जनैः कृतं पुरुषोत्तमस्तोत्रम् ६

जनैः कृतं पुरुषोत्तमस्तोत्रम् ६

(आर्यायनमुनिप्रोक्तं पुरुषोत्तमस्तोत्रम्०) अथ नार्यो नराः स्तोत्रं सर्वे चक्रुर्हरेस्तदा । प्रेमपूर्णहृदयाश्च स्थिरमानसवृत्तयः ॥ ३९॥ नमोऽस्तु ते परे धाम्नि राजते वै परात्मने । नमोऽसङ्ख्यसतीसाध्वीसाधुमुक्ताभिशासिने ॥ ४०॥ नमोऽक्षराऽधिपतयेऽक्षरमुक्ताऽभिशासिने । नमो गोलोकवासाय गोपगोप्यभिशासिने ॥ ४१॥ गवां नाथाय कृष्णाय श्रीराधापतये नमः । नमो वैकुण्ठवासाय श्रीरमापतये नमः ॥ ४२॥ बहुवैकुण्ठनाथाय लक्ष्मीश्रीपतये नमः । श्रीप्रभामञ्जुलाहंसासगुणास्वामिने नमः ॥ ४३॥ वृन्दातुलसीकमलापार्वतीपतये नमः । नमस्तेऽस्तु जगन्नाथ वासुदेव नमोऽस्तु ते ॥ ४४॥ श्रीनिवास नमस्तेऽस्तु विष्वक्सेन नमोऽस्तु ते । गरुडध्वज गोपीश विष्णो वैकुण्ठ ते नमः ॥ ४५॥ पुरुषोत्तम देवेश सर्वेश्वर नमोऽस्तु ते । अनाद्याद्यन्तमध्यान्त नमस्ते पद्मजप्रिय ॥ ४६॥ सृष्टिगर्भ नमस्तुभ्यं शत्रुञ्जय नमोऽस्तु ते । नमो हिरण्यरूपाय कालनेत्राय ते नमः ॥ ४७॥ महानाभ महामूल मूलावास नमोऽस्तु ते । धर्मावास हृदावास शुचिश्रवः पृथुश्रवा ॥ ४८॥ धर्माध्यक्ष प्रजाध्यक्ष कालाध्यक्ष नमोऽस्तु ते । गदाधारिन् पद्मधारिन् श्रुतिप्रश्न नमोऽस्तुते ॥ ४९॥ श्रियोधर वनमालाधर कृष्ण नमोऽस्तुते । पुरुष्टुत महाकल्प सर्वात्मँस्ते नमो विभो ॥ ५०॥ द्वादशात्मक कालात्मन् सामात्मन् परमेश्वर । व्योमार्कात्मक चन्द्रात्मन् सर्वसूक्ष्म नमोऽस्तु ते ॥ ५१॥ नीलकेश गुडाकेश महाकेश नमोऽस्तु ते । मञ्जुकेश हृषीकेश सर्वकेश नमोऽस्तु ते ॥ ५२॥ श्वेत रक्त तथा पीत चित्र कृष्ण नमोऽस्तु ते । कुशेशय प्रीतिकर्तर्गोविन्द हंस ते नमः ॥ ५३॥ नमस्ते धर्मनेत्राय सहस्राङ्गाय ते नमः । नमस्ते विश्वरूपाय धामरूपाय ते नमः ॥ ५४॥ न्यग्रोधाय पिप्पलाय महाशाखाय ते नमः । स्कन्धपत्राङ्कुरलतापल्लवाय नमोऽस्तु ते ॥ ५५॥ त्वं वै वेदमयो विष्णुस्तीर्थदेवमतो विभुः । भूर्भुवःस्वःस्वरूपस्त्वं यज्ञभागभुजे नमः ॥ ५६॥ परब्रह्म नमस्तेऽस्तु शब्दब्रह्म नमोऽस्तु ते । विद्या त्वं वेद्यरूपस्त्वं वन्दनीय नमोऽस्तु ते ॥ ५७॥ नारीवाणीस्वरूपस्त्वं नरे दयास्वरूपकः । पुत्रे वात्सल्यभावस्त्वं त्वां वयं शरणं गताः ॥ ५८॥ उद्धारं कुरु संसाराद्भगवन् परमेश्वर । इत्युक्त्वा मौनमासेदुस्ततश्चार्यायनो मुनिः ॥ ५९॥ तुष्टाव परया प्रीत्या श्रीकान्तं पुरुषोत्तमम् । मत्स्यं नमस्ये कूर्मं च नमस्ये हयशीर्षकम् ॥ ६०॥ त्रिविक्रमं नमस्ये च नमस्ये माधवं प्रभुम् । ईशानं च हृषीकेशं नमस्ये च कुमारिलम् ॥ ६१॥ नारायणं नमस्येऽहं नमस्ये गरुडध्वजम् । नरसिंहं नमस्ये च नमस्ये कामपालिनम् ॥ ६२॥ पुण्डरीकनिभनेत्रं नमस्ये श्रीनरायणम् । नमस्ये ध्वजचक्राब्जधनुर्मीनसुशूलिनम् ॥ ६३॥ गोपतिं कम्भरापुत्रं विभुं गोपालनन्दनम् । नमस्ये च गदापाणिं चाश्वपट्टसरःस्थितम् ॥ ६४॥ अर्धनारीश्वरं नाथं नारीवृन्दसुखप्रदम् । नमस्ये पद्महस्तं च पद्मसक्थिनमित्यपि ॥ ६५॥ नमस्ये पद्मकिरणं तथोर्ध्वरेखपत्तलम् । लक्ष्मीप्रतिमजघनं नमस्ये वनमालिनम् ॥ ६६॥ नमस्ये धरणिनाथं नमस्येऽहं श्रियः पतिम् । अनाथनाथ नौकास्थ विमानस्थ च ते नमः ॥ ६७॥ हृत्स्थ भक्तविहारस्थ दीनरक्षास्थ ते नमः । त्रिणाचिकेतं ब्रह्माणं नमस्ये च महौजसम् ॥ ६८॥ सर्वामयविनाशं च नमस्ये घ्राणतर्पणम् । नमस्ये रुक्मकवचं नमस्ये पुरुषोत्तमम् ॥ ६९॥ वनस्पतिं मधुपतिं नमस्ये च सुधापतिम् । वासुदेवं चक्रपाणिं नमस्ये च यशोधनम् ॥ ७०॥ सर्वभूतगतं शान्तं धर्ममूर्तिं परेश्वरम् । नमस्ये मोक्षदं नाथं शरण्यं शरणं व्रजे ॥ ७१॥ एवं तुष्टाव देवेशं श्रीमानार्यायनो मुनिः । इति श्रीलक्ष्मीनारायणीयसंहिता । खण्ड २। अध्याय ६२-अध्यायान्तर्गतं जनैः कृतं तथा आर्यायनमुनिप्रोक्तं पुरुषोत्तमस्तोत्रं सम्पूर्णम् । लक्ष्मीनारायणीयसंहिता । खण्ड २। अध्याय ६२/३९-७१॥ lakShmInArAyaNIyasaMhitA . khaNDa 2. adhyAya 62/39-71.. Proofread by PSA Easwaran
% Text title            : Janaih Kritam Purushottama Stotram
% File name             : janaiHkRRitaMpuruShottamastotram06.itx
% itxtitle              : puruShottamastotram 06 (janaiHkRitaM lakShmInArAyaNIyasaMhitAntargatam atha nAryo narAH stotraM sarve chakrurharestadA)
% engtitle              : janaiHkRRitaM puruShottamastotram 06
% Category              : vishhnu, vishnu, lakShmInArAyaNIyasaMhitA, stotra
% Location              : doc_vishhnu
% Sublocation           : vishhnu
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : PSA Easwaran
% Description/comments  : lakShmInArAyaNIyasaMhitA | khaNDa 2 | adhyAya 62/39-71||
% Indexextra            : (Scans 1, 2, 3, 4)
% Latest update         : February 5, 2026
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org