाहले
श्रीरङ्गवदने विशतु मे मनः२
देहः सदैव श्रीपुरे
जय जगन्नाथ हरे
दीनबान्धव हे ॥ १॥
श्रीक्षेत्रपावने स्वकीयमन्दिरे
निरवधि वास आशा
वैतरणीसमा अग्रे प्रधावति
बेभीयते मे निराशा
वासुदेवे रतिः विश्वासो नितरां २
स्थास्यतु मूरलीधरे
जय जगन्नाथहरे
दीनबान्धव हे ॥ २॥
बहुदिनात्परं तवेदं दर्शनम् अलौकिकं मोहनीयं
दृष्टं महाबाहो ब्रह्माण्डनायक वन्दनीयं लोभनीयं
शृणु मे भारती मधुमयगीतिं २
गायामि ते निजपुरे
जय जगन्नाथ हरे
दीनबान्धव हे ॥ ३॥
इति नन्दप्रदीप्तकुमारविरचितं श्रीजगन्नाथगीतामृतं सम्पूर्णम् ।
Composed, encoded, and proofread by
Dr. Pradipta Kumar Nanda, Kendrapara, Orisa pknanda65 at gmail.com