श्रीलक्ष्मीनृसिंहारात्रिका
(१)
स्तम्भः कडकडशद्धैः सुरकुलभय भीतं
पुलकित विह्वल मानस ब्रह्मादिक जातम् ।
भूधर कम्पित शिखरं गुरगुर शब्दयुतम् ।
सागर सरिता उदकं समये सन्तप्तम् ॥
जयदेव जयदेव लक्ष्मीनरसिंहं
भवनग नाशन वज्रं सुखदायक देवम् ॥ ध्रु. ॥
काञ्चनमणि भूषं रणशोभित देहं
कण्ठेशोभित शुभ्रं अतिसुन्दर हारम् ।
जगद्वने मण्डित स्वच्छं चपला इव वस्त्रं
दशनखछिद्यं स्थूलं दुर्धर अरिउदरम् ॥ २॥ ध्रु. ॥
प्रह्लादोत्तम भक्तः स्पर्शित द्वे चरणे
नानागीतैर्वाद्यैः स्तुतदेवस्तवनम् ।
सागरतनुजा सहितं यस्याति श्रीवदनं
खद्याक्षर सुतवरदं नित्यमहोरात्रम् ॥ ३॥ ध्रु. ॥
(२)
कडकडकडशब्दै स्फाटितमिव स्तम्भं
चञ्चलचपलोद्भव गडगड घोषनभम् ।
भडभड प्रचण्डमारुत सरिताब्धिस्तब्धं
स्वर्गे विबुधप्रेरित तेजोमय अभ्रम् ॥
जयदेव जयदेव श्री लक्ष्मीनरसिंहं
भवभयहारकनामं अमराधिपदेवम् ॥ ध्रु. ॥
स्तम्भोभ्दवावतारं प्रकटितहरिवदनं
जिह्वारक्ता लबथब शशिरिव रदनम् ।
अकुलितकेशं थरथर क्रोधायुतनयनं
नरहरिरूपं उग्रं कम्पितत्रैलोक्यम् ॥ २॥ ध्रु. ॥
कण्ठे रत्नविभूषितमौक्तिक बहुहारं
मित्रोदयसमकुण्डलकाञ्चनमिवदेहम् ।
करधृतशङ्खं चक्रं तेजोमयसारं
फणीन्द्रमुकुटे छायादृढछत्राकारम् ॥ ३॥ ध्रु. ॥
कटिशोभितपीतम्पीताम्बरवस्त्रं
वज्रनखादशनाति तीक्ष्णाः एवम् ।
हिरण्यकशिपोदरछेदितातिरोषं
भक्ताग्रजपदवन्दितमानससन्तोषम् ॥ ४॥ धृ ॥
ब्रह्मादिकसुरस्तवितं नानाध्वनिवाद्यं
प्रसन्नवदनं देवं श्रीलक्ष्मीसहितम् ।
दर्शनमात्रे नाशितकृताघसमुदायं
विठ्ठल तनयं पालय कुलस्वामिन्सदय ॥ ५॥ ध्रु. ॥
प्रह्लादं निजदासं कृतवह्निग्रासं
(३)
विषगिरिपतनक्लेशं अचलितपदभासम् ।
ज्ञात्वा भक्तक्लेशं अतीव क्रोधयुतं
स्तम्भे चकार वासं भयदाहाहासम् ॥ १॥
जयदेव जयदेव जय श्री नरसिंहा ।
ममहतकाननषड्वारणसिंहा ।
यस्मिन्गर्जति चण्डं सकलं ब्रह्माण्डम् ।
ब्रह्मा कलयति खण्डं पतितं करिगण्डम् ।
आखण्डलकोदण्डं गलितं शशिखण्डं
रविमण्डलसत्कुण्डं कुण्डलभूखण्डम् ॥ २॥ ध्रु. ॥
यत्कोपानलदहनं सञ्चारितगगनं
हिरण्यकशिपु स्वाङ्के कारितवरशयनम् ।
ददार वक्षः सदनं करजैः सुरकदनं
तद्रक्ताङ्कितवदनं ध्याये हरिवदनम् ॥ ३॥
जयदेव जयदेव .... ॥ ध्रु. ॥
(४)
स्तम्भस्फोटितप्रकटितविकटाकृतिघटनं
चम्पाज्झम्पितगर्जितप्रलयाम्बुदरवणम् ।
दंष्ट्राङ्कुरललजिह्वाज्वलनोज्वलनयनं
अद्भुततममहमीडे कण्ठीरववदनम् ॥ १॥
जयदेव जयदेव जय कमलाजाने ।
त्वामेवाखिलशरणं करुणालय जाने ॥ ध्रु. ॥
अ किमिचित्रासदं वा लिङ्गित पुरहरणम् ।
चल जलजोछलदं अधिपतिबलिहरणम् ।
चिकृतिसङ्कोचित श्री दिग्गजगजवरणं
सिंहध्वनिना अग्रे आन्दोलितभवनम् ॥ २॥ ध्रु. ॥
छत्रितफणिपतिमिन्दुभमर्कमहःपिण्डं
चक्रपिनाकवराभयमण्डितभुजदण्डम् ।
त्रयक्षमलाक्षचरित्रं चित्राकृतिचण्डम् ॥ ३॥ ध्रु. ॥
भक्तान्तरभवलोकितसगुणोदरदारं
शम्भोत्तर खरनखरैरसरोदर दारम् ।
भक्तः भ्रातत्तया तत् पूरित कृत हारं
प्रह्लादप्रिय मीडे कृतदनुदोद्धारम् ॥ ४॥ ध्रु. ॥
लक्ष्मीवरगुणपावन पावनगुणसिन्धो ।
खिर्डामाणिकमानससुखकरबन्धो ।
देहिसदाम्बुदवर्षं भवतिभवबन्धो
बद्धाञ्जलिरिति नाथं नाथ दयासिन्धो ॥ ५॥ ध्रु. ॥
(५)
त्रातुं दितिजत्रस्तं त्रिभुवनमसहायम् ।
धृतवानसि परमाभ्दुत कण्ठीरवकायम् ॥
ध्यात्वा मनुजो भक्त्या त्वां प्रातः सायम् ।
हित्वोघौघं लभते स्थानं निरपायम् ॥ १॥
जयदेव जयदेव जय भगवन् नृहरे परमात्मन् नृहरे ।
नित्यं वासं कल्पय मच्चेतः कुहरे ॥ जयदेव जयदेव ॥ ध्रु. ॥
कुरुतेऽनन्यमना यदि तव चरणस्मरणम् ।
तीर्त्वा विपदं धत्तेऽन्तक मूर्धनिचरणम् ॥
बाल्यात्प्रभृतिगतो यस्त्वां भगवन् शरणम् ।
सोऽसुखंशविभूषण मत्रोदाहरणम् ॥ २॥
सर्वान्तर्याम्यहमिति बोधयितुं स्तम्भम् ।
भित्वाऽऽविरभूत् बिभ्रत् गुरुतरसंरम्भम् ॥
दारित दनुजोरस्कं लालित तड्डिम्भम् ॥
कस्त्वां स्तोतुमलं जितवेदवचोदम्भम् ॥ ३॥
दृष्टा रूपं घोरं व्यथिताखिललोकम् ।
तुष्टावामरनिकरो विरचितसुश्लोकम् ॥
नतिमात्रेण रूपं तेऽशमयद्रिपुतोकम् ।
रूपं तत्तिष्ठतुमे हृदिसदाऽऽलोकम् ॥ ४॥
(कै. म. म. केशव गोपाल ताह्मनकृत)
इति श्रीलक्ष्मीनृसिंहारात्रिका सम्पूर्णा ।
Proofread by Manoj Kumar Barman