कालियकृतं २ श्रीकृष्णस्तोत्रम्
कालियउवाच ।
यस्माद्ब्रह्मा च रुद्रश्व चन्द्रेन्द्रमरुतोऽश्विनौ ।
वसवश्व सहादित्यैस्तस्य स्तोष्यामि किं न्वहम् ॥ ५-७-६१॥
एकावयवसूक्ष्मांशो यस्यैतदखिलं जगत् ।
कल्पनावयवस्त्वेष तं स्तोष्यामि कथं न्वहम् ॥ ५-७-६२॥
सदसद्रूपिणो यस्य ब्रह्माद्यास्त्रिदशोत्तमाः ।
परमार्थं न जानन्ति तस्य स्तोष्यामि किं न्वहम ॥ ५-७-६३॥
ब्रह्माद्यैरर्च्यते दिव्यैर्यश्च पुष्पानुलेपनैः ।
नन्दनादिसमुद्भूतैः सोऽर्च्यते वा कथं मया ॥ ५-७-६४॥
यस्यावताररूपाणि देवराजः सदार्चति ।
न वेत्ति परमं रूपं सोऽर्च्च्यते वा कथं मया ॥ ५-७-६५॥
विषयेभ्यः समावृत्य सर्वाक्षाणि च योगिनः ।
समर्चयति ध्यानेन सोऽर्च्च्यते वा कथं मया ॥ ५-७-६६॥
हृदि सङ्कल्प्य यद्रूपं ध्यानेनार्चन्ति योगिनः ।
भावपुष्पादिना नाथ! सोऽर्च्च्यते वा कथं मया ॥ ५-७-६७॥
सोऽहं ते देवदेवेश! नार्चनायां स्तुतौ न च ।
सामर्थ्यवान् कृपामात्र-मनोवृत्तिः प्रसीद मे ॥ ५-७-६८॥
सर्पजातिरियं क्रूरा यस्यां जातोऽस्मि केशव ।
तत्स्वभावोऽयमत्रास्ति नापराधो ममाच्युत ॥ ५-७-६९॥
सृज्यते भवता सर्वं तथा संह्रियते जगत् ।
जाति-रूपृ-स्वभावाश्च सृज्यन्ते सृजता त्वया ॥ ५-७-७०॥
यथाहं भवता सृष्टो जात्या रूपेण चेश्वर ।
स्वभावेन च संयुक्तस्तथेदं चेष्टितं मया ॥ ५-७-७१॥
यदन्यथा प्रवर्त्तेयं देवदेव ! ततो मयि ।
न्याय्यो दण्डनिपातो वै तवैव वचनं यथा ॥ ५-७-७२॥
तथापि यज्जगत्स्वामी दण्डं पातितवान् मयि ।
स श्लाघ्योऽयं वरं दण्डस्त्वत्तो नान्यत्र मे वरः ॥ ५-७-७३॥
हतवीर्यो हतविषो दमितोऽहं त्वयाच्युत ।
जीवितं दीयतामेकमाज्ञापय करोमि किम् ॥ ५-७-७४॥
श्रीकृष्ण उवाच ।
नात्र स्थेयं त्वया सर्प! कदाचिद्यमुनाजले ।
सभृत्यपरिवारस्त्वं समुद्रसलिलं व्रज ॥ ५-७-७५॥
इति विष्णुपुराणे पञ्चमभागे सप्तमाध्यायान्तर्गतं
कालियकृतं श्रीकृष्णस्तोत्रं समाप्तम् ।
विष्णुपुराण । भाग ५। अध्याय ७/६१-७६॥
viShNupurANa . bhAga 5. adhyAya 7/61-76..
Proofread by PSA Easwaran