कोदण्डपाणिस्तोत्रम्
साकेतपुर्यां निवहं जनानामानन्दयन् कौशिकयज्ञपालः ।
पादेन पुण्यां कलयन्नहल्यां कोदण्डपाणिः कुलदैवतं नः ॥ १॥
चापं च भङ्क्त्वा वसुधातनूजां जायामवाप्याथ भृगोः कुमारम् ।
निरोधयन् प्राप्तनिजाधिवासः कोदण्डपाणिः कुलदैवतं नः ॥ २॥
लोकप्रियः केकयराजपुत्र्याः प्रीतिं चिकीर्षन् सह लक्ष्मणेन ।
सीतां पुरस्कृत्य वनं प्रविष्टः कोदण्डपाणिः कुलदैवतं नः ॥ ३॥
यो दण्डकारण्यनिशाचरेन्द्रान् कोदण्डलीलाविषयीचकार ।
वेतण्डशुण्डायतबाहुदण्डः कोदण्डपाणिः कुलदैवतं नः ॥ ४॥
वियुक्तसीतो विगतस्पृहोऽपि लालप्य संस्कृत्य विहङ्गवीरम् ।
मित्रं च विज्ञाय सुहृत्कबन्धात् कोदण्डपाणिः कुलदैवतं नः ॥ ५॥
अपार्यदुःखं विनिवार्य यत्नात् स्ववीर्यनिर्यापितवालिवैरी ।
वितीर्य राज्यं कपयेऽगवासः कोदण्डपाणिः कुलदैवतं नः ॥ ६॥
संस्थापिताशेषकपीन्द्रमुख्यस्तीर्णाम्बुधैर्वायुसुतात् समस्तम् ।
विज्ञाय वेलासु निविष्टसेनः कोदण्डपाणिः कुलदैवतं नः ॥ ७॥
विभीषणायार्पितरावणश्रीर्नलेन सेतुं विरचय्य चाब्धौ ।
बलेन लङ्कां ज्वलयन् चिरौघैः कोदण्डपाणिः कुलदैवतं नः ॥ ८॥
सेनाभिराहत्य च यातुधानानिन्द्रारिमुख्यान् सह लक्ष्मणेन ।
स्वबाणनिर्भिन्नदशाननाद्रिः कोदण्डपाणिः कुलदैवतं नः ॥ ९॥
संशोधयन् भूमिसुतां हुताशात् सञ्जीवयन् सर्वहरीनयोध्याम् ।
प्रविश्य चासादितपट्टबन्धः कोदण्डपाणिः कुलदैवतं नः ॥ १०॥
इति श्री (अशोक) रघुनाथाचार्येण विरचितं श्रीकोदण्डपाणिस्तोत्रं सम्पूर्णम् ।
स्तोत्रसमुच्चयः २ (५४)
Proofread by Rajesh Thyagarajan