श्रीलक्ष्मीहयग्रीवध्यानम्
विधिवद्विधिवन्दितौ पयोधौ श्रुतिमन्वेषयितुं कृतावगाहौ ।
मधुकैटभमर्धिनौ मनोज्ञौ मनवै ते चरणौ हयास्य! देव! ॥ १॥
यदुदग्रजवोत्थसिन्धुभङ्गव्रजघातक्षतपौरुषा वुभौ तौ ।
शयितं तु भवन्तमाप्य नष्टौ तव जङ्घे हयवक्त्र! मे हृदि स्ताम् ॥ २॥
सितपद्मनिविष्टयद्द्वयैकस्थितलक्ष्मीशुभलम्बिपादयुक्तः ।
चरणस्तव दक्षिणः शरण्यं मम वागीश! तवोरुयुग्म मेतत् ॥ ३॥
प्रणमद्विधिवासभव्यपद्मं शुभपीताम्बरशोभि दिव्यभूषम् ।
अखिलाण्डसमुद्भवार्थनाभिस्मरणे स्यादुदरं हयास्य ते मे ॥ ४॥
उपदेशकरेण दक्षिणेन स्फुरितं पुस्तकधारिणा करेण ।
अरिशङ्खनिवर्तितारिपाणिद्वयमश्वास्व! वपुस्तव स्मरेयम् ॥ ५॥
निखिलाश्रितजीवधीविकास व्रजवद्भावितदीप्तिकौस्तुभाढ्यम् ।
कलितं वनमालया च वक्षस्तव संश्लिष्य धिया हयास्य मोदे ॥ ६॥
निकटस्थितपाञ्चजन्यवाञ्छ्यस्फुरदाकारशुभध्वनिं सुदीर्घाम् ।
परखण्डनतर्कबाणपूर्णेषुधितुल्यां हयकन्धरां स्मरामि ॥ ७॥
अमृतायितहल्हलुक्तिधूताखिलहालाहलरूपहैतुकोक्ति ।
वदनं सदनं करोत्वजस्रं हृदयं मे सदयं प्रभो! हयास्य! ॥ ८॥
तुरगास्य! कटाक्षधारया त्वं
कलुषव्रातमपास्य मे विधेहि ।
शठजिद्यतिराजवेदचूडा -
गुरुसूक्त्यादृतसर्वतत्त्वबोधम् ॥ ९॥
श्रयदार्तिरवश्रुतीच्छयेव
स्थुट मुन्नामितकर्णमश्ववक्त्र!।
स्फुटसान्द्रसटाजटाभिरामं
रमयेन्मे हृदयं शिरस्त्वदीयम् ॥ १०॥
इति ते हयवक्त्र! दिव्यरूपे
पदजङ्घोरुकटिक्रमेण पाणीन् ।
हृदयं गळमास्यमक्षि शीर्षं
कलयेत् यः सकलाः कलास्तदाप्ताः ॥ ११॥
सितपद्मनिषण्णमम्बुजाक्षं
स्फटिकाद्रिप्रतिमं रमासमेतम् ।
हयकण्ठमकुण्ठवाहिधीवाक्
द्वयसिद्ध्यै उषसि स्मरामि नित्यम् ॥ १२॥
अभिगन्तुमपि प्रपत्तु मेवं
गदितुं मङ्गळमातनोः स्तुतीस्त्वम् ।
त्वदुपाश्रितमन्मुखेनपूर्वं
हयवक्त्राकृतिचिन्तनं त्विदानीम् ॥ १३॥
इति सन्ध्यसमीक्षितावदातस्फुटपूर्णाश्ववपुहयास्यभक्तः!।
नवदेशिकवीरराघवार्यो व्यतनोत् प्रातुरुषस्सु चिन्तनार्थम् ॥ १४॥
विद्याविश्राणनोदन्तो हयग्रीवः परः पुमान् ।
अनुग्रहं वितनुतामाश्रितेष्वनवग्रहम् ॥ १५॥
सेवे लक्ष्मीहयमुख! कुरु त्वं दयात्वत्वदाब्जे
जानुन्यूरौ घनकटितटे दिव्यपीताम्बराढ्ये ।
कुक्षौ वक्षस्यपि च विपुले वैजयन्त्यादिभूषे
हस्ते पुस्तान्वयिनि ललिताक्षे सचक्रे सशङ्खे ॥ १६॥
दीर्घग्रीवा मुखपुटमहानासिका गण्डपाळी
स्मेराम्भोजप्रतिमनयनभ्रूलसद्वक्त्रबिम्बे ।
शीर्षे चोच्चे श्रवसि परितो विस्तृतायां सटायां
स्मृत्वा चिन्तामुखमनुभवेत् श्रीसखं त्वां समग्रम् ॥ १७॥
इति श्रीलक्ष्मीहयग्रीवध्यानं सम्पूर्णम् ।
Proofread by Chandrasekhar Karumuri