श्रीलक्ष्मीनृसिंहप्रपत्तिः

श्रीलक्ष्मीनृसिंहप्रपत्तिः

॥ श्रीः ॥ श्रीमते श्रीलक्ष्मीनृसिंह परब्रह्मणे नमः । श्रीमते रामानुजाय नमः । श्रीमते निगमान्तमहादेशिकाय नमः । यस्याभवद्भक्तजनार्तिहन्तुः पितृत्वमन्येष्वविचार्य तूर्णम् । स्तम्भेऽवतारस्तमनन्यलभ्यं लक्ष्मीनृसिंहं शरणं प्रपद्ये ॥ १॥ श्रीतापनीयेऽप्रतिमप्रभावं श्रीतैत्तिरीयेकुचरोगिरीष्ठः । इतीव पक्षीन्द्रधराधरस्त्वं लक्ष्मीनृसिंहं शरणं प्रपद्ये ॥ २॥ संवर्ग विद्या विलसत्स्वरूपं स्तम्भैकडिम्भात्मलसत्प्रभावम् । त्रैलोक्यसम्पूर्णनृसिंहमूर्तिं लक्ष्मीनृसिंहं शरणं प्रपद्ये ॥ ३॥ हिरण्यदातारमपीन्द्रहेतोः हिरण्यहन्तारमथाष्टबाहुम् । शान्तं सतां उग्रं असत्समाजे लक्ष्मीनृसिंहं शरणं प्रपद्ये ॥ ४॥ सन्तोषहासेन सदारमायां व्यान्ताननं स्वर्ण सटाभिरामम् । जिह्वाधरन्यस्त रमेक्षणान्तं लक्ष्मीनृसिंहं शरणं प्रपद्ये ॥ ५॥ सञ्चारयोग्यां च पदावहन्तं श्रीपादुकां चेञ्चुसुतां रमां च । सव्येन हस्तेन परिष्वजन्तं लक्ष्मीनृसिंहं शरणं प्रपद्ये ॥ ६॥ श्रीमद् द्वयार्थो ह्यहमेव सत्यं इतीव सर्वान् प्रतिबोधयन्तम् । रमानृसिंहन्त्वविभक्तरूपं लक्ष्मीनृसिंहं शरणं प्रपद्ये ॥ ७॥ श्रीवेङ्कटेशेन विवाहकाले सम्पूजितं सर्वविधोपचारैः । श्रीशङ्खचक्राभयबाहुदीप्तं लक्ष्मीनृसिंहं शरणं प्रपद्ये ॥ ८॥ अहोबिलं सानुज एत्य रामः रमाहरेर्यस्य चकार पूजाम् । पद्यैश्च पञ्चामृत भोग्यशब्दैः लक्ष्मीनृसिंहं शरणं प्रपद्ये ॥ ९॥ समाश्रयार्थन्त्वपराधिवर्गे समागते तत्र निवृत्तवक्त्रम् । श्रीवाक्यसन्तुष्ट कृपार्द्रनेत्रं लक्ष्मीनृसिंहं शरणं प्रपद्ये ॥ १०॥ सञ्चारयोग्यं प्रसमीक्ष्यकालं काले कलौ यस्त्वरयाऽभ्यषिञ्चत् । श्रीवासनामानमहो मुनीन्द्रं लक्ष्मीनृसिंहं शरणं प्रपद्ये ॥ ११॥ समाश्रितानामिह सेवनार्थं अहोबिलेह्यद्यमठे ज्वलन्तम् । सुवर्णडोलाविलसत्स्वरूपं लक्ष्मीनृसिंहं शरणं प्रपद्ये ॥ १२॥ श्रीवण्शठारातियतीन्द्र पूर्वैः स्थानेऽभिषिक्तैर्यतिराजचन्द्रैः । सम्पूजितं ह्यात्मदमात्मदानां लक्ष्मीनृसिंहं शरणं प्रपद्ये ॥ १३॥ अहोबिले गारुडशैलमध्ये कृपावशात् कल्पित सन्निधानम् । लक्ष्म्या समालिङ्गितवामभागं लक्ष्मीनृसिंहं शरणं प्रपद्ये ॥ १४॥ लक्ष्मीनृसिंहार्चन हृष्टचित्तः भक्त्यैव वेदान्तगुरुर्यतीन्द्रः । लक्ष्मीनृसिंहस्य शुभां प्रपत्तिं चक्रे जनानां निखिलार्थसिद्ध्यै ॥ १५॥ इति श्रीमद्भिः श्रीवण्शठकोप पराङ्कुशयतीन्द्र महादेशिकैरनुगृहिता श्रीलक्ष्मीनृसिंहप्रपत्तिः समाप्ता । Composed by HH 24th paTTam SrImat Azhagiya singar
% Text title            : lakShmInRRisiMhaprapattiH 2
% File name             : lakShmInRRisiMhaprapattiH2.itx
% itxtitle              : lakShmInRisiMhaprapattiH 2 (yasyAbhavadbhaktajanArtihantuH)
% engtitle              : lakShmInRRisiMhaprapattiH 2
% Category              : vishhnu, krishna, rAmAnujasampradAya, prapatti
% Location              : doc_vishhnu
% Sublocation           : vishhnu
% Author                : HH 24th paTTam SrImat Azhagiya singar
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Indexextra            : (Meaning, Text)
% Latest update         : July 8, 2023
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org