श्रीमट्टपल्लिनृसिंहमङ्गलाष्टकम्
मट्टपल्लिनिवासाय मथुरानन्दरूपिणे ।
महायज्ञस्वरूपाय श्रीनृसिंहाय मङ्गलम् ॥ १॥
कृष्णवेणीतटस्थाय सर्वाभीष्टप्रदायिने ।
प्रह्लादप्रियरूपाय श्रीनृसिंहाय मङ्गलम् ॥ २॥
कर्तस्थिताय धीराय गम्भीराय महात्मने ।
सर्वारिष्टविनाशाय श्रीनृसिंहाय मङ्गलम् ॥ ३॥
ऋग्यजुस्सामरूपाय मन्त्रारूढाय धीमते ।
श्रितानां कल्पवृक्षाय श्रीनृसिंहाय मङ्गलम् ॥ ४॥
गुहाशयाय गुह्याय गुह्यविद्यास्वरूपिणे ।
कुहरान्ते विहाराय श्रीनृसिंहाय मङ्गलम् ॥ ५॥
श्रीपल्यद्रिमध्यस्थाय निधये मधुराय च ।
सुखप्रदाय देवाय श्रीनृसिंहाय मङ्गलम् ॥ ६॥
तापनीयरहस्याय तापत्रयविनाशिने ।
नतानां पारिजाताय श्रीनृसिंहाय मङ्गलम् ॥ ७॥
राज्यलक्ष्म्या समेताय रागद्वेषविनाशिने
मट्टपल्लिनिवासाय श्रीनृसिंहाय मङ्गलम् ॥ ८॥
श्री अक्षयतृतीयायां निजरूपधराय च ।
श्रीवराहनृसिंहाय सिंहाद्रीशाय मङ्गलम् ॥ ९॥
मट्टप्पल्यां नङ्गैनल्लूरागताय स्थिराय च ।
नङ्गैनल्लूर् निवासाय श्रीनृसिंहाय मङ्गलम् ॥ १०॥
मुक्कूर् नृसिंहदासेन प्रोक्तं मङ्गलमद्भुतम् ।
यः पठेच्छ्रद्धया भक्त्या सर्वपापैर्विमुच्यते॥ ११॥
इति श्रीमट्टपल्लिनृसिंहमङ्गलाष्टकम् ।
Proofread by PSA Easwaran