श्रीकृष्णस्तोत्रम् श्रीमहादेवकृतम्
श्रीमहादेव उवाच -
परं ब्रह्म परं धाम परं ज्योतिः सनातनम् ।
निर्लिप्तं परमात्मानं नमाम्यखिलकारणम् ॥ १॥
स्थूलात्स्थूलतमं देवं सूक्ष्मात्सूक्ष्मतमं परम् ।
सर्वदृश्यमदृश्यं च स्वेच्छाचारं नमाम्यहम् ॥ २॥
साकारं च निराकारं सगुणं निर्गुणं प्रभुम् ।
सर्वाधारं च सर्वं च स्वेच्छारूपं नमाम्यहम् ॥ ३॥
अतीव कमनीयं च रूपं निरुपमं विभुम् ।
करालरूपमत्यन्तं बिभ्रतं प्रणमाम्यहम् ॥ ४॥
कर्मणः कर्मरूपं तं साक्षिणं सर्वकर्मणः ।
फलं च फलदातारं सर्वरूपं नमाम्यहम् ॥ ५॥
स्रष्टा पाता च संहर्ता कलया मूर्तिभेदतः ।
नानामूर्तिः कलांशेन यः पुमांस्तं नमाम्यहम् ॥ ६॥
स्वयं प्रकृतिरूपश्च मायया च स्वयं पुमान् ।
तयोः परं स्वयं शश्वत्तन्नमामि परात्परम् ॥ ७॥
स्त्रीपुन्नपुंसकं रूपं यो बिभर्ति स्वमायया ।
स्वयं माया स्वयं मायी यो देवस्तं नमाम्यहम् ॥ ८॥
तारकं सर्वदुःखानां सर्वकारणकारणम् ।
धारकं सर्वविश्वानां सर्वबीजं नमाम्यहम् ॥ ९॥
तेजस्विनां रविर्यो हि सर्वजातिषु वाडवः ।
नक्षत्राणां च यश्चन्द्रस्तं नमामि जगत्प्रभुम् ॥ १०॥
रुद्राणां वैष्णवानां च ज्ञानिनां यो हि शङ्करः ।
नागानां यो हि शेषश्च तं नमामि जगत्पतिम् ॥ ११॥
प्रजापतीनां यो ब्रह्मा सिद्धानां कपिलः स्वयम् ।
सनत्कुमारो मुनिषु तं नमामि जगद्गुरुम् ॥ १२॥
देवानां यो हि विष्णुश्च देवीनां प्रकृतिः स्वयम् ।
स्वायम्भुवो मनूनां यो मानवेषु वैष्णवः ।
नारीणां शतरूपा च बहुरूपं नमाम्यहम् ॥ १३॥
ऋतूनां यो वसन्तश्च मासानां मार्गशीर्षकः ।
एकादशी तिथीनां च नमाम्यखिलरूपिणम् ॥ १४॥
सागरः सरितां यश्च पर्वतानां हिमालयः ।
वसुन्धरा सहिष्णूनां तं सर्वं प्रणमाम्यहम् ॥ १५॥
पत्राणां तुलसीपत्रं दारुरूपेषु चन्दनम् ।
वृक्षाणां कल्पवृक्षो यस्तं नमामि जगत्पतिम् ॥ १६॥
पुष्पाणां पारिजातश्च सस्यानां धान्यमेव च ।
अमृतं भक्ष्यवस्तुनां नानारूपं नमाम्यहम् ॥ १७॥
ऐरावतो गजेन्द्राणां वैनतेयश्च पक्षिणाम् ।
कामधेनुश्च धेनूनां सर्वरूपं नमाम्यहम् ॥ १८॥
तैजसानां सुवर्णं च धान्यानां यव एव च ।
यः केसरी पशूनां च वररूपं नमाम्यहम् ॥ १९॥
यक्षाणां च कुबेरो यो ग्रहाणां च बृहस्पतिः ।
दिक्पालानां महेन्द्रश्च तं नमामि परं वरम् ॥ २०॥
वेदसङ्घश्च शास्त्राणां पण्डितानां सरस्वती ।
अक्षराणामकारो यस्तं प्रधानं नमाम्यहम् ॥ २१॥
मन्त्राणां विष्णुमन्त्रश्च तीर्थानां जाह्नवी स्वयम् ।
इन्द्रियाणां मनो यो हि सर्वश्रेष्ठं नमाम्यहम् ॥ २२॥
सुदर्शनं च शस्त्राणां व्याधिनां वैष्णवो ज्वरः ।
तेजसां ब्रह्मतेजश्च वरेण्यं तं नमाम्यहम् ॥ २३॥
बलं यो वै बलवतां मनो वै शीघ्रगामिनाम् ।
कालः कलयतां यो हि तं नमामि विलक्षणम् ॥ २४॥
ज्ञानदाता गुरूणां च मातृरूपश्च बन्धुषु ।
मित्रेषु जन्मदाता यस्तं सारं प्रणमाम्यहम् ॥ २५॥
शिल्पिनां विश्वकर्मा यः कामदेवश्च रूपिणाम् ।
पतिव्रता च पत्नीनां नमस्यं तं नमाम्यहम् ॥ २६॥
प्रियेषु पुत्ररूपो यो नृपरूपो नरेषु च ।
शालग्रामश्च यन्त्राणां तं विशिष्टं नमाम्यहम् ॥ २७॥
धर्मः कल्याणबीजानां वेदानां सामवेदकः ।
धर्माणां सत्यरूपो यो विशिष्टं तं नमाम्यहम् ॥ २८॥
जले शैत्यस्वरूपो यो गन्धरूपश्च भूमिषु ।
शब्दरूपश्च गगने तं प्रणम्यं नमाम्यहम् ॥ २९॥
क्रतूनां राजसूयो यो गायत्री छन्दसां च यः ।
गन्धर्वाणां चित्ररथस्तं गरिष्ठं नमाम्यहम् ॥ ३०॥
क्षीरस्वरूपो गव्यानां पवित्राणां च पावकः ।
पुण्यदानां च यः स्तोत्रं तं नमामि शुभप्रदम् ॥ ३१॥
तृणानां कुशरूपो यो व्याधिरूपश्च वैरिणाम् ।
गुणानां शान्तरूपो यश्चित्ररूपं नमाम्यहम् ॥ ३२॥
तेजोरूपो ज्ञानरूपः सर्वरूपश्च यो महान् ।
सर्वानिर्वचनीयं च तं नमामि स्वयं विभुम् ॥ ३३॥
सर्वाधारेषु यो वायुर्यथाऽऽत्मा नित्यरूपिणाम् ।
आकाशो व्यापकानां यो व्यापकं तं नमाम्यहम् ॥ ३४॥
वेदानिवर्चनीयं यन्न स्तोतुं पण्डितः क्षमः ।
यदनिर्वचनीयं च को वा तत्स्तोतुमीश्वरः । ३५॥
वेदा न शक्ता यं स्तोतुं जडीभूता सरस्वती ।
तं च वाङ्मनसापारं को विद्वान्स्तोतुमीश्वरः ॥ ३६॥
शुद्धतेजस्स्वरूपं च भक्ताऽनुग्रहविग्रहम् ।
अतीव कमनीयं च श्यामरूपं नमाम्यहम् ॥ ३७॥
द्विभुजं मुरलीवक्त्रं किशोरं सस्मितं मुदा ।
शश्वद्गोपाङ्गनाभिश्च वीक्ष्यमाणं नमाम्यहम् ॥ ३८॥
राधया दत्तताम्बूलं भुक्तवन्तं मनोहरम् ।
रत्नसिंहासनस्थं च तमीशं प्रणमाम्यहम् ॥ ३९॥
रत्नभूषणभूषाढ्यं सेवितं श्वेतचामरैः ।
पार्षदप्रवरैर्गोपकुमारैस्तं नमाम्यहम् ॥ ४०॥
वृन्दावनान्तरे रम्ये रासोल्लाससमुत्सुकम् ।
रासमण्डलमध्यस्थं नमामि रसिकेश्वरम् ॥ ४१॥
शतशृङ्गे महाशैले गोलोके रत्नपर्वते ।
विरजापुलिने रम्ये प्रणमामि विहारिणम् ॥ ४२॥
परिपूर्णतमं शान्तं राधाकान्तं मनोहरम् ।
सत्यं ब्रह्मस्वरूपं च नित्यं कृष्णं नमाम्यहम् ॥ ४३॥
॥ फलश्रुतिः ॥
श्रीकृष्णस्य स्तोत्रमिदं त्रिसन्ध्यं यः पठेन्नरः ।
धर्मार्थकाममोक्षाणां स दाता भारते भवेत् ॥ ४४॥
हरिदास्यं हरौ भक्तिं लभेत्स्तोत्रप्रसादतः ।
इह लोके जगत्पूज्यो विष्णुतुल्यो भवेद्ध्रुवम् ॥ ४५॥
सर्वसिद्धेश्वरः शान्तोऽप्यन्ते याति हरेः पदम् ।
तेजसा यशसा भाति यथा सूर्यो महीतले ॥ ४६॥
जीवन्मुक्तः कृष्णभक्तः स भवेन्नात्र संशयः ।
अरोगी गुणवान्विद्वान्पुत्रवान्धनवान्सदा ॥ ४७॥
षडभिज्ञो दशबलो मनोमायी भवेद्ध्रुवम् ।
सर्वज्ञः सर्वदश्चैव स दाता सर्वसम्पदाम् ॥ ४८॥
कल्पवृक्षसमः शश्वद्भवेत्कृष्णप्रसादतः ।
इत्येवं कथितं स्तोत्रं वत्स त्वं गच्छ पुष्करम् ॥ ४९॥
तत्र कृत्वा मन्त्रसिद्धिं पश्चात्प्राप्स्यसि वाञ्छितम् ।
त्रिस्सप्तकृत्वो निर्भूपां कुरु पृथ्वीं यथासुखम् ।
ममाऽऽशिषा मुनिश्रेष्ठ श्रीकृष्णस्य प्रसादतः ॥ ५०॥
॥ इति श्रीब्रह्मवैवर्ते महापुराणे तृतीये गणपतिखण्डे
नारदनारायणसंवादे स्तवप्रदानं नाम
द्वात्रिंशतमोऽध्याये श्रीकृष्णस्तोत्रं सम्पूर्णम् ॥
NA