श्रीलक्ष्मीनृसिंहमालामन्त्रः ३
ॐ अस्य श्रीलक्ष्मीनृसिंहमालामन्त्रस्य । अजपाऋषिः ।
अनुष्टुपच्छन्दः । श्रीलक्ष्मीनृसिंहो देवता ।
ॐ क्लां बीजम् । ॐ क्लीं शक्तिः । ॐ क्लूं कीलकम् ।
श्रीलक्ष्मीनृसिंहकृपाप्रसादसिध्यर्थे जपे विनियोगः ।
अथ करन्यासः -
ॐ भूर्भुवस्वः ॐ क्ष्रौं नमो भगवते नारसिंहाय अङ्गुष्ठाभ्यां नमः ।
ॐ भूर्भुवस्वः ॐ क्ष्रौं नमो भगवते नारसिंहाय तर्जनीभ्यां नमः ।
ॐ भूर्भुवस्वः ॐ क्ष्रौं नमो भगवते नारसिंहाय मध्यमाभ्यां नमः ।
ॐ भूर्भुवस्वः ॐ क्ष्रौं नमो भगवते नारसिंहाय हिरण्यकश्यपुर्वक्षस्थलच्छेदनाय अनामिकाभ्यां नमः ।
ॐ भूर्भुवस्वः ॐ क्ष्रौं नमो भगवते नारसिंहाय अन्त्रमाला विभूषकाय कनिष्ठिकाभ्यां नमः ।
ॐ भूर्भुवस्वः ॐ क्ष्रौं नमो भगवते नारसिंहाय सर्वतो मां रक्ष करतलकरपृष्ठाभ्यां नमः ।
अथ हृद्यादिन्यासः -
ॐ भूर्भुवस्वः ॐ क्ष्रौं नमो भगवते नारसिंहाय हृदयाय नमः ।
ॐ भूर्भुवस्वः ॐ क्ष्रौं नमो भगवते नारसिंहाय शिरसे स्वाहा ।
ॐ भूर्भुवस्वः ॐ क्ष्रौं नमो भगवते नारसिंहाय शिखायै वषट् ।
ॐ भूर्भुवस्वः ॐ क्ष्रौं नमो भगवते नारसिंहाय हिरण्यकश्यपुर्वक्षस्थलच्छेदनाय कवचाय हुम् ।
ॐ भूर्भुवस्वः ॐ क्ष्रौं नमो भगवते नारसिंहाय अन्त्रमाला विभूषकाय नेत्रत्रयाय वौषट् ।
ॐ भूर्भुवस्वः ॐ क्ष्रौं नमो भगवते नारसिंहाय सर्वतो मां रक्ष अस्त्राय फट् ।
अथ दिग्बन्धनः ।
ॐ भूर्भुवस्वः ॐ क्ष्रौं नमो भगवते अघोरनारसिंहाय पूर्वदिशं बन्ध बन्ध ।
ॐ भूर्भुवस्वः ॐ क्ष्रौं नमो भगवते रौद्रनारसिंहाय दक्षिणदिशं बन्ध बन्ध ।
ॐ भूर्भुवस्वः ॐ क्ष्रौं नमो भगवते विदारणनारसिंहाय पश्चिमदिशं बन्ध बन्ध ।
ॐ भूर्भुवस्वः ॐ क्ष्रौं नमो भगवते ज्वालानारसिंहाय उत्तरदिशं बन्ध बन्ध ।
ॐ भूर्भुवस्वः ॐ क्ष्रौं नमो भगवते सुदर्शननारसिंहाय आकाशदिशं बन्ध बन्ध ।
ॐ भूर्भुवस्वः ॐ क्ष्रौं नमो भगवते विदारणनारसिंहाय अन्तरिक्षदिशं बन्ध बन्ध ।
ॐ भूर्भुवस्वः ॐ क्ष्रौं नमो भगवत लक्ष्मीनारसिंहाय पातालदिशं बन्ध बन्ध ।
ॐ भूर्भुवस्वः ॐ क्ष्रौं नमो भगवते अहोनारसिंहाय सकलदिशं बन्ध बन्ध ।
इति दिग्बन्धः ।
अथ ध्यानम् ।
ऊर्ध्वाभ्यां चान्त्रमालां तदनुदरमरिं खेटखड्गं च बिभ्रन्
बाणं चापे कराभ्यां कमलमपि गदां पाशमप्यङ्कुशं च ।
ऊर्वौ निक्षिप्य दैत्यं तदुदरकुहरं दारयन्तं च दौर्भ्यां
रक्तज्वालावमन्तं ज्वरसमरभये चिन्तयेदुग्रसिंहम् ॥ १॥
मानसोपचारैः सम्पूज्य ।
ॐ लं पृथिव्यात्मकं गन्धं परिकल्पयामि ।
ॐ हं आकाशात्मकं पुष्पं परिकल्पयामि ।
ॐ यं वायवात्मकं धूपं परिकल्पयामि ।
ॐ रं वहन्यात्मकं दीपं परिकल्पयामि ।
ॐ वं अमृतात्मकं नैवेद्यं परिकल्पयामि ।
ॐ सं सर्वात्मकं सर्वोपचारान् परिकल्पयामि । इति ।
ॐ भूर्भुवस्वः ॐ क्ष्रौं नमो भगवते नारसिंहाय वज्रनखाय विद्महे
तीक्ष्णदंष्ट्राय धीमही तन्नो नारसिंहः प्रचोदयात् ।
अथ मन्त्रः ।
ॐ भूर्भुवस्वः ॐ क्ष्रौं नमो भगवते नारसिंहाय ज्वालामुखाग्निनेत्राय शङ्खचक्रगदाधराय वरदाभयहस्ताय वरप्रदाय वामाङ्कस्थितरमासहिताय हिरण्यकशिपुवक्षस्थलच्छेदनाय अन्त्रमाला विभूषणाय सर्वतो मां रक्ष रक्ष मम शत्रून् हन हन दह दह पच पच कुलि कुलि (ह्रूं फट् स्वाहा) उच्चाटणाय नमः स्वाहा ॥ १॥
ॐ भूर्भुवस्वः ॐ क्ष्रौं नमो भगवते नारसिंहाय कह कह कम्पय कम्पय अवतारय अवतारय उच्चाटनाय नमः स्वाहा ॥ २॥
ॐ भूर्भुवस्वः ॐ क्ष्रौं नमो भगवते नारसिंहाय नवकोटिग्रहोच्चाटनाय ।
ॐ भूर्भुवस्वः ॐ क्ष्रौं नमो भगवते नारसिंहाय अष्टकोटिगन्धर्वग्रहोच्चाटनाय ।
ॐ भूर्भुवस्वः ॐ क्ष्रौं नमो भगवते नारसिंहाय सप्तकोटिशाकिनीग्रहोच्चाटनाय ।
ॐ भूर्भुवस्वः ॐ क्ष्रौं नमो भगवते नारसिंहाय षट्कोटिडाकिनीग्रहोच्चाटनाय ।
ॐ भूर्भुवस्वः ॐ क्ष्रौं नमो भगवते नारसिंहाय पञ्चकोटिवरुणग्रहोच्चाटनाय ।
ॐ भूर्भुवस्वः ॐ क्ष्रौं नमो भगवते नारसिंहाय चतुष्कोटिब्रह्मराक्षसग्रहोच्चाटनाय ।
ॐ भूर्भवस्वः ॐ क्ष्रौं नमो भगवते नारसिंहाय त्रिकोटिराजग्रहोच्चाटनाय ।
ॐ भूर्भवस्वः ॐ क्ष्रौं नमो भगवते नारसिंहाय द्विकोटिशत्रुग्रहोच्चाटनाय ।)
ॐ भूर्भरस्वः ॐ क्ष्रौं नमो भगवते नारसिंहाय एककोटिचोरराक्षसप्रहोच्चाटनाय ॥ ३॥
ॐ भूर्भवस्वः ॐ क्ष्रौं नमो भगवते नारसिंहाय कालाग्निरुद्राय भट भट भग भग वीरान्तक घोरनारसिंह घोरान्तकैकान्तक्रूरनारसिंहाय सहस्रभुजशङ्खचक्रगदाधराय नखशिखदुष्टराक्षससंहारकाय दुरितविदारणाय प्रलयकालाय नारसिंहाय ब्रूं ब्रूं ह्रां ह्रीं कूष्माण्डदुर्जनदुष्टम्लेञ्च्छादिनिबन्धनाय शाकिनीडाकिनीवेतालापस्मारग्रहगन्धर्वग्रहनागग्रहकामिनीग्रहचण्डिग्रहपापग्रहसम्पुटसर्वग्रहोच्चाटनाय नवनारसिंहाय (हुं फट् स्वाहा) उच्चाटनाय नमः स्वाहा ॥ ४॥
ॐ भूर्भुवस्वः ॐ क्ष्रौं नमो भगवते नारसिंहाय रौद्रज्वालाप्रज्वलितनेत्रत्रयाय प्रलयकालाग्निरुद्रावताराय विश्वरूपाय स्तम्भोद्भवाय अनन्तदिव्यायुधधराय दानवकुलसंहारकाय रक्तरञ्जित मूर्धज धग धग भग भग भोभूमन्ब्रह्माण्डभयङ्करताण्डवनारसिंह श्रीकेशवदेवरूप दशवृन्दावर एकादशरुद्रद्वादशभानुतेजज्वालानारसिंह मम गुरु प्रसादय प्रसादय सर्वराक्षसान् दाहय दाहय भक्षय भक्षय मारय मारय मर्दय मर्दय तापय तापय दीपय दीपय विदारय विदारय स्तम्भय स्तम्भय मोहय मोहय विभ्रामय विभ्रामय उच्चाटय उच्चाटय हन हन पच पच संहारय संहारय उच्चाटनाय नमः स्वाहा ॥ ५॥
ॐ भूर्भुवस्वः ॐ क्ष्रौं नमो भगवते नारसिंहाय भूतमण्डलभैरवमण्डलकूष्माण्डमण्डलय क्षमण्डलानि कम्पय कम्पय आवेशय आवेशय आकर्षय आकर्षय आनन्दय आनन्दय नृत्यय नृत्यय वद वद उच्चाटनाय नमः स्वाहा ॥ ६॥
ॐ भूर्भुवस्वः ॐ क्ष्रौं नमो भगवते नारसिंहाय हिरण्याक्षवक्षोविदारणाय जय जय एहि एहि भगवन् गरुडध्वज मम सर्वोपद्रवान् वज्रदेहेन चूर्णय चूर्णय मुद्गराभरणहरणाय समुद्रं शोषय शोषय असुरगन्धर्वयक्षपिशाचब्रह्मराक्षसभूतप्रेतपिशाचान् विध्वंसय विध्वंसय पूर्वापरशूलमूलपातिनं प्रतिस्तम्भय प्रतिस्तम्भय परमन्त्र परयन्त्र परतन्त्राणि छिन्दि छिन्दि भिदि भिदि अयमारि विनिवारि अपमृत्युभयसकलसङ्कटान् विध्वंसय विध्वंसय हन हन पच पच रक्ष रक्ष अहोनारसिंहाय अन्तकान्तकाय उच्चाटनाय नमः स्वाहा ॥ ७॥
ॐ क्ष्रौम् ।
फलश्रुतिः ।
सिद्धिं नवदिनैश्चैव जपं कुर्यान्नरोत्तमः ।
अयुतं तु जपं कर्तुं सिद्धिस्तु जायते ध्रुवम् ॥ १॥
हवनं तु दशांशेन कुर्यात्तर्पणमेव च ।
ब्राह्मणान् भोजयेच्चैव दशांशेनाप्यनुक्रमात् ॥ २॥
सिद्धिर्भवति राजेन्द्र एकचित्तेन तेजसा ।
एकान्नं भोजनं कार्यं भूमिशायि न मञ्चके ॥ ३॥
जितेन्द्रियो वा पुरुषो यावत् सामाप्तिकं भवेत् ।
अथवा मण्डलं कार्यं जपमावर्तयेत्शतम् ॥ ४॥
अथर्वणेषु वेदेषु ऋषीणां च शतं पुरा ।
न हि लोकेषु विख्यातं राजन् सर्वभयापहम् ॥ ५॥
भूतप्रेतपिशाचांश्च यक्षगन्धर्वराक्षसान् ।
दस्युव्याघ्ररणे राजन् काननेऽपि जलेऽपि वा ॥ ६॥
सर्वरक्षाकरं स्तोत्रं हरेस्तु प्रीतिकारकम् ।
इदं तु पठितं राजन् सर्वकामान् अवाप्नुयात् ॥ ७॥
परमन्त्राणि तन्त्राणि जारणं मारणादिकम् ।
उच्चाटनेषु राजेन्द्र स्तम्भनेषु भविष्यति ॥ ८॥ ।
हरेस्तु प्रतिमां स्थाप्य नित्यपूजां च कारयेत् ।
स्थापयेद्देवदेवेशं जपं कृत्वा यथाविधि ॥ ९॥
आदौ च शतगायत्र्या जपेनैव नरोत्तमः ।
(नृसिंहगायत्री) हवनं पायसान्नेन कुर्याद्वलिं यथाविधि ॥ १०॥
सिद्धिर्भवति राजेन्द्र कुर्यादुक्तविधानतः ।
इदं रहस्यं परमं नाख्यातं भुवि भूमिप ॥ ११॥
अथर्वणेषु वेदेषु आख्यातं ऋषिणा मया ।
पुराचीर्णेन व्यासेन कथितं नारदाय वै ॥ १२॥
तेन दत्तं तु मां राजन् सर्वलोकोपकारकम् ।
एतच्च ते मयाख्यातं त्वं हि राज्यमवाप्स्यसि ॥ १३॥
इत्यथर्वणरहस्ये श्रीलक्ष्मीनृसिंहमालामन्त्रं सम्पूर्णम् ।
श्रीलक्ष्मीनृसिंहार्पणमस्तु ।
Proofread by M K Barman