श्रीकृष्णकृतं श्रीकृष्णनारायणस्तोत्रम्
श्रीकृष्णस्तं कृष्णनारायणं पुपूज सादरम् ॥ ३८॥
सुरवालं पीतपटं कञ्चुकं स्वर्णतारकम् ।
शिरस्त्राणं सकल्गिं चावतंसकौ कौसुमौ शुभौ ॥ ३९॥
पुष्पहारान् पारिजातकृतान् ददौ गलेऽर्भकम् ।
उपानहौ स्वर्णसाध्यौ कोमलौ प्रददौ तथा ॥ ४०॥
छत्रं सुचामरे रम्ये रशनां कुण्डले ददौ ।
मणिं कौस्तुभजातीयोत्तमं मालां च मौक्तिकीम् ॥ ४१॥
ददौ श्रीबालकृष्णाय वंशीं ददौ मृदुस्वराम् ।
यष्टिं सिद्धिमयीं चापि ददौ सिंहासनं वरम् ॥ ४२॥
एवं बालप्रभुं कृष्णः पूजयित्वा स्तुतिं व्यधात् ।
सर्वसाक्षिन्नमस्तेऽस्तु सर्वावतारकारण ॥ ४३॥
पुरुषोत्तम मुक्तेश परधामन् नमोऽस्तु ते ।
वर्तमानं च भूतं च भविष्यत्सर्वथा यतः ॥ ४४॥
अन्वितं राजते सौम्यं सुव्यवस्थं क्रमानुगम् ।
अनन्वितः प्रशास्ता त्वं तस्मै देवाय ते नमः ॥ ४५॥
अनन्ताः शक्तयस्तेऽत्र कुष्णनृसिंहरूपिषु ।
राधारमाश्रीस्वरूपास्तं नमामि परेश्वरम् ॥ ४६॥
अहं मे धाम गोलोकस्तथा नारायणो रमा ।
श्रीर्वैकुण्ठं चामृतं सत्पदं यस्मात्प्रवर्तते ॥ ४७॥
अक्षरं धाम यस्याऽग्रे समूर्तं सेवकं सदा ।
ईश्वरा अवताराश्च यदंशगुणभूषणम् ॥ ४८॥
व्यूहाश्चेश्वरपालाश्च लोकपाला महर्षयः ।
क्रतूच्छ्रयाः सुरा यस्य गुणैकैकांशमूर्तयः ॥ ४९॥
भवन्तीह तु संसारे तं नमामि परेश्वरम् ।
अन्तरात्मन्ननन्तात्मन्मदात्मँस्ते नमो नमः ॥ ५०॥
त्वं परात्मन् लोकसाक्षिन्ननन्तेश नमोऽस्तु ते ।
सर्वज्ञ त्वं परमेष्ठिन् ज्ञानज्ञेय नमोऽस्तु ते ॥ ५१॥
आदिदेव दुराराध्य परमेश्वर ते नमः ।
महायोगेश्वर साधो दयालो ते नमो नमः ॥ ५२॥
परज्योतिर्वषट्कार स्वाहाकार नमोऽस्तु ते ।
सर्वदर्शन संवर्ताऽग्निषोमात्मन्नमोऽस्तु ते ॥ ५३॥
महाराजिक सिद्धार्च्य हिरण्यवाह ते नमः ।
मञ्जुकेशिन् बालकेशिन् दयादेशिन्नमोऽस्तु ते ॥ ५४॥
विभो याज्ञिक यज्ञेश भक्तानुकम्प ते नमः ।
प्रसीद श्रीकृष्णनारायण तुभ्यं नमो नमः ॥ ५५॥
इत्युक्त्वा श्रीकृष्णदेवो नत्वा राधा तथा प्रभुम् ।
ययतुः श्रीकम्भरायाः सन्निधौ भुवनान्तरे ॥ ५६॥
इति श्रीलक्ष्मीनारायणीयसंहितायाः त्रेतायुगसन्तानात्मकस्य
द्वितीयखण्डे ३९-अध्यायान्तर्गतं श्रीकृष्णकृतं
श्रीकृष्णनारायणस्तोत्रं सम्पूर्णम् ।
लक्ष्मीनारायणीयसंहिता । खण्ड २। अध्याय ३९/३८-५६॥
lakShmInArAyaNIyasaMhitA . khaNDa 2. adhyAya 39/38-56..
Proofread by PSA Easwaran