श्रीकृष्णकर्पूरस्तोत्रम्
कर्पूरं पूररेफैर्विरहितमवनी वामनेत्रेन्दुभूषं
कृष्णायेदं पदं यः प्रजपति सुजनष्ठद्रयं योजयित्वा ।
नानासौख्यादिभोगैः सह स विहरते दीर्घजीवी पृथिव्या-
मन्ते गोलोकवासो भवति हरिरसे लीनचित्तस्य तस्य ॥ १॥
ध्यायत्रून्रूपं त्वदीयं हृदि विमलमुखं शान्तचित्तो जनो यो-
मन्दं मन्दं स्मरन् सन् तव सुमनुवरं पूर्णमर्थं विचार्य ।
भोः कृष्ण त्वद्विलीनं निखिलजगदिदं भावयन् सुप्रहृष्टो-
जीवन्मुक्तः प्रशान्तः प्रभवति स नरो लोकपूज्यः सुरेश ॥ २॥
नादब्रह्माङ्कुरस्त्वं सुनिखिलजगदाधारबीजस्वरूपः
सिद्धानां सिद्धरूपः कुलजनहृदये चित्कलाकाररूपः ।
कालस्यान्तस्वरूपः कलिकलुष महाकालरूपस्त्वमेव
श्रीमद्योगेशवन्द्यस्त्वमसि मधुरिपुः पाहि मां दीनबन्धो ॥ ३॥
गोपीनां कामदेवो द्रुपदतनुजनुः कामधेनुस्वरूपो-
गोपालानां सखा त्वं विविधनृपनुतो वान्धवः पाण्डवानाम् ।
नन्दस्यानन्ददाता सहचरवरदो राधिकाचित्तचौरो-
रत्नं त्वं यादवानां शिवसखकृपया रक्ष मां नाथहीनम् ॥ ४॥
विष्णुस्त्वं व्यापकत्वात्त्वमसि गिरिधरो गोशिखाधारणत्वात्
कृष्णः श्यामाङ्गकत्वाद्यदुकुलजननाद्वासुदेवस्त्वमेव ।
पूर्णब्रह्मात्मकत्वात्त्वमसि हि निखिलानन्दरूपाच्युताख्यः
काली त्वं पुंस्वरूपा कुलजनवरदः कालसङ्कल्पनाच्च ॥ ५॥
महामेघश्यामं मणिमुकुट पीताम्बरधरं
सुवेणुं बाहुभ्यां दधतमतिशोभायुततनुम् ।
हरे प्रत्यालीढासनपरिगतं त्वां स्मितमुखं
त्रिपञ्चारे पीठे स्मरति कुलजः कृष्णमतुलम् ॥ ६॥
दिवा श्रीकृष्ण त्वां यजति तुलसीपत्रकमलै-
र्जनो यो लक्षञ्च प्रजपति मनुं ते दृढमनाः ।
नरेन्द्रः सम्भूय प्रभवति स लक्ष्मीपतिरं
महावागीशानी निवसति च तत्कएठकुहरे ॥ ७॥
१लतागेहे स्थित्वा २नवनिधुवनान्तर्गतमना
यजन् त्वां रात्रौ श्रीरमण ३कुलपुष्पैः ४कुलधनैः ।
५कुलस्थानं पश्यन् प्रजपति मनुं यः ६कुलजनः
स जीवन्मुक्तः सन् विचरति शिवोऽक्षितितले ॥ ८॥
महा जन्माष्टम्यां तव चरणयुग्मं मुनिपते
निशायामभ्यर्च्य प्रजपति सहस्राक्षरमनुम् ।
हृदम्भोजे ध्यायन् तव ललितरूपं सपदियः
सदानन्दाकारः प्रभवति स मान्यः सुरसमः ॥ ९॥
समाराध्य प्राणेन्द्रियमपि ७कुलाचारविधिना
वलिं कामक्रोधादिकपशुगणानां प्रतिदिनम् ।
प्रयच्छेद्यस्तुभ्यं तवचरण पद्मार्पितमनाः
स एव ब्रह्मज्ञः स च परशिवः सैष सकलः ॥ १०॥
अनन्त श्रीकृष्ण त्रिपुरहरवन्धो सुरनुत
त्वमेतद्ब्रह्माण्डं सृजसि मनसा रक्षसि हरे ।
पुनः स्वामिन् काले सकलमपि लीनं प्रकुरुषे
त्वमेवैको नान्यस्त्वमसि जगतां मुख्यनिलयः ॥ ११॥
अभूमिस्त्वं भूमन् गुणविषययोर्वाङ्मनसयोः
कथं स्तोतुं शक्यो भवसि धनशंशेरवचसा ।
तथापि त्वद्भक्तिर्मुखरयति मामत्र भवती
सपर्यापर्यायः प्रभवतु ततस्त्वत्स्तुतिरयम् ॥ १२॥
(टिप्पणी
१ लताः इडापिङ्गलासुषुम्णानाडीत्रयं तस्य गेहं
नाडीस्पन्दस्थानमाज्ञाचक्रम् ।
२ नवनिधुवनं मूलाधारगतकुण्डल्याः
सहस्रारस्थपरशिवेनसह संयोगस्थानम् ॥
३ कुलपुष्पानि मूलाधारगतकुण्डल्या सहस्रारगतचन्द्रमण्डले
आघातात् निसृतलाक्षारसाभामृतविन्दवः ।
४ कुलधनानि पञ्चप्राणाः
५ मूलाधारस्थकुण्डल्या आरोहावरोहक्रम एव कुलाकुलक्रमः
तस्य स्थानं मृणालतन्तुः ।
६ ``कुलाकुलकमाभ्यासद्भवेत्कौलोवरानने'' । इति वचनात्
एवं कौलो भवति स एव कुलजनः प्रथवा कुलतः उच्यते ।)
७ कुलाचारविधिरेव कुलाकुलक्रमाभ्यासम्
इति श्रीधनशंशेरजङ्गवर्मणाविरचितं वीरेन्द्रकेसरिन्
शर्मणा संशोधितं श्रीकृष्ण कर्पूरस्तोत्रम् ॥
Proofread by Mohan Chettoor