कृष्णचन्द्राष्टकम्

कृष्णचन्द्राष्टकम्

अम्बुदाञ्जनेन्द्रनीलनिन्दिकान्तिडम्बरः कुङ्कुमोद्यदर्कविद्युदंशुदिव्यदम्बरः । श्रीमदङ्गचर्चितेन्दुपीतनाक्तचन्दनः स्वाङ्घ्रिदास्यदोऽस्तु मे स बल्लवेन्द्रनन्दनः ॥ १॥ गण्डताण्डवातिपण्डिताण्डजेशकुण्डल- श्चन्द्रपद्मषण्डगर्वखण्डनस्यमण्डलः । बल्लवीषु वर्धितात्मगूढभावबन्धनः स्वाङ्घ्रिदास्यदोऽस्तु मे स बल्लवेन्द्रनन्दनः ॥ २॥ नित्यनव्यरूपवेषहर्दकेलिचेष्टितः केलिनर्मसार्मदायिमित्रवृन्दवेष्टितः । स्वीयकेलिकाननांशुनिर्जितेन्द्रनन्दनः स्वाङ्घ्रिदास्यदोऽस्तु मे स बल्लवेन्द्रनन्दनः ॥ ३॥ प्रेमहेममण्डितात्मबन्धुताभिनन्दितः क्सौणिलग्नभाललोकपालपालिवन्दितः । नित्यकालसृष्टविप्रगौरवालिवन्दनः स्वाङ्घ्रिदास्यदोऽस्तु मे स बल्लवेन्द्रनन्दनः ॥ ४॥ लीलयेन्द्रकालियोष्णकंसवत्सघातक- स्तत्तदात्मकेलिवृष्टिपुष्टभक्तचातकः । वीर्यशीललिलायात्मघोसवासिनन्दनः स्वाङ्घ्रिदास्यदोऽस्तु मे स बल्लवेन्द्रनन्दनः ॥ ५॥ कुञ्जरासकेलिसीधुराधिकादितोषण- स्तत्तदात्मकेलिनर्मतत्तदालिपोषणः । प्रेमशीलकेलिकीर्तिविश्वचित्तनन्दनः स्वाङ्घ्रिदास्यदोऽस्तु मे स बल्लवेन्द्रनन्दनः ॥ ६॥ रासकेलिदर्शितात्मशुद्धभक्तिसत्पथः स्वीयचित्ररूपवेषमन्मथलीमन्मथः । गोपीकसु नेत्रकोणभाववृन्दगन्धनः स्वाङ्घ्रिदास्यदोऽस्तु मे स बल्लवेन्द्रनन्दनः ॥ ७॥ पुष्पचायिराधिकाभिमर्षलब्धितर्षितः प्रेमवाम्यराम्यराधिकास्यदृष्टिहर्षितः । राधिकोरसीह लेप एष हरिचन्दनः स्वाङ्घ्रिदास्यदोऽस्तु मे स बल्लवेन्द्रनन्दनः ॥ ८॥ अष्टकेन यस्त्वनेन राधिकासुवल्लभं संस्तवीति दर्शनेऽपि सिन्धुजादिदुर्लभम् । तं युनक्ति तुष्टचित्त एष घोषकानने राधिकाङ्गसङ्गनन्दितात्मपादसेवने ॥ ९॥ इति कृष्णदासकविराजविरचितं कृष्णचन्द्राष्टकं सम्पूर्णम् ।
% Text title            : kRRiShNachandrAShTakam 3
% File name             : kRRiShNachandrAShTakam3.itx
% itxtitle              : kRiShNachandrAShTakam 3 (kRiShNadAsakavirAjavirachitam )
% engtitle              : kRRiShNachandrAShTakam 3
% Category              : aShTaka, vishhnu, krishna, vishnu
% Location              : doc_vishhnu
% Sublocation           : vishhnu
% SubDeity              : krishna
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Indexextra            : (English, Hindi)
% Latest update         : September 19, 2020
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org