श्रीकृष्णस्तोत्रम्
दिव्यातिदिव्यं परमञ्चसुन्दरं
श्यामाङ्ग शोभा सुविकाशमुज्ज्वलम् ।
केयूरवान् कुण्डलवान् किरीटिवान्
पीताम्बरं वंशीधरं हरिं भजे ॥ १॥
चन्द्राननं शोभितमम्बुजेक्षणं
श्रीवत्सवक्षस्थल मालिकादिभिः ।
विभूषितं मेखलयाङ्गुलीयकै-
र्वृन्दावने वंशीधरं हरिं भजे ॥ २॥
आनन्ददं शान्तिप्रदं सुविग्रहं
आनन्दकन्दं सरसिरुहेक्षणम् ।
सुमङ्गलं वाञ्छितदं सनातनं
नमामि कृष्णं परमं सुदुर्लभम् ॥ ३॥
मध्ये निकुञ्ज मध्येवनकान्ति शोभितं
गोपाङ्गनानां परमं सुसौख्यदम् ।
समाह्वयन्तं निकेटस्थिताञ्जनान्
सदा प्रसन्नं प्रणमामितंहरिम् ॥ ४॥
मधुरं मधुरं नादं वंशीवादन कारकम् ।
समाह्वयन्तं गोपीनां तं नमामिकृपानिधिम् ॥ ५॥
निकुञ्जमध्येगुप्तं च राधया सह संयुतम् ।
रमणीयं सुरपतिं कृष्णं वन्दे दयानिधिम् ॥ ६॥
गोपीनां सुमुखीनाञ्च रासहास समागमः ।
परमानन्द दातारं नमामि श्रीहरिम्परम् ॥ ७॥
सुमुखेमुरलीधृत्वा वादयन् पूरयन रसान् ।
त्र्यैलोक्यानन्ददन्देवं कृष्णं वन्दे सताङ्गतिम् ॥ ८॥
समाकर्षयन्तं सुधावर्षयन्तं
समास्वादयन्तमनुरागिणीनाम् ।
सदानन्दकारिं सुमालीं मुरारीं
सदालम्बयेहं तवैव सकाशम् ॥ ९॥
श्रीकृष्णकृष्णभगवन् मम दीनबन्धो
त्र्यैलोक्यरक्षक विमोकरुणानिधानः ।
संसारभीतिदहन सुखरूपधारिन्
वन्दे सदैव चरणौ तव शान्तिदायकै ॥ १०॥
श्रीकृष्णकृष्णेतिक्षरद्वयं प्रियं
शान्तिप्रदं नाम सुमङ्गलञ्चते ।
वाक्गद्गदञ्चित्तद्रवं च येषां
तेयान्ति सद्यम्भवसिन्धु पारम् ॥ ११॥
श्रीकृष्ण नामं परमं सुदुर्लभं
ये ये जपान्तीह सदैवमर्त्याः ।
तेधन्यभाग्यासुकृताकृतार्थाः
तरन्तिपारम्भवसागरस्य ॥ १२॥
इति श्री स्वामी उमेश्वरानन्दतीर्थविरचितं श्रीकृष्णस्तोत्रं सम्पूर्णम् ।
Proofread by Paresh Panditrao