श्रीकृष्णप्रातःस्मरणस्तोत्रम्
प्रातः स्मरामि युगकेलिरसाभिषिक्तं
वृन्दावनं सुरमणीयमुदारवृक्षम् ।
सौरीप्रवाहवृतमात्मगुणप्रकाशं
युग्माङ्घ्रिरेणुकणिकाञ्चितसर्वसत्त्वम् ॥ १॥
प्रातः स्मरामि दधिघोषविनीतनिद्रं
निद्रावसानरमणीयमुखानुरागम् ।
उन्निद्रपद्मनयनं नवनीरदाभं
हृदानवद्यललनाञ्चितवामभागम् ॥ २॥
प्रातर्भजामि शयनोत्थितयुग्मरूपं
सर्वेश्वरं सुखकरं रसिकेशभूपम् ।
अन्योन्यकेलिरसचिह्नसखीदृगौघं
सख्यावृतं सुरतकाममनोहरं च ॥ ३॥
प्रातर्भजे सुरतसारपयोधिचिह्नं
गण्डस्थलेन नयनेन च सन्दधानौ ।
रत्याद्यशेषशुभदौ समुपेतकामौ
श्रीराधिकावरपुरन्दरपुण्यपुञ्जौ ॥ ४॥
प्रातर्धरामि हृदयेन हृदीक्षणीयं
युग्मस्वरूपमनिशं सुमनोहरं च ।
लावण्यधाम ललनाभिरुपेयमानम्
उत्थाप्यमानमनुमेयमशेषवेषैः ॥ ५॥
प्रातर्ब्रवीमि युगलावपि सोमराजौ
राधामुकुन्दपशुपालसुतौ वरिष्ठौ ।
गोविन्दचन्द्रवृषभानुसुतौ वरिष्ठौ
सर्वेश्वरौ स्वजनपालनतत्परेशौ ॥ ६॥
प्रातर्नमामि युगलाङ्घ्रिसरोजकोशम्
अष्टाङ्गयुक्तवपुषा भवदुःखदारम् ।
वृन्दावने सुव्चरन्तमुदारचिह्नं
लक्ष्म्याउरोजधृतकुङ्कुमरागपुष्टम् ॥ ७॥
प्रातर्नमामि वृषभानुसुतापदाब्जं
नेत्रालिभिः परिणुतं व्रजसुन्दरीणाम् ।
प्रेमातुरेण हरिणा सुविशारदेन
श्रीमद्व्रजेशतनयेन सदाभिवन्द्यम् ॥ ८॥
सञ्चितनीयमनुमृत्यमभीष्टदोहं
संसारतापशमनं चरणं महार्हम् ।
नन्दात्मजस्य सततं मनसा गिरा च
संसेवयामि वपुषा प्रणयेन रम्यम् ॥ ९॥
प्रातः स्तवमिमं पुण्यं प्रातरुत्थाय यः पठेत् ।
सर्वकालं क्रियास्तस्य सफलाः स्युः सदा ध्रुवाः ॥ १०॥
इति श्रीनिम्बार्काचार्यविरचितं श्रीकृष्णप्रातःस्मरणस्तोत्रं सम्पूर्णम् ।