श्रीकृष्णस्तवः १
देवा ऊचुः -
यज्जागरादिषु भवेषु परं ह्यहेतुः
हेतुः स्विदस्य विचरन्ति गुणाश्रयेण ।
नैतद्विशन्ति महदिन्द्रियदेवसङ्घा-
स्तस्मै नमोऽग्निमिव विस्तृतविस्फुलिङ्गाः ॥ १॥
नैवेशितुं प्रभुरयं बलिनां बलीयान्
माया न शब्द उत नो विषयीकरोति ।
तद्ब्रह्म पूर्णममृतं परमं प्रशान्तं
शुद्धं परात्परतरं शरणं गताः स्मः ॥ २॥
अंशांशकांशककलाद्यवतारवृन्दै-
रावेशपूर्णसहितैश्च परस्य यस्य ।
सर्गादयः किल भवन्ति तमेव कृष्णं
पूर्णात्परं तु परिपूर्णतमं नताः स्मः ॥ ३॥
मन्वन्तरेषु च युगेषु गतागतेषु
कल्पेषु चांशकलया स्ववपुर्बिभर्षि ।
अद्यैव धाम परिपूर्णतमं तनोषि
धर्मं विधाय भुवि मङ्गलमातनोषि ॥ ४॥
यद्दुर्लभं विशदयोगिभिरप्यगम्यं
गम्यं द्रवद्भिरमलाशयभक्तियोगैः ।
आनन्दकन्द चरतस्तव मन्दयानं
पादारविन्दमकरन्दरजो दधामः ॥ ५॥
पूर्वं तथात्र कमनीयवपुष्मयं त्वां
कन्दर्पकोटिशतमोहनमद्भुतं च ।
गोलोकधामधिषणद्युतिमादधानं
राधापतिं धरणिधुर्यधनं दधामः ॥ ६॥
इति गर्गसंहितायां गोलोकखण्डे एकादशाध्यायान्तर्गतः
श्रीकृष्णजननात्पूर्वं देवैः कृतः श्रीकृष्णस्तवः सम्पूर्णः ।
Garga Samhita, Golokakhanda, Adhaya 11 verses 8-13
Encoded by Vishwas Bhide vrbhide at rediffmail.com http://satsangdhara.net/
Proofread by PSA Easwaran