श्रीकृष्णस्तुतिः
``श्रीकृष्णः शरणं मम'' ।
त्रिभङ्गललितः कृष्णः परमेश परात्परः ।
मयूरपिच्छमुकुटगुडा केशाच्युतव्ययः ॥ १॥
मणिमाणिक्यमाल्यादि हारभूषणभूषितः ।
पीताम्बरोनटवरः घनश्यामलविग्रहः ॥ २॥
श्रीधरः सच्चिदानन्दः सर्वानन्द फलप्रदः ।
जगत्पति जगत्कर्ता जगल्लयसतत्परः ॥ ३॥
सुपूर्ण परमानन्दः नन्दनन्दन बालकः ।
लीला नरवपुहरिः लीलाकैवल्यविग्रहः ॥ ४॥
धरणीधरः सर्वज्ञः ईश्वरः परमेश्वरः ।
भूभार हारक सर्वः सिन्धु मध्ये निवासकः ॥ ५॥
अनन्तगोपकन्यानां रासलीला कर प्रभुः ।
अन्तर्यामि सर्वविच्च कैवल्य मुक्ति दायकः ॥ ६॥
आदि मध्यावसानेषु नित्य शुद्धः सनातनः ।
श्रीकृष्णमखिलाधारं भक्तवाञ्छाफलप्रदम् ॥ ७॥
नमामितमहं नित्यं भुक्तिमुक्ति फलप्रदम् ।
अनन्त शीलशोभाढ्यं श्यामलं गरूडध्वजम् ॥ ८॥
नमामि तमहं भक्त्या सदानन्दैकरूपिणम् ।
मधुरं मधुरं नादं वंशीवादन कारकम् ।
कृपादृष्ट्या सुधावृष्ट्या पूरयन्तं नमाम्यहम् ॥ ९॥
इति श्री स्वामी उमेश्वरानन्दतीर्थविरचितं श्रीकृष्णस्तोत्रं सम्पूर्णम् ।
Proofread by Paresh Panditrao