लक्ष्मीनृसिंहाष्टोत्तरशतनामस्तोत्रम् ४
श्रीगणेशाय नमः ।
नारसिंहो महासिंहो दिव्यसिंहो महाबलः ।
उग्रसिंहो महादेवः स्तम्भजश्वोग्रलोचनः ॥ १॥
रौद्रः सर्वाद्भुतः श्रीमान् योगानन्दस्त्रिविक्रमः ।
हरिः कोलाहलश्चक्री विजयो जयवर्धनः ॥ २॥
पञ्चाननः परं ब्रह्म चाघोरो घोरविक्रमः ।
ज्वलन्मुखो ज्वालमाली महाज्वालो महाप्रभुः ॥ ३॥
निटिलाक्षः सहस्राक्षो दुर्निरीक्ष्यः प्रतापनः ।
महादंष्ट्रायुधः प्राज्ञश्चण्डकोपी सदाशिवः ॥ ४॥
हिरण्यकशिपुध्वंसी दैत्यदानवभञ्जनः ।
गुणभद्रो महाभद्रो बलभद्रः सुभद्रकः ॥ ५॥
करालो विकरालश्च विकर्ता सर्वकर्तृकः ।
शिंशुमारस्त्रिलोकात्मा ईशः सर्वेश्वरो विभुः ॥ ६॥
भैरवाडम्बरो दिव्यश्चाच्युतः कविमाधवः ।
अधोक्षजोऽक्षरः शर्वो वनमाली वरप्रदः ॥ ७॥
विश्वम्भरोऽद्भुतो भव्य श्रीविष्णुः पुरुषोत्तमः ।
अमोघास्त्रो नखास्त्रश्च सूर्यज्योतिः सुरेश्वरः ॥ ८॥
सहस्रबाहुः सर्वज्ञः सर्वसिद्धिप्रदायकः ।
वज्रदंष्ट्रो वज्रनखो महानन्दः परन्तपः ॥ ९॥
सर्वमन्त्रैकरूपश्च सर्वमन्त्रविदारणः ।
सर्वतन्त्रात्मकोऽव्यक्तः सुव्यक्तो भक्तवत्सलः ॥ १०॥
वैशाख शुक्लभूतोत्थशरणागतवत्सलः ।
उदारकीर्तिः पुण्यात्मा महात्मा चण्डविक्रमः ॥ ११॥
वेदत्रयप्रपूज्यश्च भगवान्परमेश्वरः ।
श्रीवत्साङ्कः श्रीनिवासो जगद्व्यापी जगन्मयः ॥ १२॥
जगत्पालो जगन्नाथो महाकायो द्विरूपभृत् ।
परमात्मा परं ज्योतिर्निर्गुणश्च नृकेसरी ॥ १३॥
परमत्वं परं धाम सच्चिदानन्दविग्रहः ।
लक्ष्मीनृसिंहः सर्वात्मा धीरः प्रह्लादपालकः ॥ १४॥
इदं लक्ष्मीनृसिंहस्य नाम्नामष्टोत्तरं शतम् ।
त्रिसन्ध्यं यः पठेद्भक्त्या सर्वाभीष्टमवाप्नुयात् ॥ १५॥
इति लक्ष्मीनृसिंहाष्टोत्तरशतनामस्तोत्रं सम्पूर्णम् ॥
Proofread by M K Barman