कालियपत्न्या सुरसाकृतं श्रीकृष्णस्तोत्रम्
सुरसोवाच ।
हे जगत्कान्त मे कान्तं देहि मानं च मानद ।
पतिः प्राणाधिकः स्त्रीणां नास्ति बन्धुश्च तत्परः ॥ १७॥
सकलभुवननाथ प्राणनाथं मदीयं
न कुरु वधमनन्त प्रेमसिन्धो सुबन्धो ।
अखिलभुवनबन्धो राधिकाप्रेमसिन्धो
पतिमिह कुरु दानं मे विधातुर्विधातः ॥ १८॥
त्रिनयनविधिशेषाः षण्मुखश्चास्यसङ्घैः
स्तवनविषयजाड्यात्स्तोतुमीशा न वाणी ।
खलु निखिलवेदाःस्तोतुमन्येऽपि देवाः
स्तवनविषयशक्ताः सन्ति सन्तस्तवैव ॥ १९॥
कुमतिरहमधिज्ञा योषितां क्वाधमा वा
क्व भुवनगतिरीशश्चक्षुषोऽगोचराऽपि ।
विधिहरिहरशेषैः स्तूयमानश्च यस्त्व-
मतनुमनुजमीशं स्तोतुमिच्छामि तं त्वाम् ॥ २०॥
स्तवनविषयभीता पार्वती कस्य पद्मा
श्रुतिगणजनयित्री स्तोतुमीशा न यं त्वाम् ।
कलिकलुषनिमग्ना वेदवेदाङ्गशास्त्र-
श्रवणविषयमूढा स्तोतुमिच्छामि किं त्वाम् ॥ २१॥
शयानो रत्नपर्यङ्के रत्नभूषणभूषितः ।
रत्नभूषणभूषाङ्गो राधावक्षसि संस्थितः ॥ २२॥
चन्दनोक्षितसर्वाङ्गः स्मेराननसरोरुहः ।
प्रोद्यत्प्रेमरसाम्भोधौ निमग्नः सततं सुखात् ॥ २३॥
मल्लिकामालतीमालाजालैः शोभितशेखरः ।
पारिजातप्रसूनानां गन्धामोदितमानसः ॥ २४॥
पुंस्कोकिलकलध्वानैर्भ्रमरध्वनिसंयुतैः ।
कुसुमेषु विकारेण पुलकाङ्कितविग्रहः ॥ २५॥
प्रियाप्रदत्तताम्बूलं भुक्तवान्यः सदा मुदा ।
वेदा अशक्ता यं स्तोतुं जडीभूता विचक्षणाः ॥ २६॥
तमनिर्वचनीयं च किं स्तौमि नागवल्लभा ।
वन्देऽहं त्वत्पदाम्भोजं ब्रह्मेशशेषसेवितम् ॥ २७॥
लक्ष्मीसरस्वतीदुर्गा जाह्नवी वेदमातृभिः ।
सेवितं सिद्धसङ्घैश्च मुनीन्द्रैर्मनुभिः सदा ॥ २८॥
निष्कारणायाखिलकारणाय सर्वेश्वरायापि परात्पराय ।
स्वयम्प्रकाशाय परावराय परावराणामधिपाय ते नमः ॥ २९॥
हे कृष्ण हे कृष्ण सुरासुरेश ब्रह्मेश शेषेश प्रजापतीश ।
मुनीश मन्वीश चराचरेश सिद्धीश सिद्धेश गणेश पाहि ॥ ३०॥
धर्मेश धर्मीश शुभाशुभेश वेदेश वेदेष्वनिरूपितश्च ।
सर्वेश सर्वात्मक सर्वबन्धो जीवीश जीवेश्वर पाहि मत्प्रभुम् ॥ ३१॥
इत्येवं स्तवनं कृत्वा भक्तिनम्रात्मकन्धरा ।
विधृत्य चरणाम्भोजं तस्थौ नागेशवल्लभा ॥ ३२॥
नागपत्नीकृतं स्तोत्रं त्रिसन्ध्यं यः पठेन्नरः ।
सर्वपापात्प्रमुक्तस्तु यात्यन्ते श्रीहरेः पदम् ॥ ३३॥
इह लोके हरेर्भक्तिमन्ते दास्यं लभेद्ध्रुवम् ।
लभते पार्षदो भूत्वा सालोक्यादिचतुष्टयम् ॥ ३४॥
इति श्रीब्रह्मवैवर्तपुराणे श्रीकृष्णजन्मखण्डे पूर्वे
एकोनविंशाध्यायान्तर्गतं विप्रैः कालियपत्न्या
सुरसया कृतं श्रीकृष्णस्तोत्रं समाप्तम् ।
ब्रह्मवैवर्तपुराण । श्रीकृष्णजन्म, पूर्वभाग । अध्याय १९/१७-३४॥
brahmavaivartapurANa . shrIkRRiShNajanma, pUrvabhAga . adhyAya 19/17-34..
Proofread by PSA Easwaran