कार्पण्यपञ्जिकास्तोत्रम्

कार्पण्यपञ्जिकास्तोत्रम्

ध्यानः । कोणेनाक्ष्णोः पृथुरुचिः मिथो हारिणा लिह्यमाना- वेकैकेन प्रचुरपुलकेनोपगुढौ भुजेन । गौरीश्यामौ वसनयुगलं श्यामगौरं वसानौ राधाकृष्णौ स्मरविलसितोद्दामतृष्णौ स्मरामि ॥ १॥ अथ श्रीकार्पण्यपञ्जिकास्तोत्रं श्रीवृन्दावनेशौ जयतः तिष्ठन् वृन्दाटवीकुञ्जे विज्ञप्तिं विदधत्यसौ । वृन्दाटवीशयोः पादपद्मेषु कृपनो जनः ॥ १॥ नवेन्दीवरसन्दोहसौन्दर्यास्कन्दनप्रभम् । चारुगोरोचनागर्वगौरवग्रासिगौरभाम् ॥ २॥ शातकुम्भकदम्बश्रीविडम्बिस्फुरदम्बरम् । हरता किंशुकस्यांशून् अंशुकेन विराजिताम् ॥ ३॥ सर्वकैशोरवद्वृन्दचूडारूढहरिण्मणिम् । गोष्ठाशेषकिशोरीणां धम्मिल्लोत्तंसमल्लिकाम् ॥ ४॥ श्रीशमुख्यात्मरूपणां रूपातिशयिविग्रहम् । रमोज्ज्वलव्रजवधूव्रजविस्मापिसौष्ठवाम् ॥ ५॥ सौरभ्यहृतगान्धर्वं गन्धोन्मादितमाधवाम् । राधारोधनवंशीकं महतीमोहिताच्युताम् ॥ ६॥ राधाधृतिधनस्तेनलोचनाञ्चलचापलम् । दृगञ्चलकलाभृङ्गीदष्टकृष्णहृदम्बुजाम् ॥ ७॥ राधागूढपरीहासप्रौढिनिर्वचनीकृतम् । व्रजेन्द्रसुतनर्मोक्तिरोमाञ्चिततनूलताम् ॥ ८॥ दिव्यसद्गुणमाणिक्यश्रेणीरोहणपर्वतम् । उमादिरमणीव्यूहस्पृहणीयगुणोत्कराम् ॥ ९॥ त्वां च वृन्दावनाधीश त्वां च वृन्दावनेश्वरि । काकुभिर्वन्दमानोऽयं मन्दं प्राऋथयते जनः ॥ १०॥ ॥ दशभिः कुलकम् ॥ योग्यता मे न काचिद् वां कृपालाभाय यद्यपि । महाकृपालुमौलित्वात् तथापि कुरुतं कृपाम् ॥ ११॥ अयोग्ये सापराधेऽपि दृश्यन्ते कृपयाकुलाः । महाकृपालवो हन्त लोके लोकेशवन्दितौ ॥ १२॥ भक्तेर्वां करुणाहेतोर्लेशाभासोऽपि नास्ति मे । महालीलेशरतया तदप्यत्र प्रसीदतम् ॥ १३॥ जने दुष्टेऽप्यभक्तेऽपि प्रसीदन्तो विलोकिताः । महालीलामहेशाश्च हा नाथौ बहवो भुवि ॥ १४॥ अधमोऽप्युत्तमं मत्वा स्वमज्ञेऽपि मनीषिणम् । शिष्टं दुष्टोऽप्ययं जन्तुर्मन्तुं व्यधित यद्यपि ॥ १५॥ तथाप्यस्मिन् कदाचिद् वामधीशौ नामजल्पिनि । अवद्यवृन्दनिस्तारिनामाभासौ प्रसीदतम् ॥ १६॥ यदक्षम्यं नु युवयोः सकृद्भक्तिलवादपि । तदागः क्वापि नास्त्येव कृताशां प्रार्थये ततः ॥ १७॥ हन्त क्लीबोऽपि जीवोऽयं नीतः कष्टेन धृष्टताम् । मुहुः प्रार्थयते नाथौ प्रसादः कोऽप्युदञ्चतु ॥ १८॥ एष पापी रुदन्न् उच्चैरादाय रदनैस्तृणम् । हा नाथौ नाथेति प्राणी सीदत्यत्र प्रसीदतम् ॥ १९॥ हाहारावमसौ कुर्वन् दुर्भगो भिक्षते जनः । एतां मे श‍ृणुतं काकुं काकुं श‍ृणुतमीश्वरौ ॥ २०॥ याचे फुत्कृत्य फुत्कृत्य हा हा काकुभिराकुलः । प्रसीदतमयोग्येऽपि जनेऽस्मिन् करुणार्णवौ ॥ २१॥ क्रोशत्यार्तस्वरैरास्ये न्यस्याङ्गुष्ठमसौ जनः । कुरुतं कुरुतं नाथौ करुणाकणिकामपि ॥ २२॥ वाचेह दीनया याचे साक्रन्दमतिमन्दधीः । किरतं करुणस्वान्तौ करुणोर्मिच्छटामपि ॥ २३॥ मधुराः सन्ति यावन्तो भावाः सर्वत्र चेतसः । तेभ्योऽपि प्रेममधुरं प्रसादीकुरुतं निजम् ॥ २४॥ सेवामेवाद्य वां देवावीहे किञ्चन नापरम् । प्रसादाभिमुखौ हन्त भवन्तौ भवतां मयि ॥ २५॥ नाथितं परमेवेदमनाथजनवत्सलौ । स्वं साक्षाद्दास्यमेवास्मिन् प्रसादीकुरुतं जने ॥ २६॥ अञ्जलिं मूर्ध्नि विन्यस्य दीनोऽयं भिक्षते जनः । अस्य सिद्धिरभीष्टस्य सकृदप्युपपाद्यताम् ॥ २७॥ अमलो वां पारिमलः कदा परिमलन् वने । अनर्घेण प्रमोदेन घ्राणं मे घूर्णयिष्यति ॥ २८॥ रञ्जयिस्यति कर्णौ मे हंसगुञ्जितगञ्जनम् । मञ्जुलं किं नु युवयोर्मञ्जीरकलसिञ्जितम् ॥ २९॥ सौभाग्याङ्करथाङ्गादिलक्षितानि पदानि वाम् । कदा वृन्दावने पश्यन्न् उन्मदिष्यत्ययं जनः ॥ ३०॥ सर्वसौन्दर्यमर्यादानीराज्यपदनीरजौ । किमपूर्वाणि पर्वाणि हा ममाक्ष्णोर्विधास्यथ ॥ ३१॥ सुचिराशाफलाभोगपदाम्भोजविलोकनौ । युवां साक्षाज्जनस्यास्य भवेतामिह किं भवे ॥ ३२॥ कदा वृन्दाटवीकुञ्जकन्दरे सुन्दरोदयौ । खेलन्तौ वां विलोकिष्ये सुरतौ नातिदूरतः ॥ ३३॥ गुर्वायत्ततया क्वापि दुर्लभान्योन्यवीक्षणौ । मिथः सन्देशसीधुभ्यां नन्दयिस्यामि वां कदा ॥ ३४॥ गवेषयन्तावन्योऽन्यं कदा वृन्दावनान्तरे । सङ्गमय्य युवां लप्स्ये हारिणं पारितोषिकम् ॥ ३५॥ पणीकृतमिथोहारलुञ्चनव्यग्रहस्तयोः । कलिं द्यूते विलोकिष्ये कदा वां जितकाशिनोः ॥ ३६॥ कुञ्जे कुसुमशय्यायां कदा वामर्पिताङ्गयोः । पादसंवाहनं हन्त जनोऽयं रचयिष्यति ॥ ३७॥ कन्दर्पकलहोद्घट्टत्रुटितानां लतागृहे । कदा गुम्फाय हाराणां भवन्तौ मां नियोक्ष्यतः ॥ ३८॥ केलिकल्लोलविस्रस्तान् हन्त वृन्दावनेश्वरौ । कर्हि बर्हिपतत्रैर्वां मण्डयिष्यामि कुन्तलान् ॥ ३९॥ कन्दर्पकेलिपाण्डित्यखण्डिताकल्पयोरहम् । कदा वामलिकद्वन्द्वं करिष्ये तिलकोज्ज्वलम् ॥ ४०॥ देवारम्भे वनस्रग्भिर्दृशौ ते देवि कज्जलैः । अयं जनः कदा कुञ्जमण्डपे मण्डयिष्यति ॥ ४१॥ जाम्बूनदाभताम्बूलीपर्णान्यवदलय्य वाम् । वदनाम्बुजयोरेष निधास्यति जनः कदा ॥ ४२॥ क्वासौ दुष्कृतकर्माहं क्व वामभ्यर्थनेदृशी । किं वा कं वा न युवयोरुन्मादयति माधुरी ॥ ४३॥ यया वृन्दावने जन्तुरनर्होऽप्येष वास्यते । तयैव कृपया नाथौ सिद्धिं कुरुतमीप्सितम् ॥ ४४॥ कार्पण्यपञ्जिकामेतां सदा वृन्दाटवीनटौ । गिरैव जल्पतोऽप्यस्य जन्तोः सिध्यतु वाञ्छितम् ॥ ४५॥ इति श्रीरूपगोस्वामिविरचितस्तवमालायां श्रीकार्पण्यपञ्जिकास्तोत्रं समाप्तम् ।
% Text title            : kArpaNyapanjikAstotram
% File name             : kArpaNyapanjikAstotram.itx
% itxtitle              : kArpaNyapanjikAstotram (rUpagosvAmivirachitam)
% engtitle              : kArpaNyapanjikAstotram
% Category              : vishhnu, krishna, rUpagosvAmin, stavamAlA
% Location              : doc_vishhnu
% Sublocation           : vishhnu
% SubDeity              : krishna
% Author                : Rupagoswami
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : Jan Brzezinski (Jagadananda Das) jankbrz at yahoo.com and Neal Delmonico (Nitai Das) ndelmonico at sbcglobal.net
% Description/comments  : From stavamAlA (rUpagosvAmivirachitA) Garland of Devotional Prayers stavamAlA
% Indexextra            : (Scan, Bengali, Meaning 1, 2, Info)
% Acknowledge-Permission: http://granthamandira.net Gaudiya Grantha Mandira
% Latest update         : February 22, 2019
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org