माधव! स्मरसि न गोकुलवासम्?
माधव! स्मरसि न गोकुलवासम्? ॥
मधुवनकुञ्जभवनलीलामयव्रजबालापरिहासम् ।
माधव! स्मरसि न गोकुलवासम्? ॥
अधरामृतपूरितमुरलीरवरञ्जितभावविलासम् ।
विविधभावभङ्गिमचेतोहरगोपीगोपसुलासम् ।
माधव! स्मरसि न गोकुलवासम्? ॥
यमुनाकूलकदम्बवृक्षतलकृतगोपीजनहासम् ।
राकापतिकररञ्जितरजनीरागमयं निजरासम् ।
माधव! स्मरसि न गोकुलवासम्? ॥
देवराजप्रेषितसंवर्तकवारिवाहकृतत्रासम् ।
करधृतनग! नगभिदनुज! स्मरसि न परिहृतभय निजदासम् ।
माधव! स्मरसि न पूर्वनिवासम्? ॥
-- आचार्य डाॅ जयमन्त मिश्र
Encoded and proofread by samskrit.samvadah at gmail.com