क्षुपकृतं विष्णुस्तोत्रम्
नन्द्युवाच ।
पूजया तस्य सन्तुष्टो भगवान्पुरुषोत्तमः ।
श्रीभूमिसहितः श्रीमाञ्शङ्खचक्रगदाधरः ॥ १॥
किरीटी पद्महस्तश्च सर्वाभरणभूषितः ।
पीताम्बरश्च भगवान्देवैर्दैत्यैश्च संवृतः ॥ २॥
प्रददौ दर्शनं तस्मै दिव्यं वै गरुडध्वजः ।
दिव्येन दर्शनेनैव दृष्ट्वा देवं जनार्दनम् ॥ ३॥
तुष्टाव वाग्भिरिष्टाभिः प्रणम्य गरुडध्वजम् ।
क्षुप उवाच ।
त्वमादिस्त्वमनादिश्च प्रकृतिस्त्वं जनार्दनः ॥ ४॥
पुरुषस्त्वं जगन्नाथो विष्णुर्विश्वेश्वरो भवान् ।
योऽयं ब्रह्मासि पुरुषो विश्वमूर्तिः पितामहः ॥ ५॥
तत्त्वमाद्यं भवानेव परं ज्योतिर्जनार्दन ।
परमात्मा परन्धाम श्रीपते भूपते प्रभो ॥ ६॥
त्वत्क्रोधसम्भवो रुद्रस्तमसा च समावृतः ।
त्वत्प्रसादाज्जगद्धाता रजसा च पितामहः ॥ ७॥
त्वत्प्रसादात्स्वयं विष्णुः सत्त्वेन पुरुषोत्तमः ।
कालमूर्ते हरे विष्णो नारायण जगन्मय ॥ ८॥
महांस्तथा च भूतादिस्तन्मात्राणीन्द्रियाणि च ।
त्वयैवाधिष्ठितान्येव विश्वमूर्ते महेश्वर ॥ ९॥
महादेव जगन्नाथ पितामह जगद्गुरो ।
प्रसीद देवदेवेश प्रसीदपरमेश्वर ॥ १०॥
प्रसीद त्वं जगन्नाथ शरण्यं शरणं गतः ।
वैकुण्ठ शौरे सर्वज्ञ वासुदेव महाभुज ॥ ११॥
सङ्कर्षण महाभाग प्रद्युम्न पुरुषोत्तम ।
अनिरुद्ध महाविष्णो सदा विष्णो नमोऽस्तु ते ॥ १२॥
विष्णो तवासनं दिव्यमव्यक्तं मध्यतो विभुः ।
सहस्रफणसंयुक्तस्तमोमूर्तिर्धराधरः ॥ १३॥
अधश्च धर्मो देवेश ज्ञानं वैराग्यमेव च ।
ऐश्वर्यमासनस्यास्य पादरूपेण सुव्रत ॥ १४॥
सप्तपातालपादस्त्वं धराजघनमेव च ।
वासांसि सागराः सप्त दिशश्चैव महाभुजाः ॥ १५॥
द्यौर्मूर्धा ते विभो नाभिः खं वायुर्नासिकां गतः ।
नेत्रे सोमश्च सूर्यश्च केशा वै पुष्करादयः ॥ १६॥
नक्षत्रतारका द्यौश्च ग्रैवेयकविभूषणम् ।
कथं स्तोष्यामि देवेशं पूज्यश्च पुरुषोत्तमः ॥ १७॥
श्रद्धया च कृतं दिव्यं यच्छ्रयं यच्च कीर्तितम् ।
यदिष्टं तत्क्षमस्वेश नारायण नमोऽस्तु ते ॥ १८॥
शैलादिरुवाच ।
इदं तु वैष्णवं स्तोत्रं सर्वपापप्रणाशनम् ।
यः पठेच्छृणुयाद्वापि क्षुपेण परिकीर्तितम् ॥ १९॥
श्रावयेद्वा द्विजान् भक्त्या विष्णुलोकं स गच्छति ॥ २०॥
सम्पूज्य चैवं त्रिदशेश्वराद्यैः स्तुत्वा स्तुतं देवमजेयमीशम् ।
विज्ञापयामास निरीक्ष्य भक्त्या जनार्दनाय प्रणिपत्य मूर्ध्ना ॥ २१॥
इति श्रीलिङ्गमहापुराणे पूर्वभागे षट्त्रिंशाध्यायानेतर्गतं
क्षुपकृतं विष्णुस्तोत्रं समाप्तम् ।
लिङ्गपुराण । पूर्वभाग । अध्याय ३६/४-२०॥
lingapurANa . pUrvabhAga . adhyAya 36/4-20..
Proofread by PSA Easwaran