कामासिकाष्टकम्
श्रीवेदान्तदेशिकृतम् ।
(काञ्च्यां)
श्रुतीनामुत्तरं भागं वेगवत्याश्च दक्षिणम् ।
कामादधिवसन् जीयात्कश्चिदद्भुतकेसरी ॥ १॥
तपनेन्द्वग्निनयनः तापानपचिनोतु नः ।
तापनीयरहस्यानां सारः कामासिकाहरिः ॥ २॥
आकण्ठमादिपुरुषं कण्ठीरवमुपरि कुण्ठितारातिम् ।
वेगोपकण्ठसङ्गाद्विमुक्तवैकुण्ठबहुमतिमुपासे ॥ ३॥
बन्धुमखिलस्य जन्तोर्बन्धुरपर्यङ्कबन्धरमणीयम् ।
विषमविलोचनमीडे वेगवतीपुलिनकेलिनरसिंहम् ॥ ४॥
स्वस्थानेषु मरुद्गणान् नियमयन् स्वाधीनसर्वेन्द्रियः
पर्यङ्कस्थिरधारणाप्रकटितप्रत्यङ्मुखावस्थितिः ।
प्रायेण प्रणिपेदुषः प्रभुरसौ योगं निजं शिक्षयन्
कामानातनुतादशेष जगतां कामासिका केसरी ॥ ५॥
विकस्वरनखस्वरुक्षतहिरण्यवक्षःस्थली
निरर्गलविनिर्गलद्रुधिरसिन्धुसन्ध्यायिताः ।
अवन्तु मदनासिका मनुजपञ्चवक्त्रस्य मां
अहम्प्रथमिका मिथः प्रकटिताहवा बाहवः ॥ ६॥
सटापटलभीषणे सरभसाट्टहासोद्भटे
स्फुरत्क्रुधिपरिस्फुटभ्रुकुटिकेऽपि वक्त्रे कृते ।
कृपाकपटकेसरिन् दनुजडिम्भदत्तस्तना
सरोजसदृशा दृशा व्यतिविषज्य ते व्यज्यते ॥ ७॥
त्वयि रक्षति रक्षकैः किमन्यैस्त्वयि चारक्षति रक्षकैः किमन्यैः ।
इति निश्चितधीः श्रयामि नित्यं नृहरे वेगवतीतटाश्रयं त्वाम् ॥ ८॥
इत्थं स्तुतः सकृदिहाष्टभिरेष पद्यैः
श्रीवेङ्कटेशरचितैस्त्रिदशेन्द्रवन्द्यः ।
दुर्दान्तघोरदुरितद्विरदेन्द्रभेदी
कामासिकानरहरिर्वितनोतु कामान् ॥ ९॥
इति श्रीवेदान्तदेशिकृतं कामासिकाष्टकं सम्पूर्णम् ।
This stotra is in praise of the Lord whom Tirumangai Alwar has referred to as Velukkai-aalari, the narasiMha of Velukkai. Peyalwar had already given that name to the kShetra. Velukkai is the colloquial form of Velirukkai (in Tamil). vedAnta deshika literally translates it as kAmAsika (kAma is the god of love-Cupid, his sitting posture). The description of Lord narasiMha in shlokas 459, 460, 463 and 464 and of His posture in shlokas 461 and 462 is highly enjoyable.
Proofread by PSA Easwaran