श्रीकृष्णनारायणनामसहस्रस्तोत्रम्

श्रीकृष्णनारायणनामसहस्रस्तोत्रम्

(श्रीपुरुषोत्तमसामाख्यमनादिश्रीकृष्णनारायणनामसहस्रस्तोत्रम्) अस्य श्रीमत्कृष्णनारायणनामस्तवस्य तु । ऋषिः सर्वेश्वरो लक्ष्मि त्वहं श्रीपुरुषोत्तमः ॥ १५॥ छन्दोऽनुष्टुप् परो देवोऽनादिकृष्णनरायणः । आक्षराख्यो महामुक्तो मुक्तानीशो हि बीजकम् ॥ १६॥ श्रीभूलीलारमाराधालक्ष्मीमाणिक्य एव च । शक्तयो हृदयं श्रीमत्पुरुषोत्तम साम च ॥ १७॥ गोपालकम्भराबालः कीलकं चाऽस्त्रमाच्युतम् । पद्मावतीरमापद्मास्वामिने च वषट् नमः ॥ १८॥ शूलमीनध्वजधनुर्बाणध्रोऽस्त्राय फट् स्वाहा । सर्वबाधानिवृत्त्यर्थं जपेऽस्य विनियोजनम् ॥ १९॥ ब्रह्मलोके विराजन्तं जुष्टं ब्रह्मिष्ठमण्डलैः । ब्रह्मप्रियास्वामिनं तं ध्याये सर्वान्तरस्थितम् ॥ २०॥ दिव्ये लोमशक्षेत्रे वै विहरन्तं मनोहरम् । मन्दहासं पूर्णकामं कान्तं कृष्णं विचिन्तये ॥ २१॥ पुष्टं प्रियं कामदं च दुःखहं सुखदं प्रभुम् । चत्वारिंशदूर्ध्वशतकान्तं स्मरामि मोक्षदम् ॥ २२॥ भुक्तिदं मुक्तिदं चेष्टप्रदं सर्वप्रदं हरिम् । अनादिश्रीकृष्णनारायणं पतिं भजामि च ॥ २३॥ किरीटकुण्डलभूषाभूषितं रूपसुन्दरम् । आकर्षकं श्वेतवर्णं बालकृष्णं नमाम्यहम् ॥ २४॥ कोट्यर्बुदाब्जशक्तीनां पतिं चात्मपतिं विभुम् । पीताम्बरं सतां श्रेष्ठं सेवे चात्मनिवेदनैः ॥ २५॥ नमोऽनन्तस्वरूपाय सर्वपादाक्षिवर्तिने । सहस्रनामबोध्याय काममायेश्वरात्मने ॥ २६॥ ॐ प्रमात्मा परमात्मा परब्रह्म परेश्वर । पुरुषोत्तम ईशेशश्चाक्षराधिपतिः प्रभुः ॥ २७॥ मुक्तेश्वरोऽवतारेशो मुक्तानीशो महाप्रभुः । अनादिश्रीकृष्णनारायणः श्रीकृष्णनन्दनः ॥ २८॥ बाह्यमूर्तिश्चात्मवृत्तिः सर्वज्ञः श्रीहरिर्विभुः । अक्षरो ब्रह्म भगवान् वासुदेवो नरायणः ॥ २९॥ नारायणः स्वयञ्ज्योतिर्बालकृष्णश्चिदम्बरः । धामेशः शाश्वतानन्दोऽवतारी परमेश्वरः ॥ ३०॥ गोमान् दिव्यगुणागारः श्यामसुन्दर आन्तरः । सन् सनातन आनन्दश्चिच्चिदात्मा जडान्वितः ॥ ३१॥ ऋद्धिमान् भूतिमान् राजा सङ्कर्षणो नियामकः । गोपालो गाङ्गतो गोभृद्गोपीनाथो गवेश्वरः ॥ ३२॥ पार्षदः परिषत्पूज्यः पर्षत् पारिषदेश्वरः । दिव्यः शान्तः शान्तिदश्च सत्त्वः सत्त्वप्रकर्षवान् ॥ ३३॥ स्तवः श्लोकः स्मृतिः शब्दः कविर्वेदो विधिः प्रधीः । आसनं चाधिकरणं धृतिर्धैर्यं क्षमा यमः ॥ ३४॥ प्रद्युम्नो द्योतमानश्च द्यौः कान्तः कमलापतिः । अनिरुद्धोऽच्युतो भूमा महाकालो महेश्वरः ॥ ३५॥ महाविष्णुर्मध्यविष्णुर्विष्णुर्व्यापक ऊर्ध्वदृक् । वैराजः कारणं कर्ता कृतिः कार्यं नृपो जपः ॥ ३६॥ कपिः खपश्चेन्द्रियार्थ ऋषीकेशः समाधिमान् । योगी योगश्चक्रवर्ती चक्री शङ्खी गदी ध्वजी ॥ ३७॥ रथी क्षत्री च नक्षत्री वृत्तिश्चावृत्तिरुज्जयी । अव्याकृतश्च सूत्रात्मा तुर्यपदं सुखास्पदम् ॥ ३८॥ सदाशिवश्च देवश्च शिवः संहारधर्मवान् । धाता पोष्टा विधाता च पिता माता सुहृत्सखा ॥ ३९॥ प्राणनाथः सहायश्च स्वामी धानी धनी मखी । कोशो विश्वं महाभूतो भावः सम्भावनाधिपः ॥ ४०॥ गतिः कान्तिः पावनश्च चिदाभासः फलं फली । अन्तर्यामी पुरुषश्च क्षेत्रज्ञः क्षेत्रमार्त्तिहा ॥ ४१॥ साक्षी प्रधानपुरुषः प्रकृतीशो गुणाधिपः । गोलोकेशोऽमृतधामा वैकुण्ठेशो रमापतिः ॥ ४२॥ राधापतिः श्रीनिवासो दामोदरो विभावसुः । प्रभाजापो वामनश्च त्रिक्रमो भूरिविक्रमः ॥ ४३॥ केशवः कपिलः काशी नृसिंहो मापतिर्निधिः । श्रीशः स्थाणुः सतीशश्च शशी विद्युद्ध्रुवो रविः ॥ ४४॥ ब्रह्माऽर्यमा विष्णुरातो हरो वैष्णवसात्त्वतः । साधुर्यतिर्ब्रह्मचारी भर्ता धर्ताऽमरोऽमृतम् ॥ ४५॥ विभवः सम्भवो भूश्च पुष्कलो भूयसीप्रदः । स्वरो रागो मूर्छना च वादश्चालाप उत्सवः ॥ ४६॥ सवः सत्रं मखो यज्वा यज्ञो वह्निः प्रहव्यभुक् । दत्तात्रेयो महामत्स्यः पद्मनाभोऽब्जनेत्रकः ॥ ४७॥ कञ्जहस्ततलः शार्ङ्गी विश्वकर्मा सुराधिपः । श्वेतक्रोडो वृषभश्च वृषजन्मा वृषाकपिः ॥ ४८॥ सूतो वक्ता गुरुः शास्त्रं महाचार्यो मनुर्मधुः । ईश्वरोऽध्यापकः शास्ता न्यायो नेता च नीतिमान् ॥ ४९॥ तर्कश्च निर्णयो ज्येष्ठ ईशानश्च पुरातनः । सनातनश्च सन्न्यासी मुनिर्व्रती च तापसः ॥ ५०॥ हिरण्यगर्भो हरिणीकान्तः कमलपत्तलः । विद्वान् विद्याधरो वाग्मी वाणीशो वर्णिशीलभृत् ॥ ५१॥ गृही गृहपतिर्गोप्ता वप्ता श्रीवत्सलाञ्च्छनः । व्यासोऽनादिप्रकर्षश्च द्रष्टा श्रीकृष्णचन्द्रकः ॥ ५२॥ काम्भरेयश्च मेधावी प्रजापतिर्दिवस्पतिः । दिक्पतिः श्रीपतिर्लक्ष्मीपतिर्ब्रह्मपतिर्नतिः ॥ ५३॥ कृतज्ञः शरणं विप्रो विवाहो वररूपवान् । वरहारश्च संवर्तो मण्डपोऽनङ्ग उत्तमः ॥ ५४॥ सर्वगर्भो नरो वीर्यी प्रजात्मा वत्सरः सरः । दिवा द्युमणिरिष्टेष्टः सन्धिर्दण्डः सुखं शमः ॥ ५५॥ दानं दाता स्वत्वरूपस्त्यागः स्नेहः सुमङ्गलम् । शकुनं शकुनी पत्त्री हंसः शुकः कणः कृषिः ॥ ५६॥ स्फुरणं च प्रमा कूर्मो रामो रैवत आत्मवित् । पृथुः पर्शुधरः खड्गी धन्वी रणी रथीषुधिः ॥ ५७॥ लक्ष्यं क्रमः प्रत्ययश्च सिद्धोऽजः शाश्वतः शुभः । स्वप्रकाशो वसुः सत्यः समदर्शी समायनः ॥ ५८॥ भोगी शुक्लोऽर्जुनो दक्षः प्रत्ययः प्रत्यगात्मवान् । आमोघः सर्वयोनिश्च परमहंस आर्थिकः ॥ ५९॥ निर्वाणपादः सुषिरः शिराव्याप्तः पृथुश्रवाः । सौम्यो रौद्रो निग्रहात्मा स्वारोहः सर्वगः प्रभुः ॥ ६०॥ वित्तिर्वेद्यस्वरूपश्च वेत्ता वेदनिधिर्विधिः । विश्वक्सेनः सुसंस्थानोऽध्यक्षोऽपरोक्षगोचरः ॥ ६१॥ कृतोऽकृतस्त्रियुगश्च लोकोऽलोको रमायनः । व्यूहोंऽशो विभवश्चार्चात्मकः स्वरूप ऊर्जितः ॥ ६२॥ सहनः स्थावरो भोक्ता फलदः सृजियत्नवान् । अमोघो गदहा व्याघ्रो गिरीशो गिरिधारकः ॥ ६३॥ अनिर्वाच्यः सुवाच्यश्च महीध्रो माणिकीधरः । सन्मूर्तिः पार्श्वतिकेशो गोविन्दो गरुडध्वजः ॥ ६४॥ ऋषभो गरुडः कल्किः कुमारो बुद्धिसर्जनः । हयशीर्षाः स्वर्णवर्णः सुरर्षिः पद्मजापतिः ॥ ६५॥ मुक्तापतिर्भूपतिश्च मुक्तपती रमावसुः । विश्वावसुः सिंहरूपो निमिषश्च बृहस्पतिः ॥ ६६॥ मरुद्वनं मनस्तेजोऽम्बरं दिगम्बरः श्रुतिः । त्रिपात्पादः सर्वपाच्च प्रपाता मृदुवर्तनः ॥ ६७॥ मिष्टः सम्भ्रमणः शेषः स्वागतं सन्नवार्तिकः । असङ्ख्याक्षः शिष्टधर्मा धर्मवर्मा प्रसिद्धिमान् ॥ ६८॥ नारायणीनिवहश्च शिवराज्ञीसतीपतिः । माधवीशो भार्गवीशस्तूलसीनायको बृहत् ॥ ६९॥ देही देहीश्वरो रत्नं पुण्ड्रं पुण्ड्रधरः पुमान् । विधृतिः सर्वसेतुश्च नाको जलान् शिखी स्मृतिः ॥ ७०॥ संस्कारो गुरुता मानं सामान्यं वरदो वहः । प्रतिष्ठा स्कन्नभावश्च धुर्वहो यानमग्रणीः ॥ ७१॥ देवो मेरुर्गरुत्माँश्च प्राज्ञ आर्षश्चतुर्मुखः । कृपस्तीर्थं सावनश्च मेघो वार्धिः रसः शयः ॥ ७२॥ भद्रः सुतः शूरवीरस्तारकः स्थविरो युवा । अर्कः प्लक्षः शरभश्च गजो गजाननो मृगः ॥ ७३॥ समयो हेतुरुदरं भाग्यं तारस्तमः कला । आवेशः प्रणवो बीजं प्रयोजनं धनं क्षमः ॥ ७४॥ ऋतुर्यूपो वत्सलश्च धनेशः सोमपः पुरुः । स्थूलः सूक्ष्मश्च लिङ्गं च सुपर्णोऽनशनो मृधः ॥ ७५॥ कीशो जयो भागवतः सात्त्वतो यन्त्रचेतनः । मन्त्रो मुकुन्दो विश्वासः पत्नीव्रतः प्रदक्षिणम् ॥ ७६॥ जीवोऽनन्तोऽन्तकश्चार्हौ नन्दो दाता गुहा गृहम् । कलशः पिप्पलो वृन्दाद्रुमः कल्पलताशयः ॥ ७७॥ स्तम्भो वास्तुर्महाकुण्डश्चायुधं कम्बलः करः । कारुः शिल्पी वात्स्य आप्तस्त्वष्टा स्तरः प्ररोचनः ॥ ७८॥ अशोकः खदिरो बिल्वो वटः पलाश आमलः । उदुम्बरः कदलीशः पूगो राजेश्वरो रतिः ॥ ७९॥ दम्पती कुमुदो मोदो नन्दनः श्रीधरः स्मरः । श‍ृङ्गारो दास्यदो नेमिर्बिन्दुर्भस्म भ्रमिर्महः ॥ ८०॥ केशवः कामकृज्जिष्णुर्ब्रह्मण्यो वासुकिः प्रियः । लेखो बिम्बः प्रतिबिम्बो निरोधो दीर्घिका पयः ॥ ८१॥ प्रपा पानं पिशङ्गश्च पिङ्गाक्षो गायको गयः । नर्तको नटको मायी मन्त्री तन्त्री जितेन्द्रियः ॥ ८२॥ कल्पमणिर्महावीर्यं महद्रजोऽग्र्यपूरुषः । साधुजनः स्त्रीजनश्चाऽव्ययो वधूजनात्मकः ॥ ८३॥ स्तन्यपः साध्यदेवश्च धर्मजन्यो वृषासुतः । ऋतम्भरश्चमत्कारः स्वाहाकारश्च कर्मठः ॥ ८४॥ आरार्त्रिकं चाऽभिषेको मुकुटः कण्ठिकाप्रियः । सिन्दूरकः कुङ्कुमं च दूर्वा व्रीहिर्यवस्तिलः ॥ ८५॥ नागवल्ली चेक्षुदण्डः श्रीफलो भक्तिवर्धनः । पूगीफलस्वरूपश्च सुगन्धः श्रेय आरमः ॥ ८६॥ श्रीमयः श्रीकृतवेषः श्र्यङ्गः श्र्यानन्दसम्प्रदः । श्रीतिलकः श्रीकृतोरुः श्रीशयः श्रीकथाश्रयः ॥ ८७॥ श्रीसेवः श्रीसमवायः श्र्यशनः श्रीसमाधिमान् । लक्ष्मीलक्ष्मा महालक्ष्मीभवो लक्ष्मीविभावनः ॥ ८८॥ लक्ष्मीपार्श्वो महालक्ष्मीगर्भो लक्ष्मीधराऽधरः । ब्रह्मज्ञो ब्रह्मपरमो ब्रह्मजपोऽनृणी मणिः ॥ ८९॥ अतिथिः पूर्णचन्द्रश्च देवयानो नभोगतिः । जगद्गुरुर्जयानाथो ललिताकान्त एकलः ॥ ९०॥ स्तुतिर्जपः स्थितिः स्थैर्यं सत्ता भूतिर्विभूतिमान् । हर्षः पञ्चात्मकः साक्षी सारः स्नेहः सुसम्पवान् ॥ ९१॥ काषायवेषो दीप्तात्मा पञ्चाग्नितापसो नगः । नागो निराशो नप्ता च कामफलं कुमारकः ॥ ९२॥ स्वस्तिकः प्रतिभारूपः प्रतिज्ञात्मा प्रमापकः । सहजः स्वभवः शङ्कुः कुशः शालशिलः शिवः ॥ ९३॥ चैत्यो गर्तश्च हुङ्कारो जघनं वीथिरज्वरः । उद्गीथश्चोपनिषच्च पुराणपुरुषः शनीः ॥ ९४॥ सत्परः सन्निवासश्च श्रीद्रुमोऽसुरनाशकः । कुञ्चिकात्मा ब्रह्मरन्ध्रं ब्रह्मह्रदो महाध्रुवः ॥ ९५॥ परिधिः किरणं केशः पञ्चशिखः परासनः । प्रवर्ग्यश्च महोपायो विशिष्टो विद्रुमो वशः ॥ ९६॥ मोदकस्तण्डुलश्चापामार्गो देवाधिदैवतम् । देवानीकतिलकश्च महाश्वपट्टसारसः ॥ ९७॥ जामाता धर्मवृद्धश्च सङ्कल्पो मधुपर्ककः । सर्वतोभद्ररूपश्च पीठो वेदिर्बलिर्जलम् ॥ ९८॥ स्थण्डिलो मणिक्षेत्रेशः पाद्मक्षेत्रमहेश्वरः । लोमशानन्ददः पत्नीव्रतवंशप्रभाकरः ॥ ९९॥ इन्द्रद्युम्नस्थलीरक्षो नारसिंहवनेश्वरः । व्याघ्रारण्यनिवासश्च रुक्माङ्गदेष्टसम्प्रदः ॥ १००॥ प्राभासिकः प्रभानुश्च सोमक्षेत्रप्रपोषकः । सामपद्मनिशानाथोऽनादिकृष्णः प्रजापतिः ॥ १०१॥ वसन्तश्च किशोरश्च महेन्द्रः शम्प्रदः सहः । मङ्गलेशो मानसेशो रेवेशो विरजापतिः ॥ १०२॥ रतीशो गोमतीशश्च कामदुघेश्वरोऽतुलः । एकादशीपतिः स्वर्णरेखाकान्तो ह्यमूर्तकः ॥ १०३॥ नन्दिनीशश्च दोलेशः पुष्पं कलावतीपतिः । बदरीशश्च पम्पेशो दर्पहा बान्धवो धवः ॥ १०४॥ भक्तवत्सल उन्नेता मानकृल्लोकधृग्धरः । धन्यश्चतुर्भुजो दुर्गस्तन्तुकृत् सुकृतं कृती ॥ १०५॥ सुन्दरश्चाश्वमेधश्च पर्जन्यश्चामृतापतिः । सुलभोऽदुर्लभोऽश्वत्थो रक्षोहा दैत्यनाशनः ॥ १०६॥ सप्ताश्वः सप्तजिह्वश्च प्राग्वंशश्च प्रभातकः । आश्रमश्च यमः सूर्यचन्द्रनेत्रस्त्रिनेत्रकः ॥ १०७॥ वियन्नाभिर्भूचरणोऽनिलाऽसुर्दिक्छ्रवा द्युकः । अग्न्याननश्च बस्त्यब्धिः सर्ववर्ष्मा रमोऽरमः ॥ १०८॥ घनश्यामो हितस्तथ्यो ब्रह्मधामा स्वधामवान् । नित्यश्च चेतनश्चान्तर्यामी विशेषवित्तिमान् ॥ १०९॥ कार्यकारणरूपश्चायोजको धृतिमान् पदी । प्रत्ययितः श्रुतिगम्यो वाक्यकृत्सङ्ख्यितोऽव्ययः ॥ ११०॥ स्वस्तिदाता स्वस्तिकर्ता स्वस्तिरूपः प्रशस्तिमान् । सृष्ट्यधिष्ठानमुत्तुङ्गो गोलकः कं च खं खगः ॥ १११॥ मध्यावस्थो मध्यवासः सन्ध्यांशोऽभिजिदात्मकः । अमृतश्च शुभो लाभः क्षेमकृत् सिद्धिनायकः ॥ ११२॥ धन्वन्तरिर्नलो नालः प्रवाहो दधिमण्डपः । पुत्रः स्वर्गश्चाशीरात्मा प्रलयो वैष्णवार्चितः ॥ ११३॥ नवनीतोऽपवर्गश्च हृद्दीपः परमार्थदः । कालमायापापकर्मयमदूतभयापहा ॥ ११४॥ द्वारं द्वारी चन्द्रशालो घृताशी चाऽद्वितीयकः । बहुप्रजोऽप्रजो जाग्रत् प्राजननोऽन्तरङ्गकः ॥ ११५॥ ग्रन्थो ग्रन्थिर्नागरश्च सीमान्तः सीमवर्जितः । अबाध्यश्चाऽपरिच्छिन्नोऽविवर्तोऽपरिणामकः ॥ ११६॥ अवच्छेदक ऐश्वर्यं लक्षणं लक्ष्यमीशनीः । ईतिः कवलमन्नं च सनातनतमः सनः ॥ ११७॥ वंशी कदम्बकः कीलः समाजः सार्थ आदरः । उदारो द्व्यात्मकः श्रेष्ठी त्रियुगो युगलात्मकः ॥ ११८॥ स्त्रीपतिः स्वपतिः प्राप्तिस्तादात्म्यं निर्मितिः कृतिः । तत्त्वं स्वत्वमभिप्रायश्चेष्टोद्भवश्च भावनः ॥ ११९॥ उदयोऽयः प्रमेधश्च सुषुम्णामूर्तिदर्शनः । दानं दमो दया दिष्टं दितिर्दर्वी च दोहनम् ॥ १२०॥ वक्ता वाचयिता लेखयिताऽध्यापक ऊहवान् । वाङ्मनोऽगोचरः पुण्यं पुण्यश्रुतिजपार्हणः ॥ १२१॥ जीवनं मन्दहासः सत्पथाचारः पणो रणः । आत्मजश्चागमेयश्च नैगमेयो ह्यनावरः ॥ १२२॥ असङ्ख्यश्चैकसङ्ख्यश्च निर्भयो भयनाशकः । आध्वरो हवनादश्च भावादनो भवापहः ॥ १२३॥ ऊर्ध्ववीर्योऽप्रस्खलनो विघ्नहा च नरोत्तमः । दुःस्वप्ननाशकः शान्तिप्रदः प्रमोदकारकः ॥ १२४॥ आकर्षकोऽक्षयपात्रं पर्यवसानमौरसः । व्याहृतिर्व्यवहारश्च स्फुर्तिश्चेकाक्षरो ध्वनिः ॥ १२५॥ भुक्तिदो मुक्तिदः पापक्षालनः पुण्यदः प्रथः । ख्यात्यात्मा सर्वसेनश्च दिक्तारो नाद ईपतिः ॥ १२६॥ स्फोटो नौका फलं पुष्पं पिष्टं सदसदात्मकः । ब्रह्मसूत्रं कङ्कणं च सद्धेतुः सर्वहेतिमान् ॥ १२७॥ मूलं मूलोत्तरं मूलादिमः सर्वान्तसंस्थितः । आलयश्च तलं सर्वोदरः सर्वशरीरकः ॥ १२८॥ अन्वयो व्यतिरेकश्च नित्ययुक्तो नमःपुरः । सम्पन्नो विकसद्भावो विश्वसद्भाव ओन्नमः ॥ १२९॥ इतीदं पावनं पुण्यं सर्वबाधाविनाशकम् । अनादिश्रीकृष्णनारायणनाम्नां सहस्रकम् ॥ १३०॥ पुरुषोत्तमसामाख्यं स्तोत्रं लक्ष्मि मयोदितम् । श्रोतुर्वक्तुः कीर्तयितुर्मन्तुर्नश्यत्यघानि वै ॥ १३१॥ इहाऽमुत्र न बाधा स्याद्विघ्ननाशो द्रुतं भवेत् । विप्रो विद्वान् ब्रह्मवित्स्याच्छूरः क्षत्रो जयी भवेत् ॥ १३२॥ धनी श्रेष्ठी वैश्यवर्णो भवेच्छूद्रः सुखी भवेत् । ब्रह्मचारी चमत्कारी गृही स्त्रीसम्पदन्वितः ॥ १३३॥ वनी वन्यर्द्धिसम्पन्नो भवेत् साधुः प्रशान्तिमान् । विन्देद्धर्मं धर्मरुचिश्चार्थेच्छुरर्थवान् भवेत् ॥ १३४॥ कामेच्छुः कामसम्पत्तिं मुमुक्षुर्मोक्षमृच्छति । राज्यार्थी राज्यमाविन्देत्प्रजार्थी तु प्रजां लभेत् ॥ १३५॥ पुत्रार्थी पुत्रमृच्छेद्वै भार्यार्थी स्त्रीं लभेन्नवाम् । कन्यार्थी कन्यकामृच्छेत् पत्यर्थिका पतिं लभेत् ॥ १३६॥ विद्यार्थी प्राप्नुयाद्विद्यां धनार्थी धनमाप्नुयात् । वृत्त्यर्थी वृत्तिमान् स्याच्च भोगार्थी भोगवान् भवेत् ॥ १३७॥ इष्टार्थी चेष्टमृच्छेच्च गृहार्थी गृहमाप्नुयात् । नित्यं प्रातः पठेद्भक्त्या शुद्धान्तःकरणस्तु यः ॥ १३८॥ प्रधानतां यशः ख्यातिं श्रियं श्रेयश्च विन्दति । भयं नैव भवत्यस्य तेजो वीर्यं च वर्धते ॥ १३९॥ नीरोगो जायते पाठात्पुष्टो बली गुणी भवेत् । रूपवान् जायते रम्यः काम्यो भवति पाठनात् ॥ १४०॥ बन्धनं शीर्यते वक्तुर्भयं नश्यति सर्वथा । आपत्तयो विनश्यन्ति नश्यन्ति शत्रवोऽपि च ॥ १४१॥ दुर्गाणि सुगमान्येव भवन्ति स्तुवतः खलु । पुरुषोत्तमशरणः स्यात्पुरुषोत्तमभक्तिमान् ॥ १४२॥ मायाञ्जनरहितात्मा लभते पुरुषोत्तमम् । मद्भक्तस्याऽशुभं नास्ति संसारस्य भयं न च ॥ १४३॥ दुरीतं जन्म मृत्युश्च व्याधिर्जरा न रुग्णता । मोघताऽभिभवो नैव मद्भक्तस्य प्रजायते ॥ १४४॥ एतत्पाठाद्भवेदात्मसुखं शान्तिः सुसम्पदः । स्मृद्धिः श्रीः कीर्तिरौदार्यं प्राधान्यं पुष्टिरीशिता ॥ १४५॥ मुक्ता ईशाः पितरश्च सिद्धा देवा महर्षयः । एतत्स्तोत्रजपेनैव सिद्धिं परमिकां ययुः ॥ १४६॥ आयुष्मान् भवते श्रुत्वा निष्पापः पठनाद्भवेत् । श्रद्धाभक्तियुतो वक्ता प्रेत्य चेह प्रमोदते ॥ १४७॥ मयाऽनादिकृष्णनारायणेन ते प्रभाषितम् । लक्ष्मि स्तोत्रं मत्परं तत्पाठान्मत्परमो भवेत् ॥ १४८॥ अपि श्लोकैकपाठेन पाठोऽस्यापि कृतो भवेत् । श‍ृणु लक्ष्मि चमत्कारमयं श्लोकं वदामि ते ॥ १४९॥ ``नमामि सृष्टित्रयसंविधायिने भजामि कोट्यर्बुदशक्तिशालिने । ध्यायामि चात्मान्तरसन्नियामिने- अर्पयामिसर्वत्वमथाऽऽत्मवेदिने'' ॥ १५०॥ नमोऽनन्तस्वरूपाय नमोऽसङ्ख्यप्रमूर्तये । नमो युगलरूपाय नमः श्रीपरमात्मने ॥ १५१॥ नमोऽनादिकृष्णनारायणाय स्वामिने नमः । नमः श्रीकम्भरालक्ष्मीगोपालजनुषे नमः ॥ १५२॥ नमोऽनाथाधिनाथाय नमः कान्ताकृपालवे । नमो धर्माधिगोप्त्रे ते बालकृष्णाय ते नमः ॥ १५३॥ शिवराज्ञीस्वामिने ते नारायणीश्वराय च । रमापद्मावतीशाय नारायणाय ते नमः ॥ १५४॥ नमो ब्रह्मप्रियेशाय श्रीकृष्णाय च ते नमः । सर्वज्ञदेशिकेशायाचार्येश्वराय ते नमः ॥ १५५॥ स्तवश्चायं पठितश्चार्पितस्त्वयि फलाप्तये । सर्वदस्त्वं पाहि कृष्णनारायण नमो नमः ॥ १५६॥ सहस्रपाठतश्चाऽस्य पुरश्चरणमाचरेत् । महाऽऽपदो विनश्यन्ति महासौख्यं भवेद्ध्रुवम् ॥ १५७॥ विज्ञानं सर्वतत्त्वानां वर्धतेऽस्य प्रपाठनात् । सार्वज्ञ्यकल्पता स्याच्च कृष्णस्य करुणाकणात् ॥ १५८॥ राजा प्रधानः पृथिवीप्रधानः स्वर्गप्रधानो धनदप्रधानः । विद्याप्रधानोऽर्हणताप्रधानो भवेत् स्तवस्याऽस्य सुपाठकृज्जनः ॥ १५९॥ नित्यमेकप्रपाठेन सर्वकामसमृद्धिमान् । जायते मे कृपालेशाल्लक्ष्मि तद्गृहमावस ॥ १६०॥ इति श्रीलक्ष्मीनारायणीयसंहितायाः द्वापरयुगसन्तानात्मकस्य तृतीयखण्डे १०८-अध्यायान्तर्गतं पुरुषोत्तमसामाख्यं श्रीपुरुषोत्तमसामाख्यमनादि- श्रीकृष्णनारायणनामसहस्रस्तोत्रं सम्पूर्णम् । लक्ष्मीनारायणीयसंहिता । खण्ड ३। अध्याय १०८/१५-१६०॥ lakShmInArAyaNIyasaMhitA . khaNDa 3. adhyAya 108/15-160.. Proofread by PSA Easwaran
% Text title            : Shri Krishnanarayananamasahasra Stotram
% File name             : kRRiShNanArAyaNanAmasahasrastotram.itx
% itxtitle              : kRiShNanArAyaNanAmasahasrastotram (lakShmInArAyaNIyasaMhitAntargatam)
% engtitle              : kRRiShNanArAyaNanAmasahasrastotram
% Category              : vishhnu, vishnu, krishna, lakShmInArAyaNIyasaMhitA, stotra, sahasranAma
% Location              : doc_vishhnu
% Sublocation           : vishhnu
% SubDeity              : krishna
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : PSA Easwaran
% Description/comments  : lakShmInArAyaNIyasaMhitA | khaNDa 3 | adhyAya 108/15-160||
% Indexextra            : (Scans 1, 2, 3, 4)
% Latest update         : February 28, 2026
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org