जैमिनिप्रोक्तं जगन्नाथस्तोत्रम्
पञ्चोपचारविधिना पूजयेत्परमेश्वरम् ।
कृताञ्जलिपुटो भूत्वा इदं स्तोत्रमुदीरयेत् ॥ ३५॥
देवदेव जगन्नाथ संसारार्णवतारक ।
भक्तानुग्राहक सदा रक्ष मां पादयोर्नतम् ॥ ३६॥
जय कृष्ण जगन्नाथ जय सर्वाघनाशन ।
जयाशेषजगद्वन्द्य पादाम्भोज नमोऽस्तु ते ॥ ३७॥
जय ब्रह्माण्डकोटीश वेदनिःश्वासवातक ।
अशेषजगदाधार परमात्मन्नमोऽस्तु ते ॥ ३८॥
जय ब्रह्मेन्द्ररुद्रादि देवौघप्रणतार्तिनुत् ।
जयाखिलजगद्धामन्नन्तर्यामिन्नमोऽस्तु ते ॥ ३९॥
जय निर्व्याजकरुणापाथोधे दीनवत्सल ।
दीनानाथैकशरण विश्वसाक्षिन्नमोऽस्तु ते ॥ २.३०.४०॥
संसारसिन्धुसलिले मोहावर्त्ते सुदुस्तरे ।
षडूर्मिकुलदुष्पारे कुकर्मग्राहदारुणे ॥ ४१॥
निराश्रये निरालम्बे निःसारे दुःखफेनिले ।
तव मायागुणैर्बद्धमवशं पतितं ततः ॥ ४२॥
मां समुद्धर देवेश कृपापाङ्गविलोकनैः ।
तत्र मग्नं सुरश्रेष्ठ सुप्रसादप्रकाशक ॥ ४३॥
एक एव जगन्नाथ बन्धुस्त्वं भवभीरुणाम् ।
बुभुक्षा च पिपासा च प्राणस्य मनसः स्मृतौ ॥ ४४॥
शोकमोहौ शरीरस्य जरा मृत्युर्वपुर्भवः ।
त्वत्सृष्टौ तादृशो नास्ति यो दीनपरिपालकः ॥ ४५॥
अवतीर्णोऽसि लोकानामनुग्रहधिया विभो ।
पूर्णकामस्य ते नाथ किमन्यत्कारणं क्षितौ ॥ ४६॥
त्वत्पादपद्ममासाद्य न चिन्तास्ति जगत्पते ।
यतस्ते चरणाम्भोजं चतुर्वर्गैकसाधनम् ॥ ४७॥
दर्शनात्सर्वलोकानां सर्ववाञ्छाफलप्रदम् ।
ततः सीरध्वजं शेषमन्त्रेण परिपूजयेत् ॥ ४८॥
इति श्रीस्कन्दपुराणे वैष्णवखण्डे पुरुषोत्तमजगन्नाथमाहात्म्ये
त्रिंशाध्यायान्तर्गतं जैमिनिप्रोक्तं जगन्नाथस्तोत्रं समाप्तम् ।
स्कन्दपुराण । वैष्णवखण्ड । पुरुषोत्तमखण्ड । अध्याय ३०/३६-४७॥
skandapurANa . vaiShNavakhaNDa . puruShottamakhaNDa . adhyAya 30/36-47..
Proofread by PSA Easwaran