कूर्मस्तुतिः
नमस्कुर्मः कूर्मं नमदमरकोटीरनिकर-
प्रसर्पन्माणिक्यच्छविमिलितमाञ्जिष्ठवपुषम् ।
जरीजृम्भड्डिम्भद्युमणिरमणीयांशुलहरी-
परीरम्भस्फूर्जद्वलभिदुपलाद्रिप्रतिभटम् ॥ १॥
पृष्ठे भ्राम्यदमन्दमन्दरगिरिग्रावाग्रकण्डूयनैः
निद्रालोः कमठाकृतेर्भगवतः श्वासानिलाः पान्तु वः ।
यत्संस्कारकलानुवर्तनवशाद्वेलाच्छलेनाम्भसां
यातायातमतन्द्रितं जलनिधिर्नाद्यापि विश्राम्यति ॥ २॥
दृग्भ्यां यस्य विलोकनाय जगतो द्रागीषदुत्तोलित-
ग्रीवाग्रोपरिविस्फुरद्ग्रहगणे छत्रायितायां भुवि ।
हा धिग्भूः किमभूदभूत्तदितरत्किं चेति पर्याकुलो
हन्यादेव हठादघानि कमठाधीशः कठोराणि वः ॥ ३॥
यो धत्ते शेषनागं तमनु वसुमतीं स्वर्गपातालयुक्तां
युक्तां सर्वैः समुद्रैर्हिमगिरिकनकप्रस्थमुख्यैर्नगेन्द्रैः ।
एतद्ब्रह्माण्डमव्याकृतघटसदृशं भाति वंशेऽसुरारेः
पायाद्वः कूर्मदेहः प्रकटितमहिमा माधवः कामरूपी ॥ ४॥
इति कूर्मस्तुतिः समाप्ता ।
Proofread by PSA Easwaran psaeaswaran at gmail.com