कश्यपप्रोक्तं विष्णुपरमस्तवम्
ॐ नमो भगवते वासुदेवाय ।
कश्यप उवाच ।
एकशृङ्ग वृषासिन्धो वृषाकपे सुरवृष अनादिसम्भव रुद्र
कपिल विष्वक्सेन सर्वभूतपते ध्रुव धर्माधर्म वैकुण्ठ वृषावर्त्त
अनादिमध्यनिधन धनञ्जय शुचिश्रवः पृश्नितेजः निर्जय ॥ ५॥
अमृतेशय सनातन त्रिधाम तुषित महातत्त्व लोकनाथ
पद्मनाभ विरिञ्चे बहुरूप अक्षय अक्षर हव्यभुज खण्डपरशो
शक्र मुञ्जकेश हंस महादक्षिण हृषीकेश सूक्ष्म महानियमधर
विरज लोकप्रतिष्ठ अरूप अग्रज धर्मज धर्मनाभ ॥ १०॥
गभस्तिनाभ शतक्रतुनाभ चन्द्ररथ सूर्यतेजः समुद्रवासः अज
सहस्रशिरः सहस्रपाद अधोमुख महापुरुष पुरुषोत्तम सहस्रबाहो
सहस्रमूर्ते सहस्रास्य सहस्रसम्भव सहस्रसत्त्वं त्वामाहुः ।
पुष्पहास चरम त्वमेव वौषट् ॥ १५॥
वषट्कारं त्वामाहुरग्र्यं मखेषु प्राशितारं सहस्रधारं च
भूश्च भुवश्च स्वश्च त्वमेव वेदवेद्य ब्रह्मशय ब्राह्मणप्रिय
त्वमेव द्यौरसि मातरिश्वासि धर्मोऽसि होता पोता मन्ता
नेता होमहेतुस्त्वमेव अग्र्य विश्वधाम्ना त्वमेव दिग्भिः सुभाण्ड ॥ २०॥
इज्योऽसि सुमेधोऽसि समिधस्त्वमेव मतिर्गतिर्दाता त्वमसि ।
मोक्षोऽसि योगोऽसि ।
सृजसि ।
धाता परमयज्ञोऽसि सोमोऽसि
दीक्षितोऽसि दक्षिणासि विश्वमसि ।
स्थविर हिरण्यनाभ नारायण
त्रिनयन आदित्यवर्ण आदित्यतेजः महापुरुष ॥ २५॥
पुरुषोत्तम आदिदेव सुविक्रम प्रभाकर शम्भो स्वयम्भो भूतादिः
महाभूतोऽसि विश्वभूत विश्वं त्वमेव विश्वगोप्तासि पवित्रमसि
विश्वभव ऊर्ध्वकर्म अमृत दिवस्पते वाचस्पते घृतार्चे अनन्तकर्म
वंश प्राग्वंश विश्वपास्त्वमेव वरार्थिनां वरदोऽसि त्वम् ।
चतुर्भिश्च चतुर्भिश्च द्वाभ्यां पञ्जभिरेव च ।
हूयते च पुनर्द्वाभ्यां तुभ्यं होत्रात्मने नमः ॥ १॥
इति वामनपुराणे षड्विंशाध्यायान्तर्गतं
कश्यपप्रोक्तं विष्णुपरमस्तवं समाप्तम् ।
वामनपुराण । अध्याय २६/१॥
vAmanapurANa . adhyAya 26/1..
Proofread by PSA Easwaran