केशवाष्टकम् २
यदुपायतः सकलभूभुजां वरा
यदुपा भवन्ति बलवीर्यशालिनः ।
तमसाभिभूतजनदुःखदाहिनं
तमघौघनाशनमुपैमि केशवम् ॥ १॥
अवनीतलार्तिकरदुष्टशान्तये
नवनीतहारकशिशुत्वमागतः ।
यवनेशघातिनमुपायकौशलात्
पवनाशशायिनमुपैमि केशवम् ॥ २॥
शिशुपालरूक्षपरिहासवा क्शर-
व्रणशान्तये तदनु शुद्धसर्पिषा ।
परिषिच्यमानहृदयं महाहवे
परवीरघातिनमुपैमि केशवम् ॥ ३॥
शशिवंशजातवसुदेवनन्दनं
शशिशेखरादि सुरवृन्दवन्दितम् ।
शशिवैरिकृन्तनकरारिधारिणं
शशिमण्डलाननमुपैमि केशवम् ॥ ४॥
द्विपराजवाहनगृहाङ्कणाद्बलाद्
द्रुमराजवारिणमशेषनाकिनाम् । (द्रुमराजहारिण)
अपराजितं सकललोकनायकं
कपिराजकेतुसखमेमि केशवम् ॥ ५॥
परिवारभूतगुहनन्दिशोभिने
पुरवैरिणे समरतृप्तिदायिनम् ।
वरवारणायुतबलानुजात्मनः
कुरुवीरजस्य गुरुमेमि केशवम् ॥ ६॥
अरुणारविन्ददलचारुलोचनं
करुणाकरं कनकरत्नभूषितम् ।
अरुणानुजध्वजमपारभूतिदं
शरणागतस्य तमुपैमि केशवम् ॥ ७॥
पुरुषं पुराणमजरं जगन्मयं
हरिमिन्दिरापतिमनन्तमच्युतम् ।
परमं परायणमचिन्त्यमक्षरं
परिपूर्णमेकमजमेमि केशवम् ॥ ८॥
य इदं पठेन्महति केशवाष्टकं (पठेन्मनसि)
हरिभावनामृतरसार्द्रभावनम् ।
स विहाय जन्ममरणादिसंसृतिं
परमं प्रयास्यति पदं सनातनम् ॥
इति केशवाष्टकं सम्पूर्णम् ।
Proofread by Mohan Chettoor