महादेवकृतं २ विष्णुस्तोत्रम्

महादेवकृतं २ विष्णुस्तोत्रम्

श्रीमहादेव उवाच । देवदेव जगद्व्यापिन् जगदीश जगन्मय । सर्वेषामपि भावानां त्वमात्मा हेतुरीश्वरः ॥ ४॥ आद्यन्तावस्य यन्मध्यमिदमन्यदहं बहिः । यतोऽव्ययस्य नैतानि तत्सत्यं ब्रह्म चिद्भवान् ॥ ५॥ तवैव चरणाम्भोजं श्रेयस्कामा निराशिषः । विसृज्योभयतः सङ्गं मुनयः समुपासते ॥ ६॥ त्वं ब्रह्म पूर्णममृतं विगुणं विशोक- मानन्दमात्रमविकारमनन्यदन्यत् । विश्वस्य हेतुरुदयस्थितिसंयमाना- मात्मेश्वरश्च तदपेक्षतयानपेक्षः ॥ ७॥ एकस्त्वमेव सदसद्द्वयमद्वयं च स्वर्णं कृताकृतमिवेह न वस्तुभेदः । अज्ञानतस्त्वयि जनैर्विहितो विकल्पो यस्माद्गुणव्यतिकरो निरुपाधिकस्य ॥ ८॥ त्वां ब्रह्म केचिदवयन्त्युत धर्ममेके एके परं सदसतोः पुरुषं परेशम् । अन्येऽवयन्ति नवशक्तियुतं परं त्वां केचिन्महापुरुषमव्ययमात्मतन्त्रम् ॥ ९॥ नाहं परायुरृषयो न मरीचिमुख्या जानन्ति यद्विरचितं खलु सत्त्वसर्गाः । यन्मायया मुषितचेतस ईश दैत्य- मर्त्यादयः किमुत शश्वदभद्रवृत्ताः ॥ १०॥ स त्वं समीहितमदः स्थितिजन्मनाशं भूतेहितं च जगतो भवबन्धमोक्षौ । वायुर्यथा विशति खं च चराचराख्यं सर्वं तदात्मकतयावगमोऽवरुन्त्से ॥ ११॥ अवतारा मया दृष्टा रममाणस्य ते गुणैः । सोऽहं तद्द्रष्टुमिच्छामि यत्ते योषिद्वपुर्धृतम् ॥ १२॥ येन सम्मोहिता दैत्याः पायिताश्चामृतं सुराः । तद्दिदृक्षव आयाताः परं कौतूहलं हि नः ॥ १३॥ इति श्रीमद्भागवतमहापुराणे अष्टमस्कन्धे द्वादशाध्यायान्तर्गतं महादेवकृतं विष्णुस्तोत्रं समाप्तम् । भागवतपुराण । अध्याय ८/१२/४-१३॥ bhAgavatapurANa . adhyAya 8/12/4-13.. Proofread by PSA Easwaran
% Text title            : Mahadevakritam 2 Vishnu Stotram
% File name             : mahAdevakRRitaM2viShNustotram.itx
% itxtitle              : viShNustotram (mahAdevakRitaM 2 bhAgavatapurANAntargatam devadeva jagadvyApin jagadIsha jaganmaya)
% engtitle              : mahAdevakRRitaM 2 viShNustotram
% Category              : vishhnu, vishnu, bhAgavatapurANa, stotra
% Location              : doc_vishhnu
% Sublocation           : vishhnu
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : PSA Easwaran
% Description/comments  : bhAgavatapurANa | adhyAya 8/12/4-13||
% Indexextra            : (Text 1, 2, 3, Scans 1, 2, 3, 4, 5, 6, Hindi)
% Latest update         : September 23, 2025
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org