कलिविडम्बनम्

कलिविडम्बनम्

न भेतव्यं न बोद्धव्यं न श्राव्यं वादिनो वचः । झटिति प्रतिवक्तव्यं सभासु विजिगीषुभिः ॥ १॥ असम्भ्रमो विलज्जत्वमवज्ञा प्रतिवादिनि । हासो राज्ञः स्तवश्चेति पञ्चैते जयहेतवः ॥ २॥ उच्चैरुद्घोष्य जेतव्यं मध्यस्थश्चेदपण्डितः । पण्डितो यदि तत्रैव पक्षपातोऽधिरोप्यताम् ॥ ३॥ लोभो हेतुर्धनं साध्यं दृष्टान्तस्तु पुरोहितः । आत्मोत्कर्षो निगमनमनुमानेष्वयं विधिः ॥ ४॥ अभ्यास्यं लज्जमानेन तत्त्वं जिज्ञासुना चिरम् । जिगीषुना ह्रियं त्यक्त्वा कार्यः कोलाहलो महान् ॥ ५॥ पाठनैर्ग्रन्थनिर्माणैः प्रतिष्ठा तावदाप्यते । एवं च तथ्यव्युत्पत्तिरायुषोऽन्ते भवेन्न वा ॥ ६॥ स्तोतारः के भविष्यन्ति मूर्खस्य जगतीतले । न स्तौति चेत्स्वयं च स्वं कदा तस्यास्तु निर्वृतिः ॥ ७॥ वाच्यतां समयोऽतीतः स्पष्टमग्रे भविष्यति । इति पाठयतां ग्रन्थे काठिन्यं कुत्र वर्तते ॥ ८॥ अगतित्वमतिश्रद्धा ज्ञानाभासेन तृप्तता । त्रयः शिष्यगुणा ह्येते मूर्खाचार्यस्य भाग्यजाः ॥ ९॥ यदि न क्वापि विद्यायां सर्वथा क्रमते मतिः । मान्त्रिकास्तु भविष्यामो योगिनो यतयोऽपि वा ॥ १०॥ अविलम्बेन संसिद्धौ मान्त्रिकैराप्यते यशः । विलम्बे कर्मबाहुल्यं विख्याप्यावाप्यते धनम् ॥ ११॥ सुखं सुखिषु दुःखेऽपि जीवनं दुःखशालिषु । अनुग्रहायते येषां ते धन्याः खलु मान्त्रिकाः ॥ १२॥ यावदज्ञानतो मौनमाचारो वा विलक्षणः । तावन्माहात्म्यरूपेण पर्यवस्यति मान्त्रिके अः ॥ १३॥ चारान् विचार्य दैवज्ञैर्वक्तव्यं भूभुजां फलम् । ग्रहचारपरिज्ञानं तेषामावश्यकं यतः ॥ १४॥ पुत्र इत्येव पितरि कन्यकेति मातरि । गर्भप्रश्नेषु कथयन् दैवज्ञो विजयी भवेत् ॥ १५॥ आयुस्प्रश्ने दीर्घमायुर्वाच्यं मौहूर्तिकैर्जनैः । जीवन्तो बहुमन्यन्ते मृताः प्रक्ष्यन्ति कं पुनः ॥ १६॥ सर्वं कोटिद्वयोपेतं सर्वं कालद्वयावधि । सर्वं व्यामिश्रमिव च वक्तव्यं दैवचिन्तकैः ॥ १७॥ निर्धनानां धनावाप्तिं धनिनामधिकं धनम् । ब्रुवाणाः सर्वथा ग्राह्या लोकैर्ज्यौतिषिका जनाः ॥ १८॥ शतस्य लाभे ताम्बूलं सहस्रस्य तु भोजनम् । दैवज्ञानामुपालम्भो नित्यः कार्यविपर्यये ॥ १९॥ अपि सागरपर्यन्ता विचेतव्या वसुन्धरा । देशो ह्यरत्निमात्रेऽपि नास्ति दैवज्ञवर्जितः ॥ २०॥ वारान् के चिद्ग्रहान् के चित्के चिदृक्षाणि जानते । त्रितयं ये विजानन्ति ते वाचस्पतयः स्वयम् ॥ २१॥ नैमित्तिकाः स्वप्नदृशो देवतानां [[अमी त्रयः]] । निसर्गशत्रवः सृष्टा दैवज्ञानाममी त्रयः ॥ २२॥ स्वस्थैरसाध्यरोगैश्च जन्तुभिर्नास्ति किं चन । कातरा दीर्घरोगाश्च भिषजां भाग्यहेतवः ॥ २३॥ नातिधैर्यं प्रदातव्यं नातिभीतिश्च रोगिणि । नैश्चिन्त्यान्नादिमे दानं नैराश्यादेव नान्तिमे ॥ २४॥ भैषज्यं तु यथाकामं पथ्यं तु कठिनं वदेत् । आरोग्यं वैद्यमाहात्म्यादन्यथात्वमपथ्यतः ॥ २५॥ निदानं रोगनामानि सात्म्यासात्म्ये चिकित्सितम् । सर्वमप्युपदेक्ष्यन्ति रोगिणः सदने स्त्रियः ॥ २६॥ जृम्भमाणेषु रोगेषु म्रियमाणेषु जन्तुषु । रोगतत्त्वेषु शनकैर्व्युत्पद्यन्ते चिकित्सकाः ॥ २७॥ प्रवर्तनार्थमारम्भे मध्ये त्वौषधहेतवे । बहुमानार्थमन्ते च जिहीर्षन्ति चिकित्सकाः ॥ २८॥ लिप्समानेषु वैद्येषु चिरादासाद्य रोगिणम् । दायादाः सम्प्ररोहन्ति दैवज्ञा मान्त्रिका अपि ॥ २९॥ रोगस्योपक्रमे सान्त्वं मध्ये किं चिद्धनव्ययः । शनैरनादरस्शान्तौ स्नातो वैद्यं न पश्यति ॥ ३०॥ दैवज्ञत्वं मान्त्रिकता भैषज्यं चाटुकौशलम् । एकैकमर्थलाभाय द्वित्रियोगस्तु दुर्लभः ॥ ३१॥ अनृतं चाटुवादश्च धनयोगो महानयम् । सत्यं वैदुष्यमित्येष योगो दारिद्र्यकारकः ॥ ३२॥ कातर्यं दुर्विनीतत्त्वं कार्पण्यमविवेकताम् । सर्वं मार्जन्ति कवयः शालीनां मुष्टिकिङ्कराः ॥ ३३॥ न कारणमपेक्षन्ते कवयः स्तोतुमुद्यताः । किं चिदस्तुवतां तेषां जिह्वा फुरफुरायते ॥ ३४॥ स्तुतं स्तुवन्ति कवयो न स्वतो गुणदर्शिनः । कीतः कश्चिदलिर्नाम कियती तत्र वर्णना ॥ ३५॥ एकैव कविता पुंसां ग्रामायाश्वाय हस्तिने । अन्ततोऽन्नाय वस्त्राय ताम्बूलाय च कल्पते ॥ ३६॥ शब्दाख्यमपरं ब्रह्म सन्दर्भेण परिष्कृतम् । विक्रीयते कतिपयैर्वृथान्यैर्विनियुज्यते ॥ ३७॥ वर्णयन्ति नराभासान् वाणीं लब्ध्वापि ये जनाः । लब्ध्वापि कामधेनुं ते लाङ्गले विनियुञ्जते ॥ ३८॥ प्रशंसन्तो नराभासान् प्रलपन्तोऽन्यथान्यथा । कथं तरन्तु कवयः कामपारम्यवादिनः ॥ ३९॥ यत्सन्दर्भे यदुल्लेखे यद्व्यङ्ग्ये निभृतं मनः । समाधेरपि तज्ज्यायाः शङ्करो यदि वर्ण्यते ॥ ४०॥

बन्धवः

गृहिणी भगिनी तस्याः श्वशुरौ श्याल इत्यपि । प्राणिनां कलिना सृष्टाः पञ्च प्राणा इमेऽपरे ॥ ४१॥ जामातरो भागिनेया मातुला दारबान्धवाः । अज्ञाता एव गृहिणां भक्ष्यन्त्याखुवद्गृहे ॥ ४२॥ मातुलस्य बलं माता जामातुर्दुहिता बलम् । श्वशुरस्य बलं भार्या स्वयमेवातिथेर्बलम् ॥ ४३॥ जामातुर्वक्रता तावद्यावच्छ्यालस्य बालता । प्रबुध्यमाने सारल्यं प्रबुद्धेऽस्मिन् पलायनम् ॥ ४४॥ भार्या ज्येष्ठा शिशुः श्यालः श्वश्रूः स्वातन्त्र्यवर्तिनी । श्वशुरस्तु प्रवासीति जामातुर्भाग्यधोरणी ॥ ४५॥ भूषणैर्वासनैः पात्रैः पुत्राणामुपलालनैः । सकृदागत्य गच्छन्ती कन्या निर्मार्ष्टि मन्दिरम् ॥ ४६॥ गृहिणी स्वजनं वक्ति शुष्काहारं मिताशनम् । पतिपक्ष्यांस्तु बह्वाशान् क्षीरपांस्तस्करानपि ॥ ४७॥ भार्ये द्वे पुत्रशालिन्यौ भगिनी पतिवर्जिता । अश्रान्तकलहो नाम योगोऽयं गृहमेधिनाम् ॥ ४८॥ भार्ये द्वे बहवः पुत्रा दारिद्र्यं रोगसम्भवः । जीर्णौ च मातापितरावेकैकं नरकाधिकम् ॥ ४९॥

उत्तमऋणाः

स्मृते सीदन्ति गात्राणि दृष्टे प्रज्ञा विनश्यति । अहो महदिदं भूतमुत्तमऋणाभिशाब्धितम् ॥ ५०॥ अन्तकोऽपि हि जन्तूनामन्तकालमपेक्षते । न कालनियमः कश्चिदुत्तमार्णस्य विद्यते ॥ ५१॥ न पश्यामो मुखे दंष्ट्रां न पाशं वा कराञ्जले । उत्तमार्णमवेक्ष्यैव तथाप्युद्वेजिते मनः ॥ ५२॥

दारिद्र्यम्

शत्रौ सान्त्वं प्रतीकारः सर्वरोगेषु भेषजम् । मृत्यौ मृत्युञ्जयध्यानं दारिद्र्ये तु न किं चन ॥ ५३॥ शक्तिं करोति सञ्चारे शीतोष्णे मर्षयत्यपि । दीपयत्युदरे वह्निं दारिद्र्यं परमौषधम् ॥ ५४॥ गिरं स्खलन्तीं मीलन्तीं दृष्टिं पादौ विसंस्थुलौ । प्रोत्साहयति याच्ञायां राजाज्ञेव दरिद्रता ॥ ५५॥ जीर्यन्ति राजविद्वेषा जीर्यन्त्यविहितान्यपि । आकिञ्चन्यबलाढ्यानामन्ततोऽश्मापि जीर्यति ॥ ५६॥ नास्य चोरा न पिशुना न दायादा न पार्थिवाः । दैन्यं राज्यादपि ज्यायो यदि तत्त्वं प्रबुध्यते ॥ ५७॥

धनिनः

प्रकाशयत्यहङ्कारं प्रवर्तयति तस्करान् । प्रोत्साहयति दायादांल्लाक्ष्मीः किं चिदुपस्थिता ॥ ५८॥ विडम्बयन्ति ये नित्यं विदग्धान् धनिनो जनाः । त एव तु विडम्ब्यन्ते श्रिया किञ्चिदुपेक्षिताः ॥ ५९॥ प्रामाण्यबुद्धिः स्तोत्रेषु देवताबुद्धिरात्मनि । कीटबुद्धिर्मनुष्येषु नूतनायाः श्रियः फलम् ॥ ६०॥ श‍ृण्वन्त एव पृच्छन्ति पश्यन्तोऽपि न जानते । विडम्बनानि धनिकाः स्तोत्राणीत्येव मन्वते ॥ ६१॥ आवृत्य श्रीमदेनान्धानन्योन्यकृतसंविदः । स्वैरं हसन्ति+पार्श्वस्था बालोन्मत्तपिशाचवत् ॥ ६२॥ स्तोतव्यैः स्तूयन्ते नित्यं सेवनीयैश्च सेव्यते । न बिभेति न जिह्रेति तथापि धनिको जनः ॥ ६३॥ क्षणमात्रं ग्रहावेशो याममात्रं सुरामदः । लक्ष्मीमदस्तु मूर्खाणामादेहमनुवर्तते ॥ ६४॥ श्रीर्मासमर्धमासं वा चेष्टित्वा विनिवर्तते । विकारस्तु तदारब्धो नित्यं लशुनगन्धवत् ॥ ६५॥ कण्ट्ःए मदः कोद्रवजो हृदि ताम्बूलजो मदः । लक्ष्मीमदस्तु सर्वाङ्गे पुत्रदारमुखेष्वपि ॥ ६६॥ यत्रासीदस्ति वा लक्ष्मीस्तत्रोन्मदः प्रवर्तताम् । कुलेऽप्यवतरत्येष कुष्ठापस्मारवत्कथम् ॥ ६७॥ अध्यापयन्ति शास्त्राणि तृणीकुर्वन्ति पण्डितान् । विस्मारयन्ति जातिं स्वां वराटाः पञ्चषा करे ॥ ६८॥ बिभर्तु भृत्यान् धनिको दत्तां वा देयमर्थिषु । यावद्याचकसाधर्म्यं तावल्लोको न मृष्यति ॥ ६९॥

पिशुनाः

धनभारो हि लोकस्य पिशुनैरेव धार्यते । कथं ते तं लघूकर्तुं यतन्तेऽपरथा स्वतः ॥ ७०॥ श्रमानुरूपं पिशुने किमुपक्रियते नृपैः । द्विगुणं त्रिगुणं चैव कृतान्तो लालयिष्यति ॥ ७१॥ गोकर्णे भद्रकर्णे च जपो दुष्कर्मनाशनः । राजकर्णे जपः सद्यः सर्वकर्मविनाशनः ॥ ७२॥ न स्वार्थं किञ्चिदिच्छन्ति न प्रेर्यन्ते च केन चित् । परार्थेषु प्रवर्तन्ते शठाः सन्तश्च तुल्यवत् ॥ ७३॥ कालान्तरे ह्यनर्थाय गृध्रो गेहोपरि स्थितः । खलो गृहसमीपस्थः सद्योऽनर्थाय देहिनाम् ॥ ७४॥

लोभिनः

शुष्कोपवासो धर्मेषु भैषज्येषु च लङ्घनम् । जपयज्ञश्च यज्ञेषु रोचते लोभशालिनाम् ॥ ७५॥ किं वक्ष्यतीव धनिकाद्यावदुद्विजतेऽधनः । किं प्रक्ष्यतीति लुब्धोऽपि तावदुद्विजते ततः ॥ ७६॥ सर्वमातिथ्यशास्त्रार्थं साक्षात्कुर्वन्ति लोभिनः । भिक्षाकबलमेकैकं ये हि पश्यन्ति मेरुवत् ॥ ७७॥ धनपालः पिशाचो हि दत्ते स्वामिन्युपस्थिते । धनलुब्धः पिशाचस्तु न कस्मै चन दित्सते ॥ ७८॥ दातारोऽर्थिभिरर्थ्यन्ते दातृभिः पुनोऽर्थिनः । कर्तृकर्मव्यतीहारादहो निम्नोन्नतं कियत् ॥ ७९॥ स्वस्मिन्नसति नार्थस्य रक्षकः सम्भवेदिति । निश्चित्यैवं स्वयमपि भुङ्क्ते लुब्धः कथं चन ॥ ८०॥ प्रस्थास्यमानः प्रविशेत्प्रतिष्ठेत दिने दिने । विचित्रानुल्लिखेद्विघ्नांस्तिष्ठासुरतिथिश्चिरम् ॥ ८१॥

धार्मिकाः

प्रदीयते विदुष्येकं कवौ दश नटे शतम् । सहस्रं दाम्भिके लोके श्रोत्रिये तु न किञ्चन ॥ ८२॥ घटकं सम्यगाराध्य वैराग्यं परमं वहेत् । तावदर्थाः प्रसिद्ध्यन्ति यावच्चापलमावृतम् ॥ ८३॥ एकतः सर्वशास्त्राणि तुलसीकाष्ठमेकतः । वक्तव्यं किं चिदित्युक्तं वस्तुतस्तुलसी परा ॥ ८४॥ विस्मृतं वाहटेनेदं तुलस्याः पठता गुणन् । विश्वसम्मोहिनी वित्त दायिनीति गुणद्वयम् ॥ ८५॥ कौपीनं भसितालेपो दर्भा+रुद्राक्षमालिका । मौनमेकासिका चेति मूर्खसञ्जीवनानि षट् ॥ ८६॥ वासः पुण्येषु तीर्थेषु प्रसिद्धश्च मृतो गुरुः । अध्यापनावृत्तयश्च कीर्तनीया धनार्थिभिः ॥ ८७॥ मन्त्रभ्रंशे सम्प्रदायः प्रयोगश्च्युतसङ्कृतौ । देशधर्मस्त्वनाचारे पृच्छतां सिद्धमुत्तरम् ॥ ८८॥ यथा जानन्ति बहवो यथा वक्ष्यन्ति दातरि । तथा धर्मं चरेत्सर्वं न वृथा किं चिदाचरेत् ॥ ८९॥ सदा जपपटो हस्ते मध्ये मध्येऽक्षिमीलनम् । सर्वं ब्रह्मेति वादश्च सद्यस्प्रत्ययहेतवः ॥ ९०॥ आमध्याह्नं नदीवासः समाजे देवतार्चनम् । सततं शुचिवेषश्च इत्येतद्दम्भस्य जीवितम् ॥ ९१॥ तावद्दीर्घं नित्यकर्म यावत्स्याद्द्रष्टृमेलनम् । तावत्सङ्क्षिप्यते सर्वं यावद्द्रष्टा न विद्यते ॥ ९२॥ आनन्दबाष्परोमाञ्चौ यस्य स्वेच्छावशंवदौ । किं तस्य साधनैरन्यैः किङ्कराः सर्वपार्थिवाः ॥ ९३॥

दुर्जनाः

दण्ड्यमाना विकुर्वन्ति लाल्यमानास्ततस्तराम् । दुर्जनानामतो न्याय्यं दूरादेव विसर्जनम् ॥ ९४॥ अदानमीषद्दानं च किञ्चित्कोपाय दुर्धियाम् । सम्पूर्णदानं प्रकृतिर्विरामो वैरकारणम् ॥ ९५॥ ज्यायानसंस्तवो दुष्टैरीर्ष्यायै संस्तवः पुनः । अपत्यसम्बन्धविधिः स्वानर्थायैव केवलम् ॥ ९६॥ ज्ञातेयं ज्ञानहीनत्वं पिशुनत्वं दरिद्रता । मिलन्ति यदि चत्वारि तद्दिशेऽपि नमो नमः ॥ ९७॥ परछिद्रेषु हृदयं परवार्तासु च श्रवः । परमर्मासु वाचं च खलानामसृजद्विधिः ॥ ९८॥ विषेण पुच्छलग्नेन वृश्चिकः प्राणिनामिव । कलिना दशमांशेन सर्वः कालोऽपि दारुणः ॥ ९९॥ यत्र भार्यागिरो वेदा यत्र धर्मोऽर्थसाधनम् । यत्र स्वप्रतिभा मानं तस्मै श्रीकलये नमः ॥ १००॥ काममस्तु जगत्सर्वं कालस्यास्य वशंवदम् । कालकालं प्रपन्नानां कालः किं नः करिष्यति? ॥ १०१॥ कविना नीलकण्ठेन कलेरेतद्विडम्बनम् । रचितं विदुषां प्रीत्यै राजास्थानानुमोदनम् ॥ १०२॥ इति नीलकण्ठदीक्षितविरचितं कलिविडम्बनं सम्पूर्णम् । There are some differences in verse numbering sequence from print to print.
% Text title            : Kali Vidambanam Parody of Life in the Dark Age
% File name             : kaliviDambanam.itx
% itxtitle              : kaliviDambanam (nIlakaNTha dIkShitavirachitam)
% engtitle              : kaliviDambanam
% Category              : vishhnu, dashAvatAra, sAhitya, advice, nIlakaNThadIkShita
% Location              : doc_vishhnu
% Sublocation           : vishhnu
% SubDeity              : dashAvatAra
% Author                : Nilakantha Dikshitar
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : Somadeva Vasudeva
% Proofread by          : Somadeva Vasudeva
% Description/comments  : Composed in 16-17th century and is still applicable in the present
% Indexextra            : (Scan, English, Tamil, English, Text)
% Latest update         : July 20, 2021
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org