कृष्णरामावतारचरितरत्नसङ्ग्रहः
क्षीराम्बुधौ फणिपतेर्मृदुभोगशय्या-
शायी रमाकरसरोरुहलालिङ्घ्रिः ।
आनन्दमूर्तिरखिलामरमौलिरस्मान्
नानावतारजितदैत्यजनः स पायात् ॥ १॥
ब्रह्मेशशक्रमुखदेववरार्थितो यः
श्रीदेवकीतनयतामधिगम्य गोष्ठे ।
प्राक्पूतनाशकटवातविनाशकारी
भूत्वा बभञ्ज शिशुरर्जुनपादपौ द्वौ ॥ २॥
तत्रोत्थितौ स्वशरणावनुगृह्य गोपी-
गेहेषु दुग्धनवनीतदधीनि भुक्त्वा ।
वृन्दावनं प्रतिगतोऽथ निहत्य वत्स-
दैत्यं बकं च निजकाळियशिक्षकोऽभूत् ॥ ३॥
दत्वाऽभयं च पुनरत्र निशि प्रवृद्धं
पीत्वा दवाग्निमथ गोकुलमुग्रवृष्टेः ।
गोवर्धनोच्चगिरिमेककरेण बिभ्र-
द्बालोऽभिरक्ष्य विमदेन्द्रकृतार्हणोऽभूत् ॥ ४॥
रासोत्सवे व्रजवधूभिरथो विहृत्य
स्वानन्दमूर्तिरवधीन्निशि चन्द्रचूडम् ।
पश्चादरिष्टमथ केशिवधं विधाय
साकं बलेन मधुरां नगरीं जगाम ॥ ५॥
कुब्जासुदामवरदो रजकं निहत्य छित्वा
धनुः स निहतेभवरोऽथ मल्लान् ।
कंसं च संसदि विमृद्य मुदं स्वपित्री-
दत्वा जरासुतबलं बहुशो जघान ॥ ६॥
द्वारावतीं पुरमथो विरचय्य तस्यां
बन्धून्निधाय यवनं मुचुकुन्ददृष्ट्या ॥
दग्ध्वाऽथ भीष्मकसुतादिनिजाष्टपत्नी-
हस्तं प्रगृह्य मुरजिन्नरकं ममर्द ॥ ७॥
कन्यासहस्रवरतां प्रतिपद्य देवान्
निर्जित्य कल्पतरुमात्मपुरं निनाय ।
प्रद्युम्नमुख्यतनयान्सुबहून्स सृष्ट्वा
कृष्णोऽथ पौण्डकमुखासुरमर्दनोऽभूत् ॥ ८॥
संसाध्य धर्मतनयस्य स राजसूयं
हत्वाऽथ तत्र शिशुपालमथाग्रपूजाम् ।
जग्राह तीर्णवनवासमहाम्बुराशेः
पार्थस्य सारथिरभूत्कुरुभूमियुद्ध ॥ ९॥
दुर्योधनं सह बलेन विनाश्य पार्थान्
कृत्वा क्रमेण चतुरन्तधराधिनाथान् ।
निष्कण्टकैर्निजजनैः सहितः सपुत्र-
पौत्रः शशास जगतीं जगदेकनाथः ॥ १०॥
हत्वा पूतनिकां विभज्य शकट वातं निहत्यार्जनौ
छित्वा वत्सबकी विनाश्य फणिजित्पीतानलः पर्वतम् ।
धृत्वा गोपवधूः प्रतोष्य जनकार्तिघ्नो वृषं केशिनं
जित्वाज्वी प्रणतां विधाय धनुरुच्छिदोभमल्लानहन ॥ ११॥
कंसारिर्जितमागधो यवनजित्स्वीयाष्टपत्नीपतिः
हत्वोग्रं नरकं वधूततिवृतो जित्वाऽमरान्स्वस्तरुम् ।
लब्ध्वा पीण्डककाशिराजशिशुपालनः कुरूणां बलं
दग्ध्वा सारथिरर्जुनस्य जगतीं कृष्णः शशास प्रभुः ॥ १२॥
कृष्णः पूतनिकारिरस्तशकटो वातान्तकः पादप-
च्छेत्ता वत्सबकाहिजिद्दृतगिरिगोपीष्टदोऽरिष्टहृत् ।
केशिनो हतमल्लकंसयवनक्ष्माजादिराप्ताबला-
साहस्तोऽर्जुनसारथिः कुरुबलं हत्वा ररक्ष क्षितिम् ॥ १३॥
कौसल्यासुत ताटकामथ मखत्रातर्मुनिस्वीहित
छिन्नेष्वासन जानकीवृत वनावासिन् खराद्यन्तक ।
मारीचन हनुमदीश रविजार्तिच्छेद बद्धाम्बुधे
सेनाभ्रातृसमेत रावणरिपो सीतेष्ट रामाव माम् ॥ १४॥
सङ्गृह्य पद्यमयसूत्रवरेण कृष्ण-
रामावतारचरिताभिधरत्नराशिम् ।
तद्भक्तभूसुरकृतेऽकृत वादिराज-
भिक्षुः पठत्कविकदम्बककण्ठभूषाम् ॥ १५॥
इति श्रीमद्वादिराजपूज्यचरणविरचितं
कृष्णरामावतारचरितरत्नसङ्ग्रहः समाप्तः ।
भारतीरमणमुख्यप्राणान्तर्गत श्रीकृष्णार्पणमस्तु ।
Proofread by Mrs Sornavalli