ज्वरकृतं श्रीकृष्णस्तोत्रम्
ज्वर उवाच ।
नमः कृष्णाय हरये विष्णवे प्रभविष्णवे ।
आदिदेवाय देवाय पुराणाय गदाभृते ॥ १॥
नमः सहस्रशिरसे सहस्रचरणाय च ।
सहस्राक्ष नमो नित्यं लोकानामभयंकर ॥ २॥
उद्गीथाय नमो देव यज्ञाधिपतये नमः ।
नमस्ते चक्रिणे नित्यमसिहस्ताय ते नमः ॥ ३॥
अनन्ताय विरूपाय नमस्ते मधुसूदन ।
नमस्ते देवदेवेश तुभ्यं देव कपर्दिने ॥ ४॥
नमस्ते राक्षसघ्नाय नमो राघवरूपिणे ।
ज्ञानज्ञेयाय देवाय नम आद्याय विष्णवे ॥ ५॥
नमस्ते नरसिंहाय दैत्यराजविहारिणे ।
नमस्तुभ्यं वराहाय दंष्ट्रोद्धृतवसुंधर ॥ ६॥
त्रिविक्रम नमस्तुभ्यं बलियज्ञविनाशन ।
वासुदेवाय देवाय नमः कंसविनाशन ॥ ७॥
नमः सर्वात्मने देव सर्वकर्त्रे नमो नमः ।
प्रासीद देवदेवेश भीतानामभयंकर ॥ ८॥
नमामि देवदेवेशं वरेण्यमभयप्रदम् ।
विष्णो त्वां सकलेशेश त्वां गदाधरमव्ययम् ॥ ९॥
नमस्ते देवदेवेश भीतोऽहं भवनाशन ।
इति स्तुत्वा जगन्नाथं नृत्यन्निव तदा ज्वरः ॥ १०॥
पपात पादयोर्विष्णोर्निःश्वसन् भीतभीतवत् ।
प्रासीद विष्णो देवेश पीडितोऽस्मि जनार्दन ॥ ११॥
इति हरिवंशान्तर्गतं ज्वरकृतं श्रीकृष्णस्तोत्रं सम्पूर्णम् ।
हरिवंश । अध्याय १११.७॥
harivaMsha . adhyAya 111.7..
Proofread by PSA Easwaran