श्रीलक्ष्मीनृसिंहसुप्रभातम्
श्रीलक्ष्मीनृसिंहगायत्री ।
वज्रनखाय विद्महे तीक्ष्णद्रंष्टाय धीमहि तन्नो नारसिंह प्रचोदयात् ॥
श्रीनृसिंहमन्त्रम् ।
उग्रं वीरं महाविष्णुं ज्वलन्तं सर्वतोमुखम् ।
नृसिंहं भीषणं भद्रं मृत्युमृत्युं नमाम्यहम् ॥
अथ श्रीलक्ष्मीनृसिंहसुप्रभातम् ।
कौसल्या सुप्रजा राम पूर्वा सन्ध्या प्रवर्तते ।
उत्तिष्ठ नरशार्दूल कर्तव्यं दैवमाह्निकम् ॥
श्रीमान् रामानुजार्यो यतिपतिरखिलां स्त्रातुकामस्स्वशिष्यान्
भाष्यं शारीरकार्थप्रकटनमकरोद्बाह्यसिद्धान्तभेत्ता ।
यस्तस्मिन् क्षुभ्यमाणे कथककुलवचो वज्रपातैस्स भूयः
साक्षादुत्प्रेक्ष्यमाणो भवदिति जयतात् श्रीनिवसो यतीन्द्रः ॥ १॥
तव सुप्रभातमरुणाब्जलोचने
तरुणेन्दुबिम्बवदनेऽघमोचने ।
शरणागतार्तिहरणाय दीक्षीते
करुणारसौघवरुणालयेक्षिते ॥ २॥
तव सुप्रभातममरेन्द्रसुन्दरि
करपल्लवात्तकलतोरुमालिनि ।
क्षणरुक्सहस्रतुलिताङ्गसौभगे
कनकाञ्चितोरुमणिकुण्डलाञ्छिते ॥ ३॥
तव सुप्रभातमसुरारिवल्लभे निजवल्लभाङ्कसरसासरोरुहे ।
करपल्लवात्तजलजातकुड्मले रविकोटिभासि कुरुविन्दमौलिके ॥ ४॥
तव सुप्रभातमखिलार्तिभञ्जनि
प्रणतार्तभक्तजनचित्तरञ्जनि ।
वरतापनीयविदितात्मवैभव-
प्रियवक्त्रचन्द्रसुचकोरलोचने ॥ ५॥
देवाश्चतुर्मुखपुरन्दरशङ्कराद्या-
स्सिद्धास्सनातनसनन्दननारदाद्याः ।
त्वामर्चितुं विविधपुष्पकराश्चरन्ति
लक्ष्मीनृकेसरिविभो तव सुप्रभातम् ॥ ६॥
देवो दिवाकर इह प्रथितप्रकाशो
दिव्यैः करैस्त्वदनघाङ्घ्रियुगं सहस्रैः ।
संवाहितुं भृशमुदेति हरेर्दिशायां
लक्ष्मीनृकेसरिविभो तव सुप्रभातम् ॥ ७॥
वेदाश्च सामयजुरादय आविभान्ति
शब्दैरलक्षितगुणैस्स्वगुणं स्तुवन्तः ।
त्वल्लिङ्गनामगुणकीर्तनलब्धभावाः
लक्ष्मीनृकेसरिविभो तव सुप्रभातम् ॥ ८॥
विप्रास्स्वनुष्ठितगरिष्ठगुणक्रियाद्याः
स्नाता विशुद्धमनसो विमलैर्वचोभिः ।
त्वां स्तोतुमद्य विविधैः प्रणताश्चरन्ति
लक्ष्मीनृकेसरिविभो तव सुप्रभातम् ॥ ९॥
उच्चैश्श्रवस्तुलित एष विभाति तेऽश्वः
स्तम्बेरमामदजलाप्लुतगण्डदेशाः ।
भृत्याश्च ते करयुगोद्धृतचामराद्याः
लक्ष्मीनृकेसरिविभो तव सुप्रभातम् ॥ १०॥
धेनुः पुरन्दरपुरान्तरभूषणं सा
त्वत्किङ्करत्वकरणाय धरामवाप्य ।
त्वद्दृष्टिभावितसुधामसुधासुधारां
आकाङ्क्षते नरहरे तव सुप्रभातम् ॥ ११॥
भृत्योऽहमद्य यतिरूपमुपेयिवांस्ते
पादाम्बुजद्वयपरीचरणाय यत्तः ।
जागर्मि विश्वगुणनिर्मितनर्मशील
लक्ष्मीनृकेसरिविभो तव सुप्रभातम् ॥ १२॥
वाराशिराजतनयानयानाम्बुजात-
माध्वीरसज्ञनयनाख्यमिलिन्दयुग्मम् ।
सञ्चारयाद्य विनतेषु तदीयभक्ति-
सारग्रहाय नृहरे तव सुप्रभातम् ॥ १३॥
सह्यापगोत्तरतरङ्गविभङ्गसङ्ग-
तुङ्गाङ्गशीतिममरुज्जडिमोत्तरङ्गे ।
रङ्गे विहाय रुचिमत्र विराजसे त्वं
श्रीरङ्गनायकविभो तव सुप्रभातम् ॥ १४॥
नारायणाद्रिविसरद्विपुलस्रवन्ती
निष्क्रान्तनिर्झरझलञ्झलगाढशब्दैः ।
अस्पृष्टमानस इवात्र विहारकाङ्क्षी
त्वं भासी वेङ्कटपते तव सुप्रभातम् ॥ १५॥
गोपीगृहान्तरुपकल्पितमन्थनात्त-
हय्यङ्गवीनहृतिकल्पितनृत्तजातम् ।
अद्यापि तथ्यमिह कर्तुमिवासि तादृग्-
रूपो यदूत्तमविभो तव सुप्रभातम् ॥ १६॥
इत्थं रमानृहरिरङ्गधुरीणशेष-
शेलैश यादवकुलाधिप सुप्रभातम् ।
भक्त्या परं व्यतनुताखिलसाधुभाव्यं
श्रीश्रीनिवासनिगमान्तयतिर्विशुद्धः ॥ १७॥
इति श्रीलक्ष्मीनृसिंहसुप्रभातं सम्पूर्णम् ।
Encoded by Ganesh Kandu kanduganesh at gmail.com
Proofread by Ganesh Kandu, PSA Easwaran