श्रीलक्ष्मीहयवदनमङ्गलम्
मणिमण्डपिकास्थानीमण्डनाय महीयसे ।
मङ्गलाभरणायास्तु तुरगास्याय मङ्गलम् ॥ १॥
इन्दिरालिङ्गनानन्दनिधये निधये सताम् ।
सुन्दराय सुपूर्णाय वाजिवक्त्राय मङ्गलम् ॥ २॥
विरिञ्चिमुखदेवादिवेदव्याख्यानकारिणे ।
वाख्याङ्कितकलायास्तु वागधीशाय मङ्गलम् ॥ ३॥
वाचि वेदश्रियं स्वान्ते कृपाश्रियमपाङ्गयोः ।
अनुग्रहश्रियं धर्त्रे हयशीर्षाय मङ्गलम् ॥ ४॥
प्रपन्नाभयदायास्तु दिव्यदृष्टिप्रदायिने ।
देशिकाराध्यदैवाय हयग्रीवाय मङ्गलम् ॥ ५॥
ज्ञानानन्दसुखारोग्यभुक्तिमुक्त्यादिदायिने ।
स्वाश्रिताय शरण्याय वाग्वरेण्याय मङ्गलम् ॥ ६॥
गोदाशठारिभगवद्रामानुजमुखैस्सदा ।
देशिकेन च युक्ताय नित्यं भवतु मङ्गलम् ॥ ७॥
आत्रेयश्री श्रीनिवास राघवेणानुसंहितम् ।
श्रेयो ददातु पठतां श्रीहयाननमङ्गलम् ॥ ८॥
इति श्रीलक्ष्मीहयवदनमङ्गलं सम्पूर्णम् ।
Proofread by Chandrasekhar Karumuri