कुरुस्तुतिः अथवा लकारविभक्त्येकतास्तुतिः
व्याकुर्वनिलसच्छास्त्रं स्वीकुर्वस्यैव सन्मतम् ।
हीकर्वन्यमताचार्यान् मा कर्वच्यतविस्मृतिम् ॥ १॥
न त्वङ्कुरु गुरून्पूजयन् नाहङ्कुरु कदाचन ।
अलङ्कुरु च दुगोष्ठी नालङ्कुरु हरेः कथाम् ॥ २॥
अलङ्कुरु ततो वाचं न हङ्कुरु सभान्तरे ।
अङ्गीकुरु हरिं नित्यं नमस्कुरु च सत्कुरु ॥ ३॥
नाङ्गीकुरु हरेः श्रेष्ठमङ्गीकुरु परान्सुरान् ।
ऊरीकुरु सदा व्याख्यामुररीकुरु सज्जनान् ॥ ४॥
दुरीकर च दुःशास्वं नारीकुरु हरेः कथाम् ।
आविष्कुरु च सत्तत्वं तिरस्कुरु मतान्तरम् ॥ ५॥
पुरस्कुरु शुभश्रेणीमधःकुरु च दुष्कृतम् ।
अन्तःकुरु हरेश्चिन्तां बहिष्कुरु कलेर्भटान् ॥ ६॥
पराकुरु परार्थाशां निराकुरु निराक्रियाम् ।
स्थिरीकुरु मनः कृष्णे तरीकुरु च तत्पदम् ॥ ७॥
धिकरु श्रुतिनिन्दादीन् न्यकुरूदरपूरणम् ।
त्रिःकुरु स्नानसन्ध्याआः स्वःकुरु स्वकरे स्थितम् ॥ ८॥
उरः कुरु पुरं विष्णोः शिरः कर्वस्य वन्दने ।
गिरः कुरु स्तुतावेवं धुरः सर्वाः परिष्कुरु ॥ ९॥
संस्कर्वित्थं भवज्जन्म कैङ्कयं कुरु मापतेः ।
तं कुरु स्ववरं भक्त्याऽस्तङ्कुरुग्रं भवार्णवम् ॥ १०॥
सदोपकुरु साधूनां नैवापकुरु कस्यचित् ।
नाथैर्विकुरु कुत्रापि गुरोः प्रतिकुरु प्रियः ॥ ११॥
स्वीकरु श्रीमदाचार्यभाष्यामृतरसं सदा ।
फूत्कुर्वपरभाष्यार्थतूलानि च पदे पदे ॥ १२॥
श्रुतं मतं हृदि ध्यातं साक्षात्कुरु हरिं प्रभुम् ।
प्रसन्नीकुरु मुक्तीश्च सिद्धाः कुरु चतुर्विधाः ॥ १३॥
मुक्तोऽप्यश्वास्यपुर्यस्य परिचर्या मुदा कुरु ।
बन्दीकुरु हरेभक्तिं मन्दीकुरु पुनर्भवम् ॥ १४॥
हर्येकनिष्ठतासिध्यै वादिराजो हरेः स्तुतौ ।
लकारस्य विभक्तेश्च धातोरप्येकतां व्यधात् ॥ १५॥
इति श्रीमद्वादिराजपूज्यचरणविरचिता
(लकारविभक्तयेकता) कुरुस्तुतिः सम्पूर्णाम् ।
भारतीरमणमुख्यप्राणान्तर्गत श्रीकृष्णार्पणमस्तु ।
Proofread by Jayalakshmi Jayaraman