जनलोकस्थैः सनकाद्यैः ऋषिभिः कृतं विष्णुस्तोत्रम्
ऋषयो जनलोकस्था दृष्ट्वा देवं तथाविधम् ।
अस्तुवन् भक्तिनम्रास्ते सनकाद्या मुनीश्वराः ॥ १॥
जय देव जगन्नाथ भूतभावन भावन ।
जय विश्वप्रभो विष्णो जय वामन माधव ॥ २॥
नमः सहस्रशिरसे देवदेव जगत्पते ।
जयाच्युत हरे विष्णो जयाजेय जगत्पते ॥ ३॥
नताः स्म भूताधिपमदिदेवं ।
जगज्जनित्रं सकलस्य जन्तोः ।
परावरेशं परमं वरेण्यं ।
नमो नमः सत्यजगत्पते ते ॥ ४॥
विश्वस्य धातारमणीयसामणुं ।
वेदान्तवेद्यं परमामनन्ति ।
तमदिदेवं वरदं वरेण्यं ।
नताः स्मस्तं जगतां पतिमदिभूतम् ॥ ५॥
नमो नमो जगन्नाथ विष्णो देव जगत्पते ।
त्वामेव विविधा वेदा वदन्ति ब्रह्म शाश्वतम् ॥ ६॥
जय देव हरे कृष्ण जय वामन पावन ।
त्वय्येव सकलं लोकं पश्यामो जगतीपते ।
सर्वात्मन् सर्वभूतेश नमस्तेऽस्तु जनार्दन ॥ ७॥
इति हरिवंशान्तर्गतं जनलोकस्थैः सनकाद्यैः
ऋषिभिः कृतं विष्णुस्तोत्रं सम्पूर्णम् ।
हरिवंश । अनुबन्ध - परिशिष्ट । अध्याय अ४२ब.२८५५
harivaMsha . anubandha - parishiShTa . adhyAya a42ba.2855
Proofread by PSA Easwaran