श्रीकृष्णाष्टकस्तोत्रम्
नमोऽस्तु कृष्णाय सहाग्रजाय
देव्यै च तस्यै वृषभानु जायै ।
नमोऽस्तु वृष्ण्यन्धक सात्वतेभ्यः
नमो नमस्ते यदुवंशजेभ्यः ॥ १॥
श्रीसच्चिदानन्द सुश्यामलाय
राधादिगोपीजन सेविताय ।
वृन्दावनेरासविहारकाय
नमो नमस्ते यदुनन्दनाय ॥ २॥
श्रीकृष्ण(मूर्ति) घनश्यामल शोभिताय
दिव्याय प्रेमरससार सुशान्तिदाय ।
आनन्द सागर सुशोभित मुक्तिदाय
कृष्णाय शक्तिसहिताय नमामिनित्यम् ॥ ३॥
आनन्द सिन्धु निजधाम निवासकाय
स्वलोकवासीजन शान्ति सदाप्रदाय ।
गोलोकमेव सततं समलङ्कृताय
कृष्णायशक्तिसहिताय नमामिनित्यम् ॥ ४॥
किरीटिनं कुण्डलिनं वनमालाविभूषितम् ।
निर्भयमुद्रया युक्तं करकञ्ज सुशोभितम् ॥ ५॥
प्रसन्नवदनं देवं कृष्णं वन्दे जगद्गुरुम् ॥
श्रीवासुदेवं वसुदेवपुत्रं
श्रीदेवकीनन्दन कृष्णचन्द्रम् ।
श्रीरच्यूतं वंशीधरं मुरारिं
मां रक्षकं त्वां प्रणमामि नित्यम् ॥ ६॥
वर्हावतंवधर सुन्दरवालरूपं
विम्बाधरं सुमधुरं शिशुगोपवेषम् ।
आनन्दकन्द मुरलीधर श्यामलं त्वां
वृन्दावनालयमहं प्रणमामिनित्यम् ॥ ७॥
आनन्दमात्रञ्च सदैव निर्मलं
पापं विनाशाय सतत्परं च तम् ।
स्वभक्तत्राणाय सदा सुलग्नकं
नमामि कृष्णं सततं सुपूज्यम् ॥ ८॥
इति श्री स्वामी उमेश्वरानन्दतीर्थविरचितं
श्रीकृष्णाष्टकस्तोत्रं सम्पूर्णम् ।
Proofread by Paresh Panditrao