श्रीलक्ष्मीहयग्रीवप्रपत्तिः

श्रीलक्ष्मीहयग्रीवप्रपत्तिः

विशुद्धविज्ञानघनस्वरूपं विज्ञानविश्राणनबद्धदीक्षम् । दयानिधिं देहभृतां शरण्यं देवं हयग्रीवमहं प्रपद्ये ॥ १॥ ब्रह्मणमादौ व्यदधादमुस्मै वेदांश्च यः स्म प्रहिणोति नित्यान् । स्वगोचरज्ञानविधायिनं तं देवं हयग्रीवमहं प्रपद्ये ॥ २॥ उद्गीथतारस्वरपूर्वमन्तः प्रविश्य पाताळतळा दहार्सीत् । आम्मायमाकण्ठहयो य एतं देवं हयग्रीवमहं प्रपद्ये ॥ ३॥ प्रदाय पुत्राय पुनः श्रुतीर्यो जघान दैत्यौ नियताब्धिवासम् । हव्यैश्च कव्यैश्च तमर्च्यमानं देवं हयग्रीवमहं प्रपद्ये ॥ ४॥ यन्नाभिनाळीक दळस्थनीरबिन्दूत्थितौ तौ मधुकैटभाख्या । वेदापहारोय तमोरजस्तं देवं हयग्रीवमहं प्रपद्ये ॥ ५॥ काम्यार्च्यतां प्राप्य वरं सुरेषु गतेषु यज्ञाग्रहरोऽर्थितो यः । अदर्शयत् काय हयं वपुस्तं देवं हयग्रीवमहं प्रपद्ये ॥ ६॥ यो जायमानं पुरुषं प्रपश्यन् मोक्षार्थचिन्तापर मातनोति । विद्याधिदेवं मधुसूदनं तं देवं हयग्रीवमहं प्रपद्ये ॥ ७॥ आदित्यबिम्बेऽश्ववपुर्दधत् सन्नायातयामान् निगमान् अदिक्षत् । यो याज्ञवल्क्याय दयानिधिं तं देवं हयग्रीवमहं प्रपद्ये ॥ ८॥ विज्ञानदानप्रथिता जगत्यां व्यासादयो वागपि दक्षिणा सा । यद्वीक्षणांशाहितवैभवास्तं देवं हयग्रीवमहं प्रपद्ये ॥ ९॥ मत्स्यादिरूपाणि यथा तथैव नानाविधाचार्यवपूंषि गृह्णन् । वेदान्तविद्याः प्रचिनोति यस्तं देवं हयग्रीवमहं प्रपद्ये ॥ १०॥ श्रेष्ठः कृतज्ञः सुलभोऽन्वितानां शान्तः सुबुद्धिः प्रथितो हि वाजी । तदाननाविस्कृतसद्गुणौघं देवं हयग्रीवमहं प्रपद्ये ॥ ११॥ हस्तैर्दधानं दरचक्रकोशव्याख्यानमुद्राः सितपद्मपीठम् । विद्याख्यलक्ष्म्यञ्चितवामभागं देवं हयग्रीवमहं प्रपद्ये ॥ १२॥ इति श्रीलक्ष्मीहयग्रीवप्रपत्तिः समाप्ता । Proofread by Chandraseekhar Karumuri
% Text title            : Shri Lakshmi Hayagriva Prapatti
% File name             : lakShmIhayagrIvaprapatti.itx
% itxtitle              : lakShmIhayagrIvaprapatti
% engtitle              : lakShmIhayagrIvaprapatti
% Category              : vishhnu, prapatti
% Location              : doc_vishhnu
% Sublocation           : vishhnu
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : Chandrasekhar Karumuri
% Proofread by          : Chandrasekhar Karumuri
% Indexextra            : (Telugu)
% Latest update         : September 19, 2023
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org